ऋतिः (RtiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishऋतिः [ṛtiḥ], [ऋ-क्तिन्] An army.
Going, motion.
Assault, combat
ऋतिर्हन्यमाना 12.5.25.
Abuse, censure.
Emulation, envy.
A road.
Manner of proceeding.
Prosperity.
Fitness, truth.
Remembrance.
Misfortune.
Protection.
Auspiciousness (most of these meanings are found only iu lexicons).
Apte 1890
EnglishE Bharati Sampat
Sanskrit(स्त्री) ऋ(गतौ)+क्तिन् । ‘स्त्रुयां क्तिन्’ ३.३.९४। १.कल्याणम् । २.मार्गः। ३.जुगुप्सा । ४.गमनम् । ५.निन्दा । ६.स्पर्धा । ७.स्मृतिः। ८.रक्षणम् ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit प्रहर्ता, ऋतिः, अभिसर्तृ, अभिघातिन्
यः प्रहरति।
"रक्षकैः द्वौ प्रहर्तारौ परिगृहीतौ।"
स्मरणशक्तिः, स्मृतिः, स्मरणम्, चित्तम्, ऋतिः, मतिः
विविधान् विषयान् बुद्धौ अवधारणस्य क्षमता।
"अस्य अधिकारिणः स्मरणशक्तिः दुर्बला अस्ति।"
भद्रता, अनुकूलता, ऋतिः, ऋद्धिः, कन्त्वम्, नन्दा, भाग्यवत्ता, भाग्यसम्पद्, सुष्ठुता, सुभगत्वम्, सुस्वधा, सौभाग्यवत्ता, सौभाग्यवत्त्वम्, स्फीतता, श्रिया, श्रीया
सुखदायिका सम्पन्ना च अवस्था।
"गृहे भद्रता अस्ति।"
ऋतिः
पुरुषमेधयज्ञीयदेवभेदः ।
"ऋतेः उल्लेखः वाजसनेयिसंहितायाम् अस्ति"
ऋतिः
एका देवता ।
"ऋतिः इति पुरुषमेधयज्ञीया देवता"
शब्दकल्पद्रुमः
Sanskritकृदन्तरूपमाला
Sanskrit1 {@“ऋ गतिप्रापणयोः”@} 2 ‘तत्रेयर्त्यृच्छतीत्यर्तेः, शिन गतौ स्याद् ऋणाति तु।’ 3 इति देवः।
4 आरकः-रिका, 5 अर्पकः-र्पिका, 6 अरिरिषकः-षिका, 7 अरारकः-रिका
अर्ता-र्त्री, अर्पयिता-त्री, अरिरिषिता-त्री, अरारिता-त्री
8 ऋच्छन्-न्ती, अर्पयन्-न्ती, अरिरिषन्-न्ती
-- 9 अरिष्यन्-न्ती-ती, अर्पयिष्यन्-न्ती-ती, अरिरिषिष्यन्-न्ती-ती
10 समृच्छमानः, अर्पयमाणः, 11 समरिरिषमाणः, अरार्यमाणः
समरिष्यमाणः, अर्पयिष्यमाणः, समरिरिषिष्यमाणः, अरारिष्यमाणः
12 समृत्-समृतौ-समृतः
-- -- -- 13 ऋतम्- 14 ऋतः-ऋतवान्, 15 सुखार्तः, 16 ऋणम्, 17 प्रार्णम्-वत्सतरार्णम्- कम्बलार्णम्-वसनार्णम्-दशार्णः 18-दशार्णा 19-ऋणार्णम्, 20 उत्तमर्णः- 21 अधमर्णः, अर्पितम्-तः, अरिरिषितं-तः, अरारितः-तवान्
अरः, 22 आरिवान्, 23 अर्वा, 24 अरित्रम्, अर्पः, अरिरिषुः, अर्पिपयिषुः
अरारः
