| YouTube Channel

एकधुरः (ekadhuraH)

 
E Bharati Sampat
Sanskrit
(वि) एकधुरां वहति एकधूः+अः। ‘ऋक्पूरब्धूः पथामानक्षे’ ५.४.७४। ‘एकधुराल्लुक्’ ४.४.७९। एकभारवाहकः एकधुरीणः। ‘उभावेकधुरीणैकधुरावेकधुरावहे’ अमरः। भारवाहकाः वृषभादयः।
शब्दकल्पद्रुमः
Sanskrit
एकधुरः, त्रि, (एका धूः ॠक्पूरब्धूःपथामानक्षे” ।५ ७४ इति अः समासान्तः ।) एकभार-वाहकगवादिः एकपिठा गरु इति भाषा तत्प-र्य्यायः एकधुरीणः एकधुरावहः इत्यमरः
(यथा, पाणिनिः ७९ “एकधुरान्नुक्” ।)