| YouTube Channel

एकाक्षः (ekAkSaH)

 
Apte Hindi
Hindi
एकाक्षः
पुं*
एक-अक्षः -
कौआ
एकाक्षः
पुं*
एक-अक्षः -
शिव
E Bharati Sampat
Sanskrit
(पुं) एकम् अक्षि यस्य १.काकः। (वि) २.एकनेत्रविशिष्टः काणः।
Wordnet
Sanskrit
Synonyms:
एकाक्षः
noun
दानवविशेषः।
"एकाक्षस्य वर्णनं पुराणेषु अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
एकाक्षः,
पुं,
(एकमक्षि यस्य सक्थ्यक्ष्णोः साङ्गात्षच् ।) काकः इति शब्दचन्द्रिका
(काकस्य यथाएकनेत्रत्वं जातम् तत् पाद्मे भरतस्यायोध्यांप्रतिनिवृत्त्यनन्तरमुक्तम् तद्यथा, --“राघवश्चित्रकूटाद्रौ सानुजोऽरमत स्त्रिया ।कदाचिदङ्के वैदेह्या निद्राणे रघुनन्दने
ऐन्द्रः काकः समागम्य जानकीं वीक्ष्य कामुकः ।विददार नखैस्तीक्ष्णैः पीनोन्नतपयोधरम्
तत् दृष्ट्वा राघवः क्रुद्धः कुशं जग्राह पाणिना ।ब्राह्मेणास्त्रेण संयोज्य चिक्षेप धाङ्क्षमारणे
तत् दृष्ट्वा घोरसङ्काशं ज्वलत्कालानलोपमम् ।दृष्ट्वा काकः प्रदुद्राव निनदन् दारुणस्वनम्
वायसस्त्रिषु लोकेषु बभ्राम भयपीडितः ।यत्र यत्र ययौ काकः शरणार्थी वायसः
तत्र तत्र तदस्त्रं तु प्रविवेश भयावहम् ।ब्रह्माणमिन्द्रं रुद्रं मां शरणार्थी जगाम सः
तत् दृष्ट्वा वायसं भीतं देवता ररक्षिम ।न शक्ताः स्म वयं त्रातुं राघवास्त्राद्भयङ्करात्
इत्यब्रूम महादेवा अन्यथास्त्रं दहेच्च नः ।पुनश्चागात् विधिं काको दयया विधिराह तम्
भो भो बलिभुजां श्रेष्ठ तमेव शरणं व्रज ।स एव रक्षकः श्रीशः शरणागतवत्सलः
इत्युक्तः सोऽथ बलिभुक् ब्रह्मणा रघुनन्दनम् ।उपेत्य सहसा भूमौ निपपात भयातुरः
प्राणसंशयमापन्नं दृष्ट्वा सीता तु वायसम् ।त्राहि त्राहीति भर्त्तारमुवाच दयिता विभुम्
तच्छिरः पादयोस्तस्य युयुजे चाथ जानकी ।तमुत्थाप्य करेणाथ कृपापीयूषसागरः ।ररक्षामौ निजास्त्राय तदेकाक्षि ददौ तदा
वावसोऽपि मुहुर्नत्वा सीतायै राघवाय ।स्वर्लोकं प्रययौ हृष्टो राघवेणाभिपालितः”
)एकनेत्रविशिष्टे काणे त्रि