| YouTube Channel

ऋणादान (RNAdAna)

 
शब्दसागरः
English
ऋणादान
n.
(-नं) Recovery of a debt, receipt of money, &c. lent. It is
one of the eighteen titles or subjects of judicial procedure.
E.
ऋण
and आदान receiving.
Capeller Eng
English
ऋणादान
n.
non-payment of a debt.
Yates
English
ऋणा-दान (नं) 1.
n.
Recovering
debt
receiving back a loan.
Spoken Sanskrit
English
ऋणादान RNAdAna
n.
receipt of money lent
ऋणादान RNAdAna
n.
recovery of a debt
Wilson
English
ऋणादान
n.
(-नं) Recovery of a debt, receipt of money, &c. lent It is
one of the eighteen titles or subjects of judicial procedure.
E.
ऋण and आदान receiving.
Monier Williams Cologne
English
ऋणादान
n.
recovery of a debt, receipt of money
&c.
lent (as one of the eighteen titles or subjects of judicial procedure),
Mn.
viii, 4 Comm. on
Yājñ.
ii, 5.
Macdonell
English
ऋणादान ṛṇa‿ādāna,
n.
recovery of debt
🞄(a‿a) non-payment of debt
-apanayana,
n.
discharge 🞄of an obligation or debt.
Apte Hindi
Hindi
ऋणादानम्
नपुं*
ऋणम्-आदानम् -
"कर्जा वसूल करना, उधार दिया हुआ द्रव्य वापिस लेना"
L R Vaidya
English
fRa-AdAna {% n. %} the recovery of a debt.
शब्दकल्पद्रुमः
Sanskrit
ऋणादानं,
क्ली,
(ऋणस्य आदानम् ग्रहणम् ।) अधम-र्णात् उत्तमर्णेन सलाभधनग्रहणम् तत्तु अष्टा-दशविवादान्तर्गताद्यविवादः (यदाह मनुः ।“तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः” ।इत्यादि ।) तच्च सप्तविधं यथा ईदृशमृणं देयम् १ईदृशमदेयम् अनेनाधिकारिणा देयम् अस्मिन्समये देयं अनेन प्रकारेण देयं इत्यधमर्णेपञ्चविधम् उत्तमर्णे तु दानविधिः आदान-विधिश्च इति द्विविधम् तथाच नारदः ।“ऋणन्देयमदेयञ्च येन यत्र यथा भवेत् ।दानग्रहणधर्म्माश्च ऋणादानमिति स्मृतम्
अदेयमिति यदुक्तं तदाह कात्यायनः ।न स्त्रीभ्यो दासबालेभ्यः प्रदद्यात् किञ्चिदुद्धृतम् ।दाता लभते तत्तु तेभ्यो दत्तन्तु यद्वसु”
तत्र विशेषमाह वृहस्पतिः ।“परिपूर्णं गृहीत्वाधिं बन्धं वा साधुलग्नकम् ।लेख्यारूढं साक्षिमद्वा ऋणं दद्यात् धनी सदा”
इति विवादार्णवसेतुः
अस्य यदवशिष्टं ऋणोद्-ग्राहणशब्दे द्रष्टव्यम्
वाचस्पत्यम्
Sanskrit
ऋणादान
न०
ऋणमादीयते यत्र स्मृत्युक्ते अष्टादशविवा-दान्तर्गते व्यवहारभेदे “तेषामाद्यमृणादानमित्यादीनिअष्टादश व्यवहारपदानि मनुना दर्शितानि तल्लक्ष-णादि नारदादिवाक्येन मिता० दर्शितं यथा“अधुनाष्टादशानां व्यवहारपदानामाद्यमृणादानपदं द-र्शयति “अशीतिभागो वृद्धिः स्यादित्यादिना मोच्य आ-धिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने” इत्येवमन्तेन तच्चार्णा-दानं सप्तबिधम् ईदृशमृणन्देयमीदृशमदेयमनेनाधि-कारिणा देयमस्मिन् समये देयमनेन प्रकारेण देयमित्यध-मर्णे