| YouTube Channel

एकत्रिक (ekatrika)

 
Monier Williams Cologne
English
एक—त्रिक
m.
N.
of a particular Ekāha sacrifice,
KātyŚr.
ĀśvŚr.
&c.
वाचस्पत्यम्
Sanskrit
एकत्रिक
पु०
अन्नाद्यकामकर्त्तव्ये एकाहसाध्ये यागभेदे “एकत्रि-केण त्र्येकेण वान्नाद्यकामेन” आश्व० श्रौ० ९, ५, १३, सू० ।“एकत्रिकः त्र्येकश्च द्वावेकाहौ तयोरन्यतरेणान्नाद्यकामोयजेत एकत्रिक एवं भवति एकस्तोमो बहिष्पवमानःत्रिस्तोमोहोतुराज्यम्, एवं व्यत्यासेन सर्वत्रेतौ स्तोमौभवतः त्र्येकस्त्वेतावेव स्तोमौ विपरीतौ भवतः त्रिस्तोमोबहिष्पवमानः एकस्तोमोहोतुराज्यम् एवमेवव्यत्यस्य व्यत्यस्य समापयेत्” नारा० कात्या० २२, ३, २४, २५, २६ सूत्रैः तस्य साद्यस्क्रत्वेन परिभाषां कृत्वा तद्विधानाद्युक्तम् “षट् साद्यस्क्राः” सू० इत्युपक्रम्य पञ्चक्रतूत्क्रमेण प्रदर्श्य षष्ठमेकत्रिकं प्रतिपादयितुं तद्धर्माःप्रथममुक्ताः “साद्यस्क्रधर्म्मा हिरण्यस्रग्वत्” २४ सू० ।“साद्यस्क्रशब्देनात्र श्येनोऽभिधीयते तस्य धर्म्मालोहिती-ष्णीषादयः हिरण्यस्रग्वत् यद्यस्योपमुक्तं तत्तस्य भवति”कर्कः “साद्यस्क्रधर्म्मा लोहितवस्त्रादय यथा वाजपेयेहिरण्यस्रजो यथोपमुक्तं दीयन्ते एवमत्रापि येन यद्व-स्त्रादि परिहितं तत्तस्मै देयम्” संग्र० “एकत्रिके दक्षि-णा षष्टिशतं षट् २५ सू० एकत्रिकः षष्ठः साद्यस्क्रःतत्र षट्षष्टिशतं दक्षिणा” कर्कः इतःपरं साद्यक्रधर्म्माः२६ सूत्रजातैः उक्ताः तत्र स्तोमादि सामसं० भा०निरूपित यथा“एकत्रिकनामकः कश्चित् क्रतुर्भवति, सर्चैवं श्रूयते“अथैष एकत्रिकस्तस्यैकस्यां बहिष्पवानम् तिसृषुहोतुराज्यम् एकस्यां मैत्रावरुणस्य तिसृषु ब्राह्मणा-च्छंसिनः, एकस्यामच्छावाकस्य तिसृषु माध्यन्दिनःपवमानः” इति सन्ति प्रकृतौ माध्यन्दिनपवमानस्यत्रयस्तृचाः “उचा ते जातम्” इत्ययं (उ प्र, सू०२, ऋ०) प्रथमोगायत्रीच्छन्दस्कः, “पुनानः सोम” इत्ययं(उ प्र, सू० १, २, ऋ) द्वितोयोवृहतीच्छन्दस्कृः, “प्र तुद्रवा” इत्ययं (उ ११ प्र, १० सू० १, २, ऋ) तृतीयस्त्रि-ष्टुप्छन्दसकः एतदेवाभिप्रेत्य श्रुतम्, त्रिच्छन्दआवा-पोमाध्यन्दिनः इति एवं सति एकत्रिकस्य माध्यन्द्रि-नपवमाने तिसृष्विति यदुक्तं तत्र किं त्रयाणां तृचाना-माद्यस्तिस्रः ऋचो ग्राह्याः? किं वा प्रथमतृचस्थाः क्रम-पटितास्तिस्रः? इति संशयः तत्र त्रिच्छन्दस्त्वश्रुत्याप्रबलया दुबलं पाथक्रमं बाधित्वा प्रथमपक्षो ग्राह्यःइति प्राप्ते, अभिधीयते यदेतत् त्रिच्छन्दस्त्वं तदेतत्प्राकृतम्, तत्र छन्दस्त्रयोपेतस्य तृचत्रयस्योपदिष्टत्वात्विकृतावपि तत्सर्वमतिदिष्टमिति चेत् वाढम्! अत एवपाठक्रमोऽप्य तिदिष्टः, तथा सति प्रक्रान्तगायत्रीच्छन्द-स्कस्य तृचस्य समाप्तौ सत्यां पश्चाद् वृहतीच्छन्दस्के तृचेप्रथमायाः ऋवः प्रारम्भावसरः चारम्भस्तिसृषु इतिविशेषविधानेन बाध्यते, तस्म दाद्य स्तृचोनिखिलोग्राह्यः”