अर्तव्यम्, अर्पयितव्यम्, अरिरिषितव्यम्, अरारितव्यम्
अरणीयम्, अर्पणीयम्, अरिरिषणीयम्, अरारणीयम्
25 26 अर्यः-अर्यी-अर्या-अर्याणी, 27 आर्यः-आर्या, अर्प्यम्, अरिरिष्यम्, अरार्यम्
ईषदरः-दुररः-स्वरः
-- -- -- 28 अर्यमाणः, अर्प्यमाणः, अरिरिष्यमाणः, अरार्यमाणः
29 आरः, अर्पः, अरिरिषः, अरारः
अर्तुम्, अर्पयितुम्, अरिरिषितुम्, अरारितुम्
ऋतिः, 30 आर्तिः, 31 आरा, अर्पणा, अरिरिषा, अर्पिपयिषा, अरारा
अरणम्, अर्पणम्, अरिरिषणम्, अरारणम्
ऋत्वा, अर्पयित्वा, अरिरिषित्वा, अरारित्वा
समृत्य, समर्प्य, अमरिरिष्य, समरार्य
आरम् २ ऋत्वा २ अर्पम् २ अर्पयित्वा २ अरिरिषम् २ अरिरिषित्वा २ अरारम् २
अरारित्वा २
32 अरुः, 33 अरणिः, 34 अरुणः, 35 अरण्यम्, 36 अर्थः, 37 अर्भकः, 38 इरिणम्, 39 ऋतुः।
01 (११७)
02 (१-भ्वादिः-९३६। सक। अनि। पर।)
03 (श्लो-३०)
04 [[१। ‘अचो ञ्णिति’ (७-२-११५) इति वृद्धौ, ‘उरण् रपरः’ (१-१-५१) इति रपरत्वे रूपम्।]]
05 [[२। ‘अर्तिह्रीव्ली--’ (७-३-३६) इति णौ पुगागमः। ‘पुगन्तलघूपधस्य च’ (७-१-८६) इति गुणे रूपम्। एवं सर्वत्र ण्यन्ते बोध्यम्।]]
06 [[३। ‘स्मिपूङ्रज्ज्वशां सनि’ (७-२-७४) इति सन इडागमः। गुणः। ‘अजादे- र्द्वितीयस्य’ (६-१-२) इति ‘रिस्’ इत्यस्य द्वित्वम्। एवं सर्वत्र सन्नन्ते बोध्यम्।]]
07 [[४। ‘सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः’ (वा। ३-१-२२) इति यङ्। ‘यङि च’ (७-४-३०) इति गुणे, द्वितीयस्यैकाचः ‘र्य’ इत्यस्य ‘सन्यङोः’ (६-१-९) इति द्वित्वे ‘हलादिःशेषे’ (७-४-६०), ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासस्य दीर्घे च रूपम्। ‘न न्द्राः--’ (६-१-३) इति रेफस्य द्वित्वनिषेधस्तु न भवति-- ‘अरार्यते’ इति भाष्योदाहरणात्। एवं सर्वत्र यङन्ते बोध्यम्।]]
08 [[५। शपि ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्ति--’ (७-३-७८) इत्यादिना ऋच्छादेशः।]]
09 [[६। ‘ऋद्धनोः स्ये’ (७-२-२०) इति स्यप्रत्ययस्येडागमः।]]
10 [[७। अस्याकर्मकत्वे ‘समो गम्यृच्छिभ्याम्’ (१-३-२९) इति शानच् प्रत्ययो भवति।]]
11 [[८। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तात् शानच्।]]
12 [[९। ‘हस्वस्य पिति कृति--’ (६-१-७१) इति तुगागमः।]]
13 [पृष्ठम्०११७+ ३०]
14 [[१। धातोर्गत्यर्थकत्वात् ‘गत्यर्थाकर्मक--’ (३-४-७२) इति, ‘क्तोऽधिकरणे च--’ (३-४-७६) इति च कर्तरि अधिकरणे कर्मणि च क्तप्रत्ययः।]]