पञ्चविधमुत्तमर्णे दानविघिरादानविधिश्चेति द्विवि-धमिति एतच्च नारदेन स्यष्टीकृतम् “ऋणन्देयमदेयञ्चयेन यत्र यथा यत् दानग्रहणधर्मश्च ऋणादान-मिति स्मृतमिति” तत्र प्रथममुत्तमर्णस्य दानबिधिमाहतत्पूर्वकत्वादितरेषाम् “अशीतिभागो वृद्धिः स्यान्मा-सिमासि सबन्धके वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकम-न्यथा” या० “मासिमासि प्रतिमासं विश्वासार्थं यदाधीयतेआधिरिति यावत् बन्धकेन सह वर्त्तत इति सबन्धकःप्रयोगस्तस्मिन् सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्याशीतित-मोभागो वृद्धिर्द्धर्म्या भवति अन्यथा बन्धकरहिते प्र-योगे वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुःपञ्चकं शतंधर्म्यं भवति ब्राह्मणेऽधमर्णे द्विकं शतम्, क्षत्रिये त्रिकं, वैश्ये चतुष्कं, शूद्रे पञ्चकं, मासिमासीत्येव द्वौ वा त्रयोवा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चाः द्वित्रिचतुःपञ्चाअस्मिन् शते वृद्धिर्द्दीयते इति द्वित्रिःचतुपञ्चकं शतम् ।“तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते इति (पा०) कन् ।इयं वृद्धिर्मासिमासि गृह्यत इति कालिका इयमेव वृ-द्धिर्द्दिवसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका-भवति तथा नारदेन “कायिका कालिका चैव कारिताच तथाऽपरा चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्विधा”इत्युक्त्वोत्तम् “कायाविरोधिनी शश्वतणपादादिः कायिका ।प्रतिमासं स्रवन्ती या वृद्धिस्सा कालिका मता वृद्धिःसाकारिता नाम यर्णिकेन स्वयं कृता वृद्धेरपि पुनर्वृद्धि-श्चक्रवृद्धिरुदाहृतेति” गृहीतृविशेषेण वृद्धेः प्रकारा-न्तरमाह “कान्तारगास्तु दशकं सामुद्रा विंशकं शतम्”या० कान्तारमरण्यन्तत्र गच्छन्तीति कान्तारगाः येवृद्ध्या धनं गृहीत्वाधिकलाभार्थमतिगहनं प्राणधनवि-नाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः ये चसमुद्रगास्ते विंशकं शतं मासिमासीत्येव एतदुक्तम्भवतिकान्तारगेभ्यो दशकं शतं सामुद्रेभ्यश्च विंशकं शतम् उत्त-मर्ण आदद्यात् मूलविनाशस्यापि शङ्कितत्वात् इति ।इदानीं कारितां वृद्धिमाह “दद्युर्वा स्वाकृतां वृद्धिंसर्वे सर्वासु जातिषु” या० “सर्व्वे ब्राह्मणादयोऽधमर्णाअबन्धके सबन्धके वा स्वकृतां स्वाभ्युपगतां वृद्धिं सर्वासुजातिषु दद्युः क्वचिदकृतापि वृद्धिर्भवति यथाहनारदः “न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता क्व-चित् अनाकारितमप्यूर्द्धं वत्सरार्द्धाद्विवर्द्धत” इति यस्तुयाचितकं गृहीत्वा देशान्तरं गतस्तं प्रति कात्यायनेनो-क्तम् “यो याचितकमादाय तददत्त्वा दिशं व्रजेत् ऊर्द्ध्वंसंवत्सरात्तस्य तद्धकं वृद्धिमाप्नुयादिति” यश्च याचितक-मादाय याचितोऽप्यदत्त्वा देशान्तरं याति तम् प्रति ते-नैवोक्तम् “कृतोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत् ।