| YouTube Channel

एकजटा (ekajaTA)

 
Monier Williams Cologne
English
एक—जटा
f.
N.
of a goddess,
Tantras.
[T. ]
Edgerton Buddhist Hybrid
English
Ekajaṭā,
(1) n. of a goddess, form of Tārā (= Ekajaṭī): Sādh 〔254.1〕 etc.
(2) n. of a mahāpiśācī (the same?): Māy 〔242.29〕.
Wordnet
Sanskrit
Synonyms:
एकजटा
noun
एका देवी
"एकजटायाः उल्लेखः तन्त्रसारे अस्ति"
पुराणम्
English
एकजटा / EKAJAṬĀ. A demoness of the castle of rāvaṇa. This demoness talked very enticingly to coax sītā to surrender herself to rāvaṇa. (sarga 23, vālmīki rāmāyaṇa, sundara Kāṇḍa).
शब्दकल्पद्रुमः
Sanskrit
एकजटा,
स्त्री,
(एका जटा यस्याः ।“एषैवैकजटा ख्याता यस्मात्तस्या जटाधिका’ ।इति श्रवणात् यद्वा एका मुख्या जटा यस्याः ।“खंलिखन्तीं जटामेकां बिभ्रतीं शिरसा स्वयम्” ।इति श्रवणात्तथात्वम् ।) उग्रतारा तस्याआविर्भावो यथा, --“सर्व्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम् ।गङ्गावतारनिकटे महामायां प्रतुष्टुवुः
अनेकसंस्तुता देवी तदा सर्व्वामरोत्करैः ।मातङ्गवनितामूर्त्तिर्भूत्वा देवानपृच्छत
युष्माभिरमरैरत्र स्तूयते का भाविनी ।किमर्थमागता यूयं मातङ्गस्याश्रमं प्रति
एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः ।समुद्भूताब्रवीद्देवी मां स्तुवन्ति सुरा इति
शुम्भो निशुम्भो ह्यसुरौ बाधेते सकलान् सुरान् ।तस्मात्तयोर्ब्बधायाहं स्तूयेऽद्य सकलैः सुरैः
विनिःसृतायां देव्यान्तु मातङ्ग्याः कायतस्तदा ।भिन्नाञ्जननिभा कृष्णा साभूत् गौरी क्षणादपि
कालिकाख्याभवत् सापि हिमाचलकृताश्रया ।तामुग्रतारामृषयो वदन्तीह मनीषिणः
उग्रादपि भयात् त्राति यस्माद्भक्तान् सदाम्बिका ।एतस्याः प्रथमं वीजं कथितं तन्त्रमेव
एषैवैकजटा ख्याता यस्मात्तस्या जटाधिका ।शृणुतं चिन्तनं चास्याः सम्यक् वेतालभैरवौ
यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभीप्सितम् ।चतुर्भुजां कृष्णवर्णां मुण्डमालाविभूषिताम्
खङ्गं दक्षिणपाणिभ्यां बिभ्रतीन्दीवरं त्वधः ।कर्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रतीम्
खं लिखन्तीं जटामेकां बिभ्रतीं शिरसा स्वयम् ।मुण्डामालाधरां शीर्षे ग्रीवायामपि सर्व्वदा
वक्षसा नागहारन्तु बिभ्रतीं रक्तलोचनाम् ।कृष्णवस्त्रधरां कट्यां व्याघ्राजिनसमन्विताम्
वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ।विन्यस्य सिंहपृष्ठे तु लेलिहानासवं स्वयम्
