ऋतुसन्धि (Rtusandhi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
Englishऋतुसन्धि - Rtusandhi - - transition from one season to the next one
ऋतुसन्धि - Rtusandhi - - junction of two fortnights
ऋतुसन्धि - Rtusandhi - - days of new and full moon
ऋतुसन्धि - Rtusandhi - - junction of two seasons
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiऋतुसन्धिः
ऋतु-सन्धिः -
दो ऋतुओं का मिलन
Shabdartha Kaustubha
Kannadaऋतुसन्धि
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಎರಡು ಋತುಗಳು ಸೇರುವ ಕಾಲ /ಅಮಾವಾಸ್ಯೆ
व्युत्पत्तिः - > ऋत्वोः मासयोः सन्धिः
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritऋतुसन्धि ऋत्वोः सन्धिः । दर्शान्तमुख्यचान्द्रमासपक्षे१ दर्शे, पौर्णमासान्तगौणचान्द्रमासपक्षे २ पौर्ण्णमास्याम् ।ऋतोर्मासघटितत्वात् भासस्य च पर्व्वसन्धियुक्तत्वेनपर्वसन्धिरेव ॠतुसन्धिः अतः प्रसङ्गात् पर्व्वस-न्धिर्निरूप्यते स च कालमा० उक्तः यथा “कुहूव्य-तिरिक्तानां लघ्वक्षरीच्चारणपरिमितः कालः सन्धि-रित्युच्यते कुहूस्त्वक्षरद्वयपरिमितः कालः तदेतदुक्तंभगवतीपुराणे “अनुमत्याश्च राकायाः सिनीवाल्याः कुहूंविना । एतासां द्विलवः कालः कुहूमात्रा कुहूः स्मृतेति” तत्रलवस्वरूपं स्मृत्यन्तरे दर्शितम् “लघ्वक्षरचतुर्भागस्त्रुटि-रित्यभिधीयते । त्रुटिद्वयं लवः प्रोक्तो निमेषस्तु लवद्वय-मिति” एवं च सति त्रुटिशब्दाभिधेयानां भागानां चतुष्टयंलवद्वयरूपं लघ्वक्षरसमं भवति तस्मिन् लघ्वक्षरपरिमितेकाले एकः पर्वणोभागः, द्वितीयः प्रतिपदः, तदुभयं मिलि-त्वा सन्धिर्भवति कुहूप्रतिपदोः सन्धिस्तु पूर्वस्मात् द्विगुणःअक्षरद्वयपरिमितत्वात् मत्स्य ब्रह्माण्डपुराण्णयोः “राका-चानुमतिश्चैव सिनीवाली कुहूस्तथा । एतासां द्विलवःकालः कुहूमात्रा कुहूस्तथा । कुह्वितिकोकिलेनोक्ते यावान्कालः समाप्यते । तत्कालसंमिता चैषा अमावस्या कुहूःस्मृता । इत्येष पर्वसन्धीनां कालोयोद्विविधः स्मृत” इति ।एवं सन्धौ निरूपिते सति योऽयं प्रक्रान्तोविचारस्तत्रसन्धिरेवेष्टिकाल इति तावत् प्राप्तम् “सन्धौ यजेतेति” श्रुतेःमैवं सूक्ष्मत्वात्तत्र यागानुष्ठानानुपपत्तेःका तर्हि श्रुते-र्गतिः पार्श्वद्वयलक्षणेति ब्रूमः यथा गङ्गायां घोप इत्यत्रगङ्गाशब्दः प्रवाहेऽनुपपन्नस्तत्समीपं तीरं लक्षयति तथासन्धिशब्दोऽपि पार्श्वद्वयं लक्षयतु । अतएव श्रुत्यन्तरं “स-न्धिमभितो यजेतेति” वौधायनोऽपि “सूक्ष्मत्वात् सन्धि-कालस्य सन्धेर्विषय उच्यते । सामीप्यं विषयं प्राहुःपूर्वेणाप्यपरेण चेति” अत्र पूर्वापरशब्दाभ्यां सन्धेः प्राचीनंप्रतिपद्दिनं चाभिधीयते । तत्र पूर्व्वस्मिन्पर्वदिने प्रयोग-प्रारम्भः नोत्तरस्मिन्, प्रतिपद्दिने यागसमाप्तिः अन्वाधा-नमिध्मावर्हिःसम्पादनमग्निपरिग्रहणमुपस्तरणं चेत्येवमादिप्रयोगप्रारम्भः स पूर्वेदुरिनुष्ठेयः तथा च तैत्तिरीयब्राह्मणे श्रूयते “पूर्व्वेद्युरिध्मावर्हिः करोति यज्ञमेवारम्यगृहीत्वोपवसतीति” शतपथब्राह्मणेऽपि “पूर्वेद्युरग्निं गृ-ह्णाति उत्तरमहर्यजतीति” तत्र ग्रहणं नामाध्वर्युणा आहवभीयगार्हपत्यदक्षिणाग्निषु “ममाग्रे वर्च” इत्यादिभिरृ-ग्निः समिदाधानलक्षणे अन्वाधाने क्रियमाणे पार्श्ववर्त्तिनायजमानेनाग्रिं गृह्णामीत्यादीनां मन्त्राणां पठनं तदिदंपर्वदिने क्रियते । प्रतिपद्दिने तु “कर्मणे वां देवेभ्य” इ-त्यादिभिरध्वर्युर्हस्तप्रक्षालनतण्डुलनिर्वापपुरोडाशप्रदानादिलक्षणप्रयोगं करोति तदिदं यजनम् । एतदेवाभिप्रेत्य गो-भिल आह “पक्षान्ता उपवस्तव्याः पक्षादयोऽपि यष्टव्याः”इति अत्रोपवासशब्देनाग्न्युपस्तरणीदिर्विवक्षितः तस्मिन्क्रियमाणे यजमानसमीपे देवतानां निवासात् तदेतत्तै-त्तिरीयब्राह्मणे दर्शितम् “उपास्मिन् श्वो यक्ष्यमाणे देवताःमन्ति य एवंविद्वानग्निमुपस्तृणातीति” उपवासशब्दाभि-धेयस्य पर्वदिने कर्त्तव्यस्यान्वाधानादेः पर्ब्धणि चतुरंशवति आद्यास्त्रयोऽंशाविहितः कालः न तु चतुर्थोऽंशःयागशब्दाभिधेयस्य पुरोडाशप्रदानादेः पूर्वोक्तः पर्वचतु-र्थोऽंशः प्रतिपदंशास्त्रयश्च विहितः कालः न तु प्रति-पदश्चतुर्योऽंशः । तदेतदाह लौगाक्षिः “त्रीनंशानौपव-स्तस्य यागस्य चतुरोविदुः । द्वावंशावुत्सृजेदन्त्यौ यागे चव्रतकर्मणीति” तमेतं यचकालं यज्ञपार्श्वोऽप्याह “पञ्चदश्याःपरः पादः पक्षादेः प्रथमास्त्रयः । कालः पार्वणवागे स्याद-थान्त्ये तु न विद्यत इति” वृद्वशातातपोऽपि “पर्वणोयश्चतुर्थो-ऽंश आद्याः प्रतिपदस्त्रयः । यागकालः स विज्ञेयः प्रातरु-क्तोमनीषिभिरिति” अत्र प्रातरिति विशेषणात् सूर्योदय-स्योपरि मुहूर्त्तत्रयं यागकाल इत्युक्तं भवति प्रतिपदश्च-र्घांशं निषेधति कात्यायनः “न यष्टव्यं चतुर्थेऽंशे यागैःप्रतिपदः क्वचित् । रक्षांसि तद्विलुम्पन्ति श्रुतिरेषा सना-तनीति” तदेवं पर्वण्यन्वाधानादिकं प्रतिपदि चेष्टिरितिसन्धिपार्श्वयोरुभयोः प्रारम्भपरिसमाप्ती व्यवस्थिते । यदापर्वप्रतिपदावुदयमारभ्य सम्पूर्णतिथी भवतः तदा न स-न्देहः यदा तु खण्डतिथी तदा निर्णयोऽमिधीयते तत्रगोभिलः “आवर्त्तने यदा सन्धिः पर्वप्रतिपदोर्भवेत् । तदह-र्याग इष्येत परतश्चेत् परेऽहनि । पर्वप्रतिपदोः सन्धिरर्वा-गावर्त्तनाद् यदि । तस्मिन्नहनि यष्टव्यं पूर्वेद्युस्तदुपक्रमः ।आवर्त्तनात् परः सन्धिर्यदि तस्मिन्नुपक्रमः । परेद्युरिष्टि-रित्येष पर्वद्वयविनिश्चयः” इति आवर्त्तनमह्नोमध्यभागः ।सौगाक्षिरपि “पूर्वाह्णे वाऽथ मध्याह्ने यदि पर्व समाप्यते ।उपोष्य तत्र पूर्वेद्युस्तदहर्याग इष्यते । अपराह्णेऽथवारात्रौ यदि पर्व समाप्यते । उपोष्य तस्मिव्रहनि श्वो भूतेयाग इष्यत” इति एषु वचनेषु मध्याह्नादिशब्दायौगिकाःन तु पञ्चधा विभागभाश्रित्य प्रवृत्तास्तथा सत्यह्नोमध्यो-मध्याह्न इति व्युत्पपत्तेरावर्त्तनं मध्याह्नशब्देनाभिधीयतेअतएव गोभिलेनावर्त्तनशब्दः प्रयुक्तः शातातपेनापि न-ध्यमशब्दः प्रयुक्तः “पूर्वाह्णे मध्यमे वापि यदि पर्वससाप्यते । तदोपवासः पूर्वेद्युस्तदहर्याग इष्यते” इतिअह्नोऽपरोमागोऽपराह्णः अतस्ताभ्यां शब्दाभ्यामा-वर्त्तनात् पूर्वोत्तरभागावभिधीयेते । वाजसनेयि-नान्तु विशेषमाह भाष्यार्थसंग्रहकारः “मध्यंदिनात्स्यादहनीह यस्मिन् प्राक् पर्वणः सन्धिरियं तृतीया ।सा खर्विका वाजसनेयिमत्या तस्यामुपोष्याथ परेद्युरिष्टि-रिति” आवर्त्तनादूर्द्ध्वमस्तमयादर्वाक् यदा सन्धिर्भवति त-दाहःसन्धिमती तिथिः प्रथमा, रात्रौ सन्धिश्चेत् सा ति-थिर्द्वितीया उभे अपेक्ष्य पूर्वाह्णे सन्धिमती पर्वतिथिस्तृ-तीया भवति तस्यां तृतोयतिथौ पर्वकालस्याल्पत्वात् सा-खर्विकेत्युच्यते । शाखान्तराध्यायिनामीदृशे विषयेपूर्वेद्युरन्वाधानादिकं सन्धितिथाविष्टिर्वाजसनेयिनान्तूत्त-रतिथाविष्टिः एवं सति वाजसनेयिनां न क्वापि सन्धि-दिनात्पूर्वेद्युरन्वाधानादिकमस्ति सोऽयं विशेषः आवर्त्तनेततः पुरा वा यदा सन्धिर्भवति तदा वाजसनेयिव्यतिरिक्तानां पर्वचतुर्थांशे इष्टिः प्राप्नोति तत्र विशेष-माह गार्ग्यः “प्रतिपद्यप्रविष्टायां यदि वेष्टिः समाप्यते ।पुनः प्रणीय कृत्स्नेष्टिः कर्त्तव्या यागवित्तमैरिति” पर्वणश्चतु-र्थांशः प्रतिपदस्त्रयोऽंशाश्च यागकालत्वेन विहिताः । अत्रपर्वचतुर्थांशस्य विषय उदाहृतः प्रतिपदंशानां विषय उ-दाह्रियते । उषःकाले सन्धौ प्रतिपदः प्रथमांशोयागकालःनिशीथे सन्धौ द्वितीयांशः रात्रिप्रारम्भे सन्धौ तृतीयांशःनन्वनेन न्यायेनापाराह्णे सन्धौ प्रतिपच्चतुर्थांशस्य याग-कालत्वं प्राप्नोति तच्च प्रतिषिद्धं “न यष्टव्यं चतुर्थेऽंशे”इति स्मृतेः अतस्तादृशे विषये याग एव लुप्येतेति चेत्मैवं वृद्धशातातपेन प्रतिप्रसवाभिधानात् “सन्धिर्यद्यपरा-ह्णे स्याद्यागं प्रातःपरेऽहनि । कुर्वाणः प्रतिपद्नागे चतुर्थे-ऽपि न दुष्यतीति” एवं तहि प्रतिषेधो निर्विषयः स्यादि-ति चेन्मैवं सद्यस्कालविषये चरितार्थत्वात् त च वि-षयं दर्शयति कात्यायनः “सन्धिश्चेत् सङ्गवादूर्द्ध्वं प्राक्-चेदावर्त्तनाद्रवेः । सा पौर्णामासी विज्ञेया सद्यस्काल-विधौ तिथिरिति” भाष्यार्थसंग्रहकारोऽपि “अन्वाहितिश्चा-स्तरणोपवासः पूर्वेद्युरेते खलु पौर्णमास्याम् । आवर्त्तमात्प्राग्यदि पर्वसन्धिस्तदैव यागः क्रियते समस्तः” इति ।आपस्तम्बोऽपि “पौर्णमाम्यामन्वाधानपरिस्तरणोपवासाःसद्यो वा सद्यस्कालायां सर्वं क्रियते” इति सङ्गवावर्त्त-मयोर्म्मध्ये पौर्णमासीप्रतिपदोः सन्धौ सति पूर्वोदाहृतै-र्वचनैः सन्धिदिनात् पूर्वेद्युरन्वाधानादिक प्राप्तं तच्चसद्यस्कालवाक्यैः सन्धिदिन उत्कृष्यते । नन्वीदृशे विषयेसन्धिदिनात् परदिने याग उत्कृष्यतां तथा सत्थपराह्णा-दिसन्धिष्विवान्वाधानयागयोर्दिनभेदो भविष्यति । अस्तिच दृष्टान्तः वाजसनेयिनामीदृशे विषये, अन्वाधानोत्कर्षेसति यागस्याप्युत्कृष्टत्वात् मैवम् अन्वयव्यतिरेकरूपाभ्यां वि-धिनिषेधाभ्यामस्याः शङ्कायानिवारितत्वात् तत्र सद्यस्का-लविधयोऽन्वयरूपाः, प्रतिपच्चतुर्थांशे प्रतिषेधाश्च व्यति-रेकरूपाः एवं च सति प्रतिषेधवाक्यं सावकाशं भवति ।अमावास्यायां विशेषमाह वृद्धशातातपः “द्वितीया त्रिमुहू-र्त्ताचेत् प्रतिपद्यापराह्णिकी । अग्न्याधानं चतुर्दश्यां परतःसोमदर्शनादिति” सोऽयं विशेषोनाश्वलायनापस्तम्बविषयःकिन्तु बौधायनमतानुयायिविषयः अतएव बौधायनः “द्विती-या त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णीकी । अन्वाधानं चतु-र्दश्यां परतः सोमदर्शनात् । चतुर्दशी चतुर्यामा अमावास्यान दृश्यते । श्वोभूते प्रतिपच्चेत् स्यात् पूर्वां तत्रैव कारयेत् ।चतुर्दशी च संपूर्णा द्वितीया क्षयगामिणी । प्रातरिष्टिरमायांस्याद्भूते कव्यादिका क्रियेति” एतेषां वचनानामयमर्थः अह्निचतुर्दशी संपूर्णा अस्तमयादर्वागमावास्या स्वल्पा तत एवा-पराह्णव्याप्त्यभावाच्छाद्धायान्वाधानाय वा पूर्वोक्तरीत्यायद्यपि निमित्तभावं न भजते तथापि प्रतिपदि द्वितीयायंसत्यां चन्द्रस्य दृश्यमानत्वात्तददर्शने चेष्टेर्निषिद्धत्वात् प्र-तिपद्युतायाममावास्यायामिष्टिः स्वल्पामावास्योपेतायांचतुर्दश्यां श्राद्धाग्न्याधानादिकं कर्त्तव्यमिति । एतदेवाभि-प्रेत्य स्मृत्यन्तरे “आदित्येऽस्तमिते चन्द्रः प्रतीच्यामुदियात्यदा । प्रतिपद्यतिपत्तिः स्यात् पञ्चदश्यां यजेत्तदेति”वृद्धवसिष्ठोऽपि “ऐन्द्रे निरुप्तेपयसि पुरस्तादुदिते विधौ ।यद्वैगुण्यं हुतं तस्मिन् पश्चादपि हि तद्भवेदिति”अस्यायमर्थः यदा सपूर्णचतुर्दश्यामविचारेणामावास्या-बुद्धिं कृत्वा अग्न्याधानादिकं कृत्वा हविर्निर्वापि कृतेतस्मिन् उषःकाले पूर्वस्यां दिशि चन्द्रमा उदेति । तदान दशकर्म भवितुमर्हति दर्शकालस्याप्राप्तत्वात् किन्तु का-लापराधं निमित्तीकृत्य दर्शदेवता अपनीय दात्रादिगुण-विशिष्टाग्न्यादिदेवतान्तराण्युद्दिश्य हविः प्रक्षेपो विहितःतदेतत् तेत्तिरीयब्राह्मणे श्रूथते “यस्य हविर्निरुप्तं पुर-स्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलानं विभजेद्ये मध्यमाःस्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्य्यात् ये स्थ-विष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुम् ये क्षोदिष्ठास्तान्विष्णवे, शिपिविष्टाय शृते चरुमिति” सोऽयं दृष्टान्तोह-विषि निरुप्ते सति तदूर्द्ध्वं पूव्वस्यां दिशीन्दावुदिते सतिदर्शकर्मविधेर्यद्वैगुण्यमुक्तरीत्यावस्थितं तदेव वौपुण्यं होम-दिने पश्चिमदिशि चन्द्रोदये भवतीति । एतदेव बोधायन-मतमुपोद्बलयति श्रुतिः “यस्मिन्नहनि पुरस्तात्पश्चात् सो-मोन दृश्यते तदहर्यजेतेति” अयमर्थः सिनीबाल्यां पुर-स्ताच्चन्द्रदर्शनं भवति द्वितीयायुक्तायां प्रतिपदि पश्चाच्चन्द्रोदृश्यते तयोरुभयोर्मध्यवर्त्तिन्यां कुह्वां द्विविधमपि चन्द्र-दर्शनं नास्ति अतस्तस्मिन् दिने यष्टव्यमिति चन्द्रद-र्शनोपेतायां शुक्लप्रतिपदि यागानुष्ठाने प्रायश्चित्तमाह का-त्ययनः “यजनीयेऽह्निसोमश्चेद्वारुण्यां दिशि दृश्यते । तत्रव्याहृतिभिर्हुत्वा दण्डं दद्याद्द्विजातये” इति चन्द्रदर्शन-राहित्यमेवाभिप्रेत्य बौधायनकारिकासु पठ्यते “इष्टेरलंप्रातिपदादि नाड्यः सप्ताष्ट वा यत्र भवन्ति तत् स्यात् । क्षी-णासु नाडीषु दिनस्य पूर्वः कल्पोऽथ वृद्धौ च भवेद्द्वितीयः”इति अयमर्थः अमावास्यातिथेः सम्बन्धिनीषु नाडीषुक्षीणासु सतीषु तस्मिन् दिने अस्तमयात् पूर्वं प्रतिपत्सम्ब-न्धिन्यो नाद्ध्यः सप्ताष्ट वा यदि भवन्ति तदा तद्दिनमिष्टे-रलं योग्यं सोऽयमेकः पक्षः । अमावास्याप्रतिपदौ यदावर्द्धेते तदा द्वितीयः कल्पो भवेत् । अमायामग्निमाधायसोमदर्शनरहिते प्रतिपद्दिने यागः कर्त्तव्य इति । स्मृत्यन्त-रेऽपि “अर्वागस्तमयात् यत्र द्वितीया तु प्रदृश्यते । तत्र यागंन कुर्व्वीत स्युर्देवास्तु पराङ्मुखाः” इति बौधायनमतानुसा-रिणामग्न्याधानवद्दर्शश्राद्धमपि स्वल्पामावास्योपेतायां च-तुर्दश्यां कर्त्तव्यं तथा च बौधायनेनोक्तम् “यदा चतुर्दशीयामन्तुरीयमनुपूरयेत् । अमावास्या क्षीयमाणा तदैव श्रा-द्धमाचरेत् । चतुर्दश्यां चतुर्यामे अमा यत्र न दृश्यते ।श्वोमूते प्रतिपद्यत्र भूते कव्यादिका क्रियेति” चतुर्ये यामेअमावास्या सम्पूर्णा न दृश्यते किन्त्ववसाने स्वल्पा सा चेत्परदिने क्षीयते तदानीं चतुर्दश्यां श्राद्धमाचरेत् । ननुचन्द्रदर्शनोपेतायां प्रतिपदीष्टिः समाम्नाता तथा चशतपथब्राह्मणम् “यदहः पश्चाच्चन्द्रमा अभ्युदेति तदहर्य-जन्निमाल्लोँकानभ्युदेतीति” । तैत्तिरीयब्राह्मणमपि “एषा-वै सुमना नामेष्टिर्येयमद्येजानं पश्चाच्चन्द्रमा अभ्युदेत्यस्मिन्नेवास्मै लोके समर्द्धुकं भवतीति” अयमर्थः येय-मिष्टिश्चन्द्रदर्शनोपेते दिने क्रियते सेयमिष्टिः सुमनः शब्दवाच्या तादृशीमिष्टिं कृतवन्तं यजमानमभिलक्ष्य तस्मिन्दिने पश्चाच्चन्द्रमा उदेति तस्मै यजमायास्मिल्लोँके समृद्धि-र्भवतीति बाढं तदेतच्छ्रुतिद्बयं बौधायनमतानुसारिव्यति-रिक्तविषयम् एतदेवाभिप्रेत्य प्रतिपच्चतुर्थांशे याग उदा-हृतः । ननु बौधायनव्यतिरिक्तानामपि चन्द्रदर्शनयोग्यंद्वितीयायुतं प्रतिपद्दिनमिष्टौ निषिद्धं तथा च स्मृतिः “प-र्वणोऽंशे चतुर्थे तु कार्या चेष्टिर्द्विजोत्तमैः । द्वितीयासहितंयस्मादूषयन्त्याश्वलायनाः” इति तदेतदावर्त्तनतत्पूर्बका-लयोः सन्धौ मति द्रष्टव्यं अपराह्नादिसन्धिषु चतुर्थस्येष्टा-वप्राप्तत्वात् । तदेवं प्रकृतिरूयाया इष्टेः कालोनिरूपितःविकृतेस्तु कालो निरूप्यते तत्र कात्यायनः “आवर्त्तनात्प्राग्यदि पर्वसन्धिः कृत्वा तु तस्मिन् दिवसे प्रकृत्याः । तत्रैवयागः परतो यदि स्यात्तस्मिन् विकृत्याः प्रकृतेः परेद्यु-रिति” आवर्त्तने ततः पुरा वा पर्वसन्धौ तस्मिन् सन्धिदिनेप्रकृतियागं कृत्वा पश्चाद्विकृतिसम्बन्धी यागः कर्त्तव्यः ।यद्यावर्त्तनात्परतः सन्धिस्तदा केवलं विकृतियागःसन्धिदिने कर्त्तव्यः प्रकृतियागस्तु सन्धिदिनात्परेद्युरनुष्ठेयइत्यर्थः । आवर्त्तनतः पूर्वकाले ततः परकाले वा सन्धिरि-त्येतेषु त्रिष्वपि पक्षेषु सन्धिदिन एव विकृतेरनुष्ठानं प्रकृ-तेस्तु पूर्वोक्तरीत्या सन्धिदिने परेद्युर्वानुष्ठानं व्यवतिष्ठतेइष्टीनां सर्वासां प्रकृतिर्दर्शपूर्णमासौ “ऐन्द्राग्नमेकादश-कपालं निर्वपेत् प्रजाकाम” इत्यादयः काण्डान्तरपठिताःकाम्ये ष्टयोविकृतयः । तत्र “प्रकृतिवद्विकृतिः कर्त्तव्येति” न्या-येन विकृतीनामपि सन्धिदिनात् परेद्युः कदाचिदनु-ष्ठानं प्राप्तं तदेतदुदाहृतेन वचनेन निवार्य्यते” ।तेन सन्धेः सूक्ष्मकालत्वेन कर्म्मानर्हत्वात् संक्रान्तिवत्त-दुपलक्षितदिनविशेषे तत्तत्कर्म्म कर्त्तव्यमिति फलितम् । अतएव “ऋतुसन्धिषु वापयेत्” इतियतिधर्म्मे स्मृतिः तत्र यदिदर्शान्तविवक्षा स्यात् तदा दर्शस्यैव सन्धित्वात् तत्रैव वषनंकुर्य्युः कुर्व्वन्ति तु पूर्ण्णिमायां तस्मात् दर्शान्तत्वपूर्ण्णिमान्तत्वयोःसमो विकल्पः अनुष्ठाने तु तत्र वचनविशेषाच्छिष्टाचाराच्चव्यवस्था” कालमा० । अयञ्च कालः श्रौतस्मार्त्तकर्म्माङ्गम्वैद्यके तु कालविशेषोऽपि फरिभाषितः “यथा ऋत्वोर-त्त्यादि सप्ताहादृतुसन्धिरिवि स्मृतः । तत्र पूर्वोविधि-स्त्याज्यः सेवनीयः परोविधिः” वाग्भटः । ज्योतिः-शास्त्रे तु ऋत्वोः सन्ध्युपलक्षितस्य कालभेदस्य “रवेर्भ-वेदेकगृहाधिकस्य यदंशवृन्दं खलु सायनस्य । तदत्र राशिद्व-यभागतष्टं स्पष्टं वसन्तादृतवो भवन्ति । तत्सन्धयोऽगाङ्ग६७ घटीसमाः स्युर्द्विसंगुणा (१३४ घटीसमाः) श्चेत्विषुवायनीयाः । स सन्धिसन्धिः खलु यत्र शेषं शून्यं भवे-देष विशेषपुण्यः” केशवार्केण सन्धिसन्धित्वे नापि परिभाषाकृता तत्र शून्यावशेषे स्नानदानादौ विशेषपुण्यफलम् ।इतरस्य विवाहे वर्ज्यता । यथाह स एव “सन्धौ पुरन्ध्रीशुचमेति बन्ध्या मृतप्रजा वा यदि सन्धिसन्धिः” इति ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