ऊर्द्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयादिति” यः पुनःस्वदेशे स्थित एव याचितो याचितकं ददाति तं याचनकालादारभ्य वृद्धिं दाषयेद्राजा यथा “स्वदे-शेऽपि स्थितो यस्तु दद्याद्याचितः क्वचित् तन्ततोऽ-कारितां वृद्धिमनिच्छन्तं दापयेदिति” अनाकारितवृद्धेरपवादो नारदेनोक्तः “षण्यमूल्यम्भृतिर्न्यासोद-ण्डोयश्च प्रकल्पितः वृथादानाक्षिकपणा वर्द्धन्ते नाविव-क्षिताः” अविवक्षिता अनाकारिता इति अधुना द्र-व्यविशेषे वृद्धिविशेषमाह “सन्ततिस्तु पशुस्त्रीणाम्” या०“पशूनां स्त्रीणां सन्ततिरेव वृद्धिः पशूनां स्त्रीणा म्पोषणा-समर्थस्य तत्पुष्टिसन्ततिकामस्य प्रयोगः सम्भवति ग्र-हणञ्च क्षीरपरिचर्यार्थिनः अधुना प्रयुक्तस्य द्रव्यस्यवृद्धिग्रहणमन्तरेण चिरकालावस्थितस्यकस्य द्रव्यस्य किय-ती परा वृद्धिरित्यपेक्षिते आह “रसस्याष्टगुणा परा व-स्त्रधान्यहिरण्यानाञ्चतुस्त्रिद्विगुणा परा” या० “रसस्यतैलघृतादेर्वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य स्वकृतयावृद्ध्या वर्द्धमानस्याष्टगुणा वृद्धिः परा नातः परं वर्द्धते ।तथा वस्त्रधान्यहिरण्यानां यथासंख्यं चतुर्गुणाः त्रिगुणा-द्विगुणा वृद्धिः परा वसिष्ठेन तु रसस्य त्रैगुण्यमुक्तम्“द्विगुणं हिरण्यं त्रिगुणं धान्यम् धान्येनैव रसा व्या-ख्याताः पुष्पमूलफलानि तुलाधृतं त्रितयमष्टगु-णमिति” मनुना तु धान्यस्य पुष्पमूलफलादीनाञ्च पञ्च-गुणत्वमुक्तम् “धान्ये शदे लवे वाह्ये नातिक्रामति पञ्च-तामिति” शदः क्षेत्रफलं पुष्पमूलफलादि लवोमेषोर्णाचमरीकेशादि वाह्योवलीवर्दतुरगादिः धान्यशदलव-वाह्यविषया वृद्धिः पञ्चगुणत्वन्नातिक्रामतीति तत्राधमर्ण-योग्यतावशेन दुर्भिक्षादिकालवशेन व्यवस्था द्रष्टव्या ।एतच्च सकृत्प्रयोगे सकृदाहरणे वेदितव्यम् पुरु-षान्तरसङ्क्रमणेन प्रयोगान्तरकरणे तस्मिन्नेव वा पुरुषेअनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वेगुण्याद्यतिक्रम्यपूर्ववद्वर्द्धते सकृत्प्रयोगेऽपि प्रतिदिनम् प्रतिमासम्प्रतिवत्सरं वा वृद्ध्याहरणेऽधमर्णदेयस्य द्वैगुण्यसम्भवात्पूर्वाहृतवृद्ध्या सह द्वैगुण्यमतिक्रम्य वर्द्धत एव यथाहमनुः “कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता” सकृ-दाहितेत्यपि पाठोऽस्ति उपचयार्थं प्रयुक्तं द्रव्यं कुसी-दन्तस्य वृद्धिः कुसीदवृद्धिर्द्वैगुण्यं नात्येति नातिक्रा-मति यदि सकृदाहिता सकृत्प्रयुक्ता पुरुषान्तरसंक्रम-णादिना प्रयोगान्तरकरणे द्वैगुण्यमत्येति सकृदाहृतेति पाठे शनैः प्रतिदिनम्प्रतिमासं प्रतिवत्सरं वाऽधम-र्णादाहृता द्वैगुण्यमत्येतीति व्याख्येयम् तथा गौ-तमेनाप्युक्तम् “चिरस्थाने द्वैगुण्यम् प्रयोगस्येति” प्र-योगस्येत्येकवचननिर्देशात् प्रयोगान्तरकरणे द्बैगुण्याति-क्रमोऽभिप्रेतः चिरस्थान इति निर्देशाच्छनैः शनैर्वृद्धे-र्ग्रहणे द्वैगुण्यातिक्रमोदर्शितः ऋणप्रयोगधर्मा