15 [[२। ‘ऋते च तृतीयासमासे’ (वा। ६-१-८९) इति वृद्धिः।]]
16 [[३। ‘ऋणमाधमर्ण्ये’ (८-२-६०) इति निष्ठातकारस्य नत्वम् आधमर्ण्यव्यवहारे निपात्यते। ‘ऋणं नाम अन्यदीयं द्रव्यं गृहीतं इयता कालेन इयत्या वृद्ध्या प्रतिदीयते--इति संविद्रूपम्।’ इति बालमनोरमा। अन्यत्र ऋतम्। सत्यमित्यर्थः।]]
17 [[४। ‘प्रवत्सतरकम्बलवसनदशार्णानाम् ऋणे’ (वा। ६-१-८९) इति वृद्धौ साधु। एवं वत्सतरार्णमित्यादिकम्।]]
18 (देशः)
19 (नदी)
20 [[आ। ‘स्वमुत्तमर्णाय यथाऽधमर्णः तस्मै कुमारान् बत धारयामः।’ वा। वि-३-२९।]]
21 [[आ। ‘स्वमुत्तमर्णाय यथाऽधमर्णः तस्मै कुमारान् बत धारयामः।’ वा। वि-३-२९।]]
22 [[५। लिटः क्वस्वादेशे द्वित्वे ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इति इडागमे च रूपम्।]]
23 [[६। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति वनिप्। अर्वा = सूर्योऽश्वश्च।]]
24 [[७। ‘अर्तिलूधू--’ (३-२-१८४) इत्यनेन करणे इत्रप्रत्ययः। ‘अरित्रं केनिपातकः’ इत्यमरः। ऋच्छत्यनेनेत्यरित्रम् = नौकाचालनदण्डविशषः।]]
25 [[B। ‘तेन वह्येन हन्तासि त्वमर्यं पुरुषाशिनाम्। राक्षसं क्रूरकर्माणं शक्रारिं दूरवासिनम्।।’ भ। का। ६। ५१।]]
26 [[८। ‘अर्यः स्वामिवैश्ययोः’ (३-१-१०३) इति ण्यदपवादो यत् प्रत्ययः। ‘अर्यक्ष- त्रियाभ्यां वा स्वार्थे’ (वा। ४-१-४०) इति आनुक् डीषा सह विकल्पितः। तदानीं अर्याणी-अर्या इति रूपद्वयम्। अर्यी इति तु पुंयोगे ज्ञेयम्। स्वामिवैश्या- भ्यामन्यत्र आर्यः इति भवति। पूज्य इत्यर्थः। ‘अर्याणी स्वयमर्या स्यात् स्यादर्यी क्षत्रियी तथा’ इत्यमरः।]]
27 [[C। ‘तेन सङ्गतमार्येण रामाजर्यं कुरु द्रुतम्। लङ्कां प्राप्य ततः पापं दशग्रीवं हनिष्यसि।।’ भ। का। ६। ५३।]]
28 [[९। ‘गुणोऽर्तिसंयोगाद्योः’ (७-४-२९) इति यकि गुणः।]]
29 [पृष्ठम्०११८+ २९]
30 [[१। आङः ऋतिशब्देन समासे ‘उपसर्गादृति धातोः’ (६-१-९१) इति वृद्धिः।]]
31 [[२। ‘आरा शस्त्र्याम्’ (गणसूत्रम् भिदादौ ३-३-१०४) इति पाठात् वृद्धिः अङ् च।]]
32 [[३। औणादिके (द। उ। ९-३९) उसिप्रत्यये गुणः। अरुः = प्राणः आदित्यो वा।]]
33 [[४। औणादिके (द। उ। १-२) अनिप्रत्यये गुणः। अरणिः = अग्नियोनिः काष्ठविशेषः।]]
34 [[५। औणादिकः (द। उ-५-५९) उनन् प्रत्ययः। अरुणः = वैनतेयः अनूरुः सूर्यसारथिः।]]
35 [[६। कर्मणि औणादिकः (द। उ-८-६) अन्यप्रत्ययः। अरण्यं = निर्जनस्थानम्।]]
36 [[७। औणादिकः (द। उ-६-२९) थन् प्रत्ययः। ‘अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु’ इत्यमरः।]]
37 [[८। औणादिके (द। उ। ३-५०) अकप्रत्यये भुगागमः वयसि वाच्ये। अर्थकः बालः।]]
38 [[९। औणादिकः (द। उ। ५-१७) इनन् प्रत्ययः। तत्सन्नियोगेन प्रकृतेः इः आदेशः। ‘उरण् रपरः’ (१-१-५१) इति रपरत्वम्। इरिणम् = अल्पोदकतृणस्थानम्।]]
39 [[१०। औणादिकः (द। उ। १-१२४) तुः प्रत्ययः। तस्य च कित्त्वम्। तेन न गुणः। ऋतुः = वसन्तादिः कालविशेषः, स्त्रीणां पुष्पकालश्च।]]
1 {@“ऋणु गतौ”@} 2 3 अर्णकः-र्णिका, अर्णकः-र्णिका, 4 अर्णिनिषकः-षिका
अर्णिता-त्री, अर्णयिता-त्री, अर्णिनिषिता-त्री
5 अर्णुवन्-वती, अर्णयन्-न्ती, अर्णिनिषन्-न्ती
अर्णिष्यन्-न्ती-ती, अर्णयिष्यन्-न्ती-ती, अर्णिनिषिष्यन्-न्ती-ती
6 अर्णुवानः, अर्णयमानः, अर्णिनिषमाणः
अर्णिष्यमाणः, अर्णयिष्यमाणः, अर्णिनिषिष्यमाणः
7 ऋत्-ऋतौ-ऋतः
-- -- 8 ऋतम्-ऋतः-ऋतवान्, अर्णितं-तः, अर्णिनिषितः-तवान्
9 ऋणः, अर्णः, अर्णिनिषुः, अर्णिनयिषुः
अर्णितव्यम्, अर्णयितव्यम्, अर्णिनिषितव्यम्
अर्णनीयम्, अर्णनीयम्, अर्णिनिषणीयम्
10 ऋण्यम्, अर्ण्यम्, अर्णिनिष्यम्
ईषदर्णः-दुरर्णः-स्वर्णः
-- -- अर्ण्यमानः, अर्ण्यमाणः, अर्णिनिष्यमाणः
11 अर्णः, 12 स्वर्णम्, अर्णः, अर्णिनिषः
अर्णितुम्, अर्णयितुम्, अर्णिनिषितुम्
ऋतिः, अर्णना, अर्णिनिषा, अर्णिनयिषा
अर्णनम्, अर्णनम्, अर्णिनिषणम्
13 अर्णित्वा-ऋत्वा, अर्णयित्वा, अर्णिनिषित्वा
14 समृत्य, 15 प्रार्त्य, समर्ण्य, समर्णिनिष्य
अर्णम् २, अर्णित्वा २, ऋत्वा २, अर्णम् २, अर्णयित्वा २, अर्णिनिषम् २
अर्णिनिषित्वा २।
01 (१२३)
02 (८-तनादिः-१४६७। सक। सेट्। उभ।)
03 [[१। ‘पुगन्तलघूपधस्य--’ (७-३-८६) इति गुणः।]]
04 [[२। धातुरयं नकारान्तः, णत्वं तु लाक्षणिकम्। अतः ‘नि’ शब्दस्यैव ‘सन्यङोः’ (६-१-९) इति द्वित्वम्। पूर्वखण्डे रेफात् परत्वात् णत्वम्, उत्तरखण्डे तु नकारस्यैव श्रवणम्। ‘पूर्वत्रासिद्धमद्वित्वे’ (वा। १-१-५८) इति तु न
\n\n ‘उभौ साभ्यासस्य’ (८-४-२१) इति लिङ्गात् तस्यानित्यत्वात्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
