| YouTube Channel

एकपदः (ekapadaH)

 
E Bharati Sampat
Sanskrit
(पुं) एकं पदं पदविन्यासः यस्मिन् १.शृङ्गारबन्धविशेषः। ‘पादमेकं हृदि स्थाप्य द्वितीयं स्कन्धसंस्थितम् स्तनौ धृत्वा रमेत् कामी बन्धस्त्वेकपदः स्मृतः’ रतिमञ्जरी (वि) २.एकपदविशिष्टः। ‘पादैन्यूनं शोचसि मैकदादमात्मानं वा वृषलैर्भोक्ष्यमाणम्’ भाग०१.१६.२०। (न) एकं पदं पदमात्रोच्चारणयोग्यकालः यत्र ३.तत्कालः तत्क्षणम् ‘एकपदं तत्काले नपुंसकम्’ मेदिनी०। ‘कथमेकपदे निरागसं जनमाभाष्यमिमं मन्यसे’ रघुः ८.४८। ४.सुप्तिङ्न्तरूपपदम् ‘निहन्त्यरीनेकपदे उदात्तः स्वरानिव’ माघः २.९५। (वि) ५.एकपदेनोच्यमानम् ‘किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः। किंस्विदेकपदं स्वर्गं किंस्विदेकपदं सुखम् ।’ ‘दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः। सत्यमेकपद्ं स्वर्ग्यं शीलमेकपदं सुखम्’ भा०वन०३१४.७२, ७२। (अ) ६.पदे पदे ७.तत्क्षणम् ‘अयमेकपदे तया वियोगः प्रिययाचोपनतः सुदुःसहो मे’ विक्र०४.१०। (स्त्री) एकपदा ७.एकपदी श्लोकः। ‘गायत्र्यस्यैकपदी द्विपदी त्रिपदी’ श्रुतिः। ८.एकपदा स्त्री ९.लघुमार्गः। ‘अवाप्यते वा किमियद्वत्या चित्तैकपद्याम..विद्यते यः’ नैष०३.६३। ‘सरणिः पद्धतिः पद्या वर्तन्येकपदीति च’ अमरः।
Wordnet
Sanskrit
Synonyms:
एकपदः
noun
एका अद्भुता जातिः
"एकपदस्य उल्लेखः वराहमिहिरस्य बृहत्संहितायाम् अस्ति"
शब्दकल्पद्रुमः
Sanskrit
एकपदः,
पुं,
(एकं पदं पदविन्यासो यस्मिन् ।) शृङ्गार-बन्धविशेषः तस्य लक्षणम् ।पादमेकं हृदि स्थाप्य द्वितीयं स्कन्धसंस्थितम् ।स्तनौ धृत्वा रमेत् कामी बन्धस्त्वेकपदः स्मृतः”
इति रतिमञ्जरी
(वास्तयागमण्डलैककोष्ठपूज-नीयो देवभेदः यथा वास्तुयागतत्त्वधृतदेवी-पुराणवचनम् “भृगुश्चैकपदो ज्ञेयः” इति ।एकं पदं चरणं यस्य इति विग्रहे वाच्यलिङ्गः ।एकपदविशिष्टः यथा भागवते १६ २० ।“पादैर्न्यूनं शोचसि मैकपाद-मात्मानं वा वृषलैर्भोक्ष्यमाणम्”
एकेन पदा चरन् वृषरूपधरो धर्म्मो गोरूपधरांपृथ्वीं रुदतीं दृष्ट्वोवाच हे भद्रे ! पादैर्न्यूनं एक-पादं मां तथा शूद्रैर्भोक्ष्यमाणमात्मानं वा शोचसिकिम् इति तट्टीका
)