उक्ताःसाम्प्रतम् प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते “प्रपन्नंसाधयन्नर्थं वाच्यो नृपतेर्भवेत् साध्यमानोनृपङ्गच्छन्दण्ड्योदाप्यञ्च तद्धनम्” या० प्रपन्नमभ्युपगतमधमर्णेन धनंसाक्ष्यादिभिर्भावितं साधयन् प्रत्याहरन् धर्मादिभिरुपायैःउत्तमर्णी नरपतेर्न वाच्योनिवारणीयो भवति धर्मा-दयश्चोपाया मनुना दर्शिताः “धर्मेण व्यवहारेण, छलेना-चरितेन प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन चेति”धर्मेण प्रीतियुक्तेन सामवचनेन, व्यवहारेण साक्षिलेखाद्यु-पायेन, छलेन उत्सवादिव्याजेन भूषणादेर्ग्रहणेन, आचरि-तेन अभोजनेन पञ्चमेनोपायेन बलेन निगटबन्धबादिनाउपचयार्थं प्रयुक्तं द्रव्यमेतैरुपायैरात्मसात्कुर्य्यादिति ।प्रपन्नं साधयन्नथं वाच्य इति वदन्नप्रतिपन्नं साधयन्राज्ञा निवारणीय इति दर्शयति एतदेव स्पष्टीकृतङ्कात्या-यनेन “पीडयेद्योधनी कञ्चिदृणिकं न्यायवादिनम् तस्मा-दर्थात् हीयेत तत्समं प्राप्नुयाद्दममिति” यस्तु धर्मादि-भिरुपाथैः प्रपन्नमर्थं साध्यमानो याच्यमानो नृपं गच्छेत् ।राजानमभिगम्य साधयन्तमभियुङ्क्ते दण्ड्यो भवति श-क्त्यनुसारेण धनिने तद्धनन्दाप्यञ्च राज्ञा दापने प्र-कारादर्शिताः “राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदा-पयेत् देशाचारेण चान्यांस्तु दुष्टान् सम्पीड्य दापयेत् ।रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेदिति” या० सा-ध्यमानो नृपङ्गच्छेदित्येतत् स्मृत्याचारव्यपेतेनेत्यस्यप्रत्युदाहरणं बोद्धव्यम् बहुषूत्तमर्णिकेषु युगपत्प्राप्ते-म्बेकोऽधमर्णिकः केन क्रमेण दाप्योराज्ञेत्यपेक्षित आह!“गृहीतानुक्रमाद्दाप्योधनिनामधमर्णिकः दत्त्वा तुब्राह्मणायैव नृपतेस्तदनन्तरम्” या० समानजातीयेषु येनैवक्रमेण धनं गृहीतन्तेनैव क्रमेणाधमर्णिको दाप्योराज्ञा, भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण यदा तु पुनरुत्त-मर्णो दुर्बलः प्रतिपन्नमर्थन्धर्मादिभिरुपायैः साधयितुमशक्नुवन् राज्ञा साधितार्थोभवति तदाऽधमर्णस्य दण्ड-सुत्तमर्ण्णस्य भृतिदानमाह “राज्ञाऽधमर्णिकोदाप्यःसाधिताद्दशकं शतम् पञ्चकञ्च शतन्दाप्यः प्राप्तार्थोह्यु-त्तमर्णिकः” या० “अधमर्णिकोराज्ञा प्रतिपन्नार्थात्साधि-ताद्दशकं शतं दाप्यः” पतिपन्नस्य साधितस्यार्थस्य दशम-गंशं राजाधमर्णिकाद्दण्डरूपेण गृह्णीयादित्यर्थः उ-त्तमर्णिकस्तु प्राप्तार्थः पञ्चकं शतं भृतिरूपेण दाप्यःसाधितस्यार्थस्य विंशतितमम्भागम् उत्तमर्ण्णाद्राजा-भृत्यर्थं गृह्णीयादित्यर्थः अप्रतिपन्नार्थसाधने तु दण्ड-विभागो दर्शितः “निह्नवे भावितोदद्यात्” इत्यादिना स-धनमधमर्णिकम्प्रत्युक्तमधुना निर्द्धनमधमर्णिकम्प्रत्याह ।