| YouTube Channel

एकरम (ekarama)

 
वाचस्पत्यम्
Sanskrit
एकरम
त्रि०
एकोऽनन्यविषयकोरसः रागः अभिप्रायः एको-ऽभिन्नः खभावो वाऽस्य एकरागे एकाभिप्राये अ-भिन्नस्वमावे “अस्थूलमनण्वह्रस्वमदेर्घममनन्तमनपरम-बाह्यं प्रज्ञानघनमेकरसम्” इति श्रुतिः “चिदेकरसवस्तुनिवेदा० एकोरसोयत्र एकरागविषये
त्रि०
“तपस्येकरसे रतम्” रामा० एकोरसोवर्ण्यत्वेन यत्र प्राधा-न्येन एकरसयुक्ते नाटके
न०
“एकएव भवेदङ्गी शृ-ङ्गारो वीरएव वा अङ्गान्यन्येरसास्तत्र” इति सा० द०उक्तेः नाटकस्य प्राधान्येन शृङ्गारवीररसान्यतरवत्त्वेनवर्णनीयत्वात्तथात्वम्