05 [[३। ‘तनादिकृञ्भ्य डः’ (३-१-७९) इति उः विकरणप्रत्ययः। विकरणनिमित्तके गुणे, उवङि च रूपम्। आत्रेयादयस्तु ‘संज्ञापूर्वको विधिरनित्यः’ इत्यङ्गीकृत्य ‘ऋण्वन्-ण्वती’ इति गुणरहिततया रूपं साधयन्ति। तत्र भाष्यानुग्रहो नास्ति।]]
06 [[आ। ‘तन्वन् स मञ्चभुवि सातरसः स्वबन्धून् अक्षण्वतां क्षितिकरो मुदमर्णुवानः। कंसस्तृणीकृतरिपुर्धृणिमान् वताप्तिं मन्वान एकमथ मञ्चमलञ्चकार।।’ धा। का। ३। ४।]]
07 [[४। ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्--’ (६-४-३७) इति अनुनासिकलोपे तुक्।]]
08 [[५। उदित्त्वात् क्त्वायामिड्विकल्पात् ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायां इण्णि- षेधः। अनुनासिकलोपः। एवं क्तिनि, इडभावपक्षे क्त्वाप्रत्यये च बोध्यम्।]]
09 [[६। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
10 [[७। ‘ऋदुपधाच्चाकॢपि--’ (३-१-११०) इति क्यप्।]]
11 [पृष्ठम्०१२५+ २३]
12 [[१। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। ‘लिङ्गमशिष्यं, लोकाश्रयत्वाल्लिङ्गस्य’ इति न्यायात् नपुंसकलिङ्गत्वम्।]]
13 [[२। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
14 [[३। ‘वा ल्यपि’ (६-४-३८) इत्यत्र व्यवस्थितविभाषाश्रयणात् अनुनासिकलोपो नित्यः। तुक्।]]
15 [[४। ‘उपसर्गादृति धातौ’ (६-१-९१) इति वृद्धिरेकादेशः।]]
1 {@“ऋतिः”@} 2 धातुपाठेऽपठितोऽपि सूत्रेऽनुवादात् धातुत्वं बोध्यम्।
घृणायां वर्तते इति केचित्।
जुगुप्सायामयं धातुरिति बहवः।
3 ऋतीयकः-यिका, अर्तकः-र्तिका, ऋतीयकः-यिका, अर्तकः-र्तिका, 4 ऋतितीयिषकः-षिका
अर्तितिषकः-षिका
ऋतीयिता-त्री अर्तिता-त्री, 5 ऋतीययिता-त्री, अर्तयिता-त्री, ऋतितीयिषिता-त्री
अर्तितिषिता-त्री
-- ऋतीययन्-न्ती, अर्तयन्-न्ती, अर्तितिषन्-न्ती
6 7 अर्तिष्यन्-न्ती-ती, ऋतीययिष्यन्-न्ती-ती, अर्तयिष्यन्-न्ती-ती, अर्तितिषिष्यन्-न्ती-ती
ऋतीयमानः, ऋतीययमानः, अर्तयमानः ऋतितीयिषमाणः
ऋतीयिष्यमाणः, ऋतीययिष्यमाणः, अर्तयिष्यमाणः, ऋतितीयिषिष्यमाणः
8 ऋतीः-ऋत्यौ-ऋत्यः, ऋत्-ऋतौ-ऋतः
-- ऋतीयितम्-तः-तवान्, ऋतितम्-तः-तवान्, ऋतीयितं-तः, अर्तितम्-तः, ऋतितीयिषितः-तवान्
अर्तितिषितः-तवान्
ऋतीयः ऋतः ऋतीयः अर्तः ऋतितीयिषुः-अर्तितिषुः
-- ऋतीयितव्यम्, अर्तितव्यम्, ऋतीययितव्यम्, अर्तयितव्यम्, ऋतितीयिषितव्यम्
अर्तितिषितव्यम्
ऋतीयनीयम्, अर्तनीयम्, 9 ऋतीयनीयम्, अर्तनीयम्, ऋतितीयिषणीयम्
अर्तितिषणीयम्
10 ऋतीय्यम्, ऋर्त्यम्, ऋतीय्यम्, अर्त्यम्, ऋतितीयिष्यम्-अर्तितिष्यम्
ऋतीय्यमानः, ऋर्त्यमानः, ऋतीय्यमानः, अर्त्यमानः, ऋतितीयिष्यमाणः
अर्तितिष्यमाणः
ईषदृतीयः-दुऋतीयः-स्वृतीयः, ईषदर्तः-दुरर्तः-स्वर्तः
ऋतीयः, अर्तः, ऋतीयः, अर्तः, ऋतितीयिषः-अर्तितिषः
ऋतीयितुम्, अर्तितुम्, ऋतीययितुम्, अर्तयितुम्, ऋतितीयिषितुम्
अर्तितिषितुम्
11 12 ऋतीया, ऋत्तिः, ऋतीयना, अर्तना, ऋतितीयिषा
अर्तितिषा
ऋतीयनम्, अर्तनम्, ऋतीयनम्, अर्तनम्, ऋतितीयिषणम्
अर्तितिषणम्
ऋतीयित्वा, 13 अर्तित्वा-ऋतित्वा, ऋतीययित्वा, अर्तयित्वा, ऋतितीयिषित्वा
अर्तितिषित्वा
समृतीय्य, समृत्य, समृतीय्य, समर्त्य, समृतितीयिष्य
समर्तितिष्य
ऋतीयम् २, ऋतीयित्वा २, अर्तम् २, अर्तित्वा २, ऋतित्वा २, ऋतीयम् २, अर्तम् २, ऋतीययित्वा २, अर्तयित्वा २, ऋतितीयिषम् २
ऋतितीयिषित्वा २
अर्तितिषम् २
अर्तितिषित्वा २।
01 (१२४)
02 (१-भ्वादिः-१०१०-आ। अक। सेट्। आत्म।)
03 [[५। ‘ऋतेरीयङ्’ (३-१-२९) इति स्वार्थे ईयङ् प्रत्ययः। ‘सनाद्यन्ता धातवः’ (३-१-३२) इति ईयङन्तस्य धातुत्वम्। ततो ण्वुलादयः। ईयङ् प्रत्ययः ‘आयादय आर्घधातुके वा’ (३-१-३१) इति विकल्पेन भवति। ततश्च ‘अर्तकः--’ इत्यादीनि रूपाणि पक्षे बोध्यानि। एवं णिजन्तात् सन्नन्तादपि आयप्रत्ययस्य वैकल्पिकत्वं ज्ञेयम्।]]
04 [[६। ईयङो ङित्त्वाल्लघूपधगुणाभावे, अजादित्वेन द्वितीयस्यैकाचः ‘ती’ शब्दस्य द्वित्वे, अभ्यासह्रस्वत्वे च रूपम्। एवं सर्वत्र सन्नन्ते ज्ञेयम्।]]
05 [[७। णिचः गुणायादेशयोः एवं रूपम्।]]
06 [पृष्ठम्०१२६+ १६]
07 [[१। ईयङभावे ‘शेषात् कर्तरि--’ (१-३-७८) इति लृटः शता।]]
08 [[२। ईयङन्तात् क्विपि, अतो लोपे, वलि लोपे च एवं रूपम्। ईयङभावे ‘ऋत्’ इति रूपम्।]]
09 [[३। ‘णेरनिटि’ (६-४-५१) इति णिलोपः।]]
10 [[४। ईयङन्तात् ‘अचो यत्’ (३-१-९७) इति यति द्वियकारघटितं रूपम्। ईयङभाव- पक्षे ‘ऋदुपधात्--’ (३-१-११०) इति क्यपि रूपम्।]]
11 [पृष्ठम्०१२७+ १८]
12 [[१। ‘अ प्रत्ययात्’ (३-३-१०२) इति ईयङन्तादकारः प्रत्ययः।]]
13 [[२। ‘वञ्चिलुञ्च्यृतश्च’ (१-२-२४) इति क्त्वायाः कित्त्वविकल्पः। तेन कदाचित् गुणः, कदाचिन्न गुणः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