“हीनजातिम्परिक्षीणमृणार्थं कर्म कारयेत् ब्राह्मणस्तुषरिक्षीणः शनैर्द्दाप्यो यथोदयम्” या० ब्राह्मणादिजाति-रुत्तमर्ण्णो हींनजातिं क्षत्रियादिम्परिक्षीणं निर्द्धनमृ-णार्थमृणनिवृत्त्यर्थं कर्म्म स्वजात्यनुरूपं कारयेत्तत्कुदु-म्बाविरोधेन ब्राह्मणः पुनः परिक्षीणो निर्द्धनः शनै-र्यथोदयं यथासम्भवमृणन्दाप्यः अत्र हीनजाति-ग्रहणं समजातेरप्युपलक्षणमतश्च समजातिमपि परिक्षीणंयथोचितं कर्म्म कारबेत् ब्राह्मणग्रहणं श्रेयोजातेरुपलक्षणमतश्च क्षत्रियादिरपि क्षीणो वैश्यादेःशनैःशनैर्द्दाप्योयथोदयम् एतदेव स्पष्टीकृतं मनुना “कर्म्मणापिसमङ्कुर्य्याद्धनिकेनाधमर्ण्णिकः समाऽपकृष्टजातिश्च दद्य-च्छ्रेयांस्तु तच्छनैरिति” उत्तमर्ण्णेन समं निवृत्तोत्त-मर्ण्णाधमर्ण्णव्यपदेशमात्मानमधमर्णः कर्म्मणा कुर्य्या-दित्यर्थः किञ्च “दीयमानं गृह्णाति प्रयुक्तं यः स्व-कन्धनम् मध्यस्थस्थापितं तत्स्याद्वर्द्धते ततः परम्” या०उपचयार्थं दत्तं धनमधमर्ण्णेन दीयमानमुत्तमर्णोवृद्धिलो-भाद्यदि गृह्णाति तदाऽधमर्ण्णेन मध्यस्थहस्ते स्थापितस्यात्तदा ततःस्थापनादूर्द्धन्न वर्द्धते अथ स्थापितमपियाच्यमानो ददाति ततः पूर्व्ववद्वर्द्धत एव ।इदानीन्देयमृणं यदा येन देयन्तदाह “अविभक्तैकुटुम्बार्थे यदृणन्तु कृतम्भवेत् दद्युस्तद्वक्थिनः प्रेतेप्रोषिते वा कुटुम्बिनि” या० अविभक्तैर्बहुभिः कुटु-म्बार्थमेकैकेन वा यदृणं कृतन्तदृणं कुटुम्बी दद्यात्तस्मिन्प्रेते प्रोषिते वा तदृक्थिनः सर्वे दद्युः येन देयमित्यत्र प्रत्युदाहरणमाह “न योषित् पतिपुत्राभ्यान्नपुत्रेण कृतम्पिता दद्यादृते कुटुम्बार्थान्न पतिः स्त्री-कृतन्तथा” या० पत्या कृतमृणं योषिद्भार्य्या नैवदद्यात् पुत्रेण कृतं योषित् माता दद्यात् तथापुत्रेण कृतम्पिता दद्यात्तथा भार्य्याकृतम्पतिर्न दद्यात्कु-टुम्बार्थादृत इति सर्व्वशेषमतश्च कुदुम्बार्थं येन केनापिकृतं तत्कुटुम्बिना देयम् “कुटुम्बार्थेऽध्यधीनोऽपि व्यव-हारं समाचरेत् स्वदेशे वा विदेशे वा तन्न विद्वान् विचा-लयेत्” इति मनु (अध्यधीनः दासः) तदभावेतद्दायहरै-र्देयमिति उक्तमेव पुत्रपौत्रैरृणन्देयमिति वक्ष्यति तस्यपुरस्तादपवादमाह “सुराकामद्यूतकृतन्दण्डशुल्कावशिष्टकम् ।वृथादानन्तथैवेह पुत्रोदद्यान्न पैतृकम्” या० सुरापाणेनयत् कृतमृणं कामकृतं स्त्रीव्यसनेन कृतम् द्यूते परा-जयनिर्वृत्तं दण्डशुल्कयोरवशिष्टं वृथादानं धूर्त्तवन्दि-मल्लादिभ्यो यत् प्रतिज्ञातम् “धूर्त्ते वन्दिनि मल्ले चकुवैद्ये कितवे शठे चाटचारणचौरेषु दत्तं भवतिनि फलमिति” स्मरणात् एतदृणम् पित्रा कृतं पुत्रादिःशौण्डिकादिभ्यो दद्यात् अत्र दण्डशुल्कावशिष्टक-मित्यवशिष्टग्रहणात् सर्वं दातव्यमिति मन्तव्यम् “दण्डंवा दण्डशेषं वा शुल्कन्तच्छेषमेव वा दातव्यन्तुपुत्रेण यच्च व्यवहारिकम्” इत्यौशनः स्मरणात् गौतमे-नाप्युक्तम् “मद्यशुल्कद्यूतदण्डा पुत्रामध्यावहेयुरिति” ।