साट्टहासमहाघोरा रावयुक्तातिभीषणा ।चिन्त्योग्रतारा सततं भक्तिमद्भिः सुखेप्सुभिः
*
एतस्याः संप्रवक्ष्यामि या अष्टौ योगिनीस्तु ताः ।महाकाल्यथ रुद्राणी उग्रा भीमा तथैव
घोरा भ्रामरी चैव महारात्रिश्च सप्तमी ।भैरवी चाष्टमी प्रोक्ता योगिनीस्ताः प्रपूजयेत्”
इति कालिकापुराणे ६१ अध्यायः
वाचस्पत्यम्
Sanskrit
एकजटा स्त्री एका जटा यस्याः सर्व्व तारिणीगणप्रकृतिरूपेदे-वीभेदे तदाविर्भावः कालिका० ६१ अ० वर्ण्णितो यथा “सर्वेसुर-गणाः सेन्द्रास्ततीगत्वा हिमाचलम् गङ्गावतारनिकटे म-हामायां प्रतुष्टुवुः अनेकशः स्तुता देवो तदा सर्वामरोत्करैः मातङ्गवनिताभूर्त्तिर्भूत्वा देवानपृच्छत युष्मा-भिरमरैरत्र स्तूयते का भाविनी किमर्थमागता-यूयं मातङ्गस्याश्रमं प्रति एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तुकायकोषतः समुद्भूता ब्रवीद्देवी मां स्तुवन्ति सुरा इति ।शुम्भो निशुम्भोह्यसुरौ बाधेते सकलान् सुरान् तस्मात्तयोर्बधायाहं स्तुयेऽद्य सकलैः सुरैः विनिःसृतायं देव्यान्तु-मातङ्ग्याः कायतस्तदा भिन्नाञ्जननिभा कृष्णा साभूत्गौरी क्षणादपि कालिकाख्याऽभवत् सापि हिमाचलकृताश्रया तामुग्रतारामृषयो वदन्तीह मनीषिणः ।उग्रादपि भयात् त्राति यस्माद्भक्तान् सदाम्बिका एतस्याःप्रथमं वीजं कथितं तन्त्रमेव एषैवैकजटा ख्यातायस्मात्तस्या जटैकिका शृणुतं चिन्तनं चास्याः सम्यक्वेतालभैरवौ! यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभो-प्सितम् चतुर्भुजां कृष्णवर्णां मण्डमालाविभूषिताम् ।खड्गं दक्षिणपाणिभ्यां बिभ्रतीन्दीवरं त्वधः कर्त्रीञ्चखपरञ्चैव क्रमाद्वामेन बिभ्रती स्वं लिखन्ती जटामेकांबिभ्रती शिरसा स्वयम् मुण्डमालाधरा शीर्षे ग्रीवाया-मपि सर्वदा वक्षसा नागहारन्तु बिभ्रती रक्तलोचना ।कृष्णवस्त्रधरां कट्यां व्याघ्राजिनसमन्विता वामपादंशवहृदि संस्थाप्य दक्षिणं पदम विन्यस्य सिंहपृष्ठे तु ले-लिहानाऽऽसवं स्वयम् साट्टहासमहाघोरारावयुक्ताऽतिभीषणा चिन्त्योग्रतारा सततं भक्तिमद्भिः सुखेप्सुभिः ।एतस्याः संप्रवक्ष्यामि या अष्टौ योगिन्योमताः महा-काल्यथ रुद्राणी उग्रा भीमा तथैव घोरा भ्राम-री चैव महारात्रिश्च सप्तमी भैरवी चाष्टमी प्रोक्तायोगिनीस्तु प्रपूजयेत्” तन्त्रसा० पञ्चाक्षरीं विद्यांप्रदर्श्य “पञ्चाक्षरी एकजटा(ओम्)ताराभावे महेश्वरि! ।(ओम्) ताराद्या तु भवेद्देवि! श्रीमन्नीलसरस्वती” “अन्यासांविद्यानामेकजटैव देवता प्रकृतित्वात्” कृष्णा० तद्भेदाश्च“ताराचोग्रा महोग्रा वज्रा काली सरस्वती कामेश्वरी चामुण्डा इत्यष्टौ तारिणीभिदाः” तन्त्रसा०