| YouTube Channel

ऋतुः (RtuH)

 
Apte
English
ऋतुः [ṛtuḥ], [ऋ-तु-किच्च
U.*
1.71]
A season, period of the year, commonly reckoned to be six
शिशिरश्च वसन्तश्च ग्रीष्मो वर्षाः शरद्धिमः
sometimes only five
शिशिर and हिम or हेमन्त being counted together
cf.
पञ्चर्तवो हेमन्तशिशिरयोः समासेन Ait. Br. वसन्तश्चैत्रवैशाखौ ज्येष्ठाषाढौ ग्रीष्मकौ वर्षा श्रावणभाद्राभ्यां शरदश्विनकार्तिकौ मार्गपौषौ हेमन्तः शिशिरो माघफाल्गुनौ गोरक्षसंहिता.
An epoch, a period, any fixed or appointed time.
Menstruation, courses, menstrual discharge.
A period favourable for conception
वरमृतुषु नैवाभिगमनम्
Pt.*
1
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः
Ms.*
3.46, 9.7
Y.*
1.11, 79.
Any fit season or right time.
Fixed order or rule
द्वा यन्तारा भवतस्तथ ऋतुः
Rv.*
1.162.19.
Light, splendour.
A month.
N.
of Viṣṇu.
A symbolical expression for the number 'six'.
A kind of collyrium.
Comp.
अन्तः the close of a season.
termination of menstruation.
कालः, समयः, वेला the time of menstruation, time favourable for conception, i. e. 16 nights from menstrual discharge
see ऋतु above.
the duration of a season. -गणः the seasons taken collectively. -गामिन्
a.
having intercourse with a wife (at the time fit for conception, i. e. after the period of menstruation). -ग्रहः a libation offered to the seasons, a kind of sacrifice. -चर्या
f.
seasonal proceeding
अथातः संप्रवक्ष्यामि ऋतुचर्यास्तु वाजिनाम् Bhoja's Śālihotra 92. -जुष्f. A woman enjoying intercourse at the time fit for procreation
Ks. -धामन्
m.
N.
of Viṣṇu
पतिः the lord of seasons, i. e. the spring.
N.
of Agni
Rv.*
1.2.1.
N.
of other deities
Av.*
3.1.9. -पर्णः
N.
of a king of Ayodhyā
son of Ayutāyu, a descendant of Ikṣvāku. [Nala, king of Niṣadha, entered into his service after he had lost his kingdom and suffered very great adversity. He was 'profoundly skilled in dice'
and he exchanged with Nala this skill for his skill in horsemanship
and by virtue of it the king succeeded in taking Nala to Kuṇḍinapura before Damayantī had put into execution her resolve of taking a second husband]. -पर्यायः, -वृत्तिः the revolution of the seasons
cf.
Ms.*
1.29. -पशुः An animal to be sacrificed at a particular season. -पाः
m.
N.
of Indra. -पात्रम् the cup in which the libation is offered. -प्राप्त
a.
fertile, fruitful. -प्रैषः
N.
of particular invocations spoken before the sacrifice to the seasons. Ait. Br.5.9.3, 4. -मुखम् the beginning or first day of a season. -याजः a sacrifice offered to the seasons. -राजः the spring.
लिङ्गम् a characteristic or sign of the season (as the blossom of the mango tree in spring)
यथर्तुलिङ्गान्यृतवः स्वयमेवर्तुपर्यये
Ms.*
1.3.
a symptom of menstruation. -लोका
f.
N.
of particular bricks
Śat. Br.1. -ष्ठा (स्था)
a.
fixed at the proper seasons
Vāj.17.3. -संहारः 'collection of the seasons,
N.
of Kālidāsa's work on the six seasons.
सन्धिः the junction of two seasons.
the last day in the bright fortnight (पौर्णमासी) and in the dark one (दर्श). -सात्म्यम् diet
&c.
suited to the season. -स्तोमः a kind of sacrifice. -स्नाता a woman who has bathed after menstruation and who is, therefore, fit for sexual intercourse
धर्मलोपभयाद्राज्ञीमृतुस्नाताभिमां स्मरन्
R.*
1.76. -स्नानम् bathing after menstruation.
Apte 1890
English
ऋतुः [ऋ-तु-किच्च Uṇ. 1. 71] 1 A season, period of the year, commonly reckoned to be six
शिशिरश्च वसंतश्च ग्रीष्मो वर्षाः शरद्धिमः
sometimes only five
शिशिर and हिम or हेमंत being counted together
cf. पंचर्तवो हेमंतशिशिरयोः समासेन Ait. Br.
2 An epoch, a period any fixed or appointed time.
3 Menstruation, courses, menstrual discharge.
4 A period favourable for conception
वरमृतुषु नैवाभिगमनं Pt. 1
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः Ms. 3. 46, 9. 70
Y. 1. 11, 79.
5 Any fit season or right time.
6 Fixed order or rule.
7 Light, splendour.
8 A month.
9 N. of Viṣṇu.
10 A symbolical expression for the number ‘six.’
11 A kind of collyrium.
Comp.
अंतः {1} the close of a season. {2} termination of menstruation.
कालः, समयः, -वेला {1} the time of menstruation, time favourable for conception, i. e. 16 nights from menstrual discharge
see ऋतु above. {2} the duration of a season.
गणः the seasons taken collectively.
गामिन् a. having intercourse with a wife (at the time fit for conception, i. e. after the period of menstruation).
ग्रहः a libation offered to the seasons, a kind of sacrifice.
धामन् m. N. of Viṣṇu.
पतिः {1} the lord of seasons, i. e. the spring. {2} N. of Agni.
पर्णः N. of a king of Ayodhyā
son of Ayutāyu, a descendant of Ikṣvāku. [Nala, king of Niṣadha, entered into his service after he had lost his kingdom and suffered very great adversity. He was ‘profoundly skilled in dice’
and he exchanged with Nala this skill for his skill in horsemanship
and by virtue of it the king succeeded in taking Nala to Kuṇḍinapura before Damayantī had put into execution her resolve of taking a second husband].
पर्यायः,
वृत्तिः the revolution of the seasons.
पाः m. N. of Indra.
पात्रं the cup in which the libation is offered.
प्राप्त a. fertile, fruitful.
मुखं the beginning or first day of a season.
याजः a sacrifice offered to the seasons.
राजः the spring.
लिंगं {1} a characteristic or sign of the season (as the blossom of the mango tree in spring). {2} a symptom of menstruation.
ष्ठा (
स्था) a. fixed at the proper seasons.
संहारः ‘collection of the seasons, N. of Kālidāsa's work on the six seasons.
संधिः {1} the junction of two seasons. {2} the last day in the bright fort-night (पौर्णमासी) and in the dark one (दर्श).
सात्म्यं diet &c. suited to the season.
स्तोमः a kind of sacrifice.
स्नाता a woman who has bathed after menstruation and who is, therefore, fit for sexual intercourse
धर्मलोपभयाद्राज्ञीमृतुस्नातामिमां स्मरन् R. 1. 76.
स्नानं bathing after menstruation.
Apte Hindi
Hindi
ऋतुः
पुं*
- ऋ+तु किच्च
मौसम
E Bharati Sampat
Sanskrit
(पुं) १.वर्षस्य षष्टांशः। ऋ(गतौ)+तुः। उ०१.७१। वसन्तः, ग्रीष्मः, वर्षा, शरत्, हेमन्तः, शिशिरः षडृतवः। ‘द्वौ द्वौ माघादिमासौ स्यादृतुस्तैरयनं त्रिभिः’ अमरः। २.मासः। ‘ऋतुः ...आर्तवे मासि पुमान्’ मेदिनी०। ३.स्त्रीणां रजः। ‘ऋतुः स्वाभाविकः स्त्रीणाम्’ मनुः३.४६। ४.गर्भधारणयोग्यकालः। ५.विष्णुः। ‘ऋच्छतीति ऋतुः प्रोक्तः सर्वोल्लासकरैर्गुणैः’ निरुक्तिः। ‘ऋतुः सुदर्शनकालः परमेष्ठी परिग्रहः’ वि०स०। ६.शिवः। ‘ऋतुः संवत्सरो मासः पक्षः सङ्ख्या समापनः’ भा०।
Wordnet
Sanskrit
Synonyms:
वेला, ऋतुः
noun
वर्षे सः विशिष्टः समयः यः कस्यचित् विशिष्टस्य कार्यस्य कृते निश्चितः भवति।
"होलिकायाः वेला भविष्यति।"
Synonyms:
स्त्रीधर्मः, स्त्रीरजः, रजः, ऋत्वम्, कन्याव्रतम्, ऋतुः, आर्तवम्, पुष्पम्
noun
स्त्रीषु नियतकालपर्यन्तं प्रतिमासे गर्भाशयात् स्रवन् रक्तस्रावः।
"स्त्रीधर्मस्य समये स्त्रिभिः विशेषतया अवधातव्यम्।"
Synonyms:
ऋतुः
noun
कालविशेषः संवत्सरस्य मासद्वयात्मकः कालः।
"ऋतोः परिवर्तनं प्रकृतिनियमः।"
Synonyms:
रजः, ऋतुः, कुसुमम्, पुष्पम्, आर्त्तवम्
noun
स्त्रीणां मासे मासे योनिनिःसृतम् रक्तम्।
"रजसः स्रावकाले स्त्री पीडाम् अनुभवति।"
वैजयन्तीकोषः
Sanskrit
Word: ऋतुः
Root: ऋतु
Gender: पुं
Number: all
अर्थः द्वौ मासौ
Meaning(s):
Season
Shloka(s):
2|1|86|2 क्लीबेऽप्येषु सकारान्ता ऋतुर्बीजं सतेरकम्॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|86|2 ऋतुः (ऋतु) (पुं) Season द्वौ मासौ
2|1|86|2 बीजम् (बीज) (नपुं) Season of two months
the same as r̥tu द्वौ मासौ
2|1|86|2 सतेरकम् (सतेरक) (नपुं) Season द्वौ मासौ
Related word(s):
जातिः कालः
परा_अपरासंबन्धः हेमन्तः
अमरकोशः
Sanskrit
Word: ऋतुः
Root: ऋतु
Gender: पुं
Number: all
Meaning(s):
rule
light
epoch
order
period
season
menses
splendour
fixed time
fixed order
menstruation
right or fit time
particular mineral
menstrual discharge
time after the courses
any settled point of time
time appointed for any action
sexual union at the above time
symbolical expression for the number six
Shloka(s):
1|4|13|1 द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः। (कालवर्गः)
Synonym(s):
1|4|13|1 ऋतुः (ऋतु) (पुं) rule, light, epoch, order, period, season, menses, splendour, fixed time, fixed order, menstruation, right or fit time, particular mineral, menstrual discharge, time after the courses, any settled point of time, time appointed for any action, sexual union at the above time, symbolical expression for the number six
Related word(s):
अवयव_अवयवीसंबन्धः पक्षद्वयौ
परा_अपरासंबन्धः हेमन्तर्तुः
जातिः कालः
शब्दकल्पद्रुमः
Sanskrit
ऋतुः,
पुं,
(ऋ + “अर्त्तेश्च तुः” इति उणादिसूत्रेण१ ७२ तुः चकारात् कित् ।) कालविशेषः ।स तु षड्विधः यथा मार्गपौषौ हिमः माघ-फाल्गुनौ शिशिरः चैत्रवैशाखौ वसन्तः ३ज्यैष्ठाषाढौ ग्रीष्मः श्रावणभाद्रौ वर्षाः आ-श्विनकार्त्तिकौ शरत् इत्यमरः
त्रिविधो-ऽपि कार्त्तिकाग्रहायणपौषमाघाः शीतः १फाल्गुनचैत्रवैशाखज्यैष्ठाः ग्रीष्मः आषाढश्रावण-भाद्राश्विनाः वर्षाः द्विविधोऽपि कार्त्तिका-दिषण्मासाः शीतः वैशाखादिषण्मासाः ग्रीष्मः२
इति स्मृतिः
*
(यदुक्तम् ।“मासद्वयात्मकः कालः ऋतुः प्रोक्तो विचक्षणैः” ।यत्र तु “द्वादश मासाः पञ्चर्त्तवः” इति श्रुतं तत्रहेमन्तशिशिरयोरेकत्रीकरणं विवक्षितम्
“चयकोपसमा यस्मिन् दोषाणां सम्भवन्ति हि ।ऋतुषट्कं तदाख्यातं रवेः राशिषु संक्रमात्
ग्रीष्मो मेषवृषौ प्रोक्तः प्रावृड्मिथुनकर्कटौ ।सिंहकन्ये स्मृता वर्षा तुलावृश्चिकयोः शरत्
धनुर्ग्राहौ हेमन्तौ वसन्तः कुम्भमीनयोः” ।मेषवृषौ रविणा संक्रान्तौ एवं मिथुनकर्कटा-वित्यादि अन्ये तु ।“शिशिरः पुष्पसमयो ग्रीष्मो वर्षाशरद्धिमाः ।माघादिमासयुग्मैः स्युरृतवः षट् क्रमादमी”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमभागे ।“वर्षाः शरच्च हेमन्तः शिशिरश्च वसन्तकः ।ग्रीष्मश्चेति क्रमादेते ऋतवः षट् प्रकीर्त्तिताः
पृथक् पृथक प्रवक्ष्यामि रवेर्गतिविशेषतः” ।इति प्रथमस्थाने चतुर्थेऽध्याये हारीतेनोक्तम्
“मासैर्द्विसङ्ख्यैर्माघाद्यैः क्रमात् षडृतवः स्मृताः ।शिशिरोऽथ वसन्तश्च ग्रीष्मवर्षा शरद्धिमाः”
इति सूत्रस्थ ने तृतीयेऽध्याये वाभटेनोक्तम्
“इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात्” ।इति सूत्रस्थाने षष्ठोऽध्यायः ।“तत्र खलुतावत् षोढा प्रविभज्य कार्य्यमुपदेक्ष्यते ।हेमन्तो ग्रीष्मो वर्षाश्चेति शीतोष्णवर्षलक्षणास्त्रयःऋतवो भवन्ति तेषामन्तरेष्वितरे साधारण-लक्षणास्त्रय ऋतवः प्रावृट्शरद्वसन्ता इति ।प्रावृडिति प्रथमः प्रवृष्टेः कालस्तस्यानुबन्धो वर्षाः ।एवमेते संशोधनमधिकृत्य षड् विभज्यन्तेऋतवः” ।इति विमानस्थानेऽष्टमेऽध्याये चरकेणोक्तम् ।“तत्र माघादयो द्वादशमासा द्विमासिकमृतुंकृत्वा षडृतवो भवन्ति ते शिशिर-वसन्त-ग्रीष्म-वर्षा-शरद्धेमन्ताः तेषां तपस्तपस्यौ शिशिरः ।मधुमाधवौ वसन्तः शुचिशुक्रौ ग्रीष्मः नभो-नभस्यौ वर्षाः इषर्जौ शरत् सह सहस्यौहेमन्त इति
तत्र ते शीतोष्णवर्ष्लक्षणाश्च-न्द्रादित्ययोः कालविभागकरत्वादयने द्वे भवतो-दक्षिणमुत्तरञ्च” ।“इह तु वर्षा-शरद्धेमन्त-वसन्त-ग्रीष्म-प्रावृषः षडृ-तवो भवन्ति दोषोपचय-प्रकोयोपशम-निमित्तम् ।ते तु भाद्रपदाद्येन द्विमासिकेन व्याख्याताः तद्-यथा भाद्रपदाश्वयुजौ वर्षाः कार्त्तिकमार्गशीर्षौशरत् पौषमाघौ हेमन्तः फाल्गुन-चैत्रौवसन्तः वैशाख-ज्यैष्ठौ ग्रीष्मः आषाढ-श्रावणौप्रावृडिति” इति सूत्रस्थाने अध्याये सुश्रुते-नोक्तम्
)स्त्रीकुसुमम् इति विश्वमेदिन्यौ
तत्पर्य्यायः ।रजः पुष्पम् आर्त्तव्यम् इत्यमरः
यथाह मनुः ४५-४९ ।“ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा ।पर्ब्बवर्ज्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।चतुर्भिरितरैः सार्द्धमहोमिः सद्विगर्हितैः
तासामाद्याश्चतस्रस्तु निन्दितकादशी या ।त्रयोदशी शेषास्तु प्रशस्ता दशरात्रयः
युम्मासु पुत्त्रा जायन्ते स्त्रियोऽयुम्मासु रात्रिषु ।तस्मात् युग्मासु पत्त्रार्थी संविशेदार्त्तवे स्त्रियम्
पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः ।समेऽपुमान्पुंस्त्रियौ वा क्षीणेऽल्पे विपर्य्ययः”
“रजः सप्तदिनं यावत् ऋतुश्च भिषजां बर” ! ।इति शारीरस्थाने प्रथमेऽध्याये हारीतेनोक्तम्
“ऋतुस्तु द्वादशरात्रं भवति दृष्टार्त्तवम्
”“नियतं दिवसेऽतीते सङ्कुचत्यम्बुजं यथा ।ऋतौ व्यतीते नार्य्यास्तु योनिः संव्रियते तथा
मासेनोपचितं काले धमनीभ्यान्तदार्त्तवम् ।ईषत् कृष्णं विगन्धञ्च वायुर्योनिमुखं नयेत्
तद्वर्षाद्द्वादशात्काले वर्त्तमानमसृक् पुनः ।जरापक्वशरीराणां याति पञ्चाशतः क्षयम्”
इति शारीरस्थाने तृतीयेऽध्याये सुश्रुतेनोक्तम्
“द्वादशाद्वत्सरादूर्द्ध्व मापञ्चाशत् समाः स्त्रियः ।मासि मासि भगद्वारा प्रकृत्यैवार्त्तवं स्रवेत्
आर्त्तवस्रावदिवसात् ऋतुः षोडशरात्रयः ।गर्भग्रहणयोग्यस्तु एव समयः स्मृतः”
“सर्व्वासामेव चतुर्वर्णस्त्रीणां सर्व्ववादिसम्मतः ।पूर्व्वोक्तसमयः ग्रन्थान्तरेषु विषयः तद्यथा ।स्रानदिवसादूर्द्ध्वं द्वादशरात्रावधि ब्राह्मण्याः दश-रात्रावधि क्षत्त्रियायाः अष्टरात्रावधि तैश्यायाः ।षड्रात्रावधि शूद्रायाः गर्भधारणे शक्तिः”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
“पद्मं सङ्कोचमायाति दिनेऽतीते यथा तथा ।ऋतावतीते योनिः सा शुक्रं नातः प्रतीच्छति
मासेनोपचितं रक्तं धमनीभ्यामृतौ पुनः ।ईषत्कृष्णं विगन्धञ्च वायुर्योनिमु खन्नुदेत्”
“ऋतुस्तु द्वादशनिशाः पूर्व्वास्तिस्रश्च निन्दिताः”
इति शारीरस्थाने प्रथमेऽध्याये वाभटेनोक्तम्
शिवः यथा महाभारते १३ महादेवसहस्र-नामकथने १७ १३९ ।“ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः”
विष्णुः यथा, महाभारते १३ विष्णुसहस्रनाम-कथने १४९ ५८ ।“ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः”
)दीप्तिः इति मेदिनी मासः सुवीरः इति विश्वः