न पुत्रस्योपरि भवन्तीत्यर्थः अनेनादेयमृणमुक्तम् नपतिः स्त्रीकृतं तथेत्यस्यापवादमाह “गोपशौण्डिकशैलू-षरजकव्याधयोषिताम् ऋणं दद्यात् पतिस्तासां यस्मा-द्वृत्तिस्तदाश्रया” या० गोपो गोपालः शौण्डिकःसुराकारः शैलूषोनटः रजकोवस्त्राणां रञ्जकः व्याधो-मृगयुः एषां योषिद्भिर्यदृणं कृतन्तत्पतिभिर्देयं यस्मात्तेषांवृत्तिर्जीवनं तदाश्रया योषिदधीना यस्माद्वृत्ति-स्तदाश्रयेति हेतुव्यवदेशादन्येऽपि ये योषिदधीनजीवि-नस्तेऽपि योषित्कृतमृणं दद्युरिति गम्यते पतिकृत-म्भार्या दद्यादित्यस्यापवादमाह “प्रतिपन्नं स्त्रियादेयं पत्या वा सह यत् कृतम् स्वयंकृतं वा यदृणंनान्यत स्त्री दातुमर्हति” या० “मुमूर्षुणा प्रवत्स्यता वापत्या नियुक्तया ऋणदाने यत्प्रतिपन्नन्तत्पतिकृतमृणन्देयंयच्च पत्या सह भार्यया कृतन्तदपि भर्त्रभावे भार्यया अ-पुत्रया देयम् यच्च स्वयमेव कृतमृणं तदपि देयम् ननुप्रतिपन्नादित्रयं स्त्रिया देयमिति वक्तव्यम् सन्देहाभावात् उच्यते “भार्या पुत्रश्च दासश्च त्रय एवाधनाःस्मृताः यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनमिति”वचनान्निर्धनत्वेन प्रतिपन्नादिष्वदानशङ्कायामिदमुच्यते ।प्रतिपन्नं स्त्रिया देयमित्यादि चानेन वचनेन स्त्र्या-दीनां निर्धनत्वमभिधीयते पारतन्त्र्यमात्रप्रतिपादन-परत्वात् एतच्च विभागप्रकरणे स्पष्टीकरिष्यते नान्यत्स्त्रीदातुमर्हतीत्येतत्तर्हि वक्तव्यम् विधानेनैवान्यत्र प्रति-षेधसिद्धेः उच्यते “प्रतिपन्नं स्त्रिया देय पत्या वा महयत् कृतम्” इत्यनयोरपवादार्थमुच्यते अन्यच्च सुराकामादि-वचनोपात्तं प्रतिपन्नमपि पत्या सहकृतमपि देयमिति ।पुनरपि यदृणं दातव्यं येन दातव्यं यत्र कालेदातव्यं तत्त्रितयमाह “पितरि प्रोषिते प्रेते व्यसनाभि-परिप्लुते पुत्रपौत्रैरृणन्देयं निह्नवे साक्षिभावितम्” या० ।पिता यदि दातव्यमृणमदत्त्वा प्रेतो दूरदेशङ्गतोऽचिकित्स-नीयव्याध्याद्यभिभूतो वा तदा ततकृतमृणमवश्यन्देयं पुत्रेणपौत्रेण वा पितृधनाभावेऽपि पुत्रत्वेन पौत्रत्वेन तत्रक्रमोऽप्ययमेव पित्रभावे पुत्रः पुत्राभावे पौत्र इति पुत्रेणपौत्रेण वा निह्नवे कृतेऽर्थिना साक्ष्यादिभिर्भावितमृणन्देयंपुत्रपौत्रैरित्यन्वयः अत्र पितरि प्रोषित इत्येतावदुक्तंकालविशेषस्तु नारदेनोक्तो द्रष्टव्यः “नार्वाक् संवत्स-राद्विंशात् पितरि प्रीषिते सुतः ऋणं दद्यात् पितृव्येवा ज्येष्ठे भ्रातर्य्यथापि वेति” प्रेतेऽप्यप्राप्तव्यवहारकालस्तुन दद्यात् प्राप्तव्यवहारकालस्तु दद्यात् कालस्ते-नैव दर्शितः “गर्भस्थैः सदृशो ज्ञेय आष्टमाद्वत्सरा-च्छिशुः बाल आषोडशाद्वर्षात् पौगण्डश्चेति शब्द्यते ।परतो व्यवहारज्ञः स्वतन्त्रः पितरावृत इति” यद्यपिपितृमरणादूर्द्धं बालोऽपि स्वतन्त्रोजातस्तथापि ऋणभाग्भवति यथा “अप्राप्तव्यवहारश्चेत् स्वतन्त्रोऽपि हिनर्णभाक् स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृत-मिति” तथा आसेधाह्वाननिषेधश्च दृश्यते “अप्राप्त-व्यवहारश्च दूतोदानोन्मुखो व्रती विषमस्थश्च नासेध्योन चैतानाह्वयेन्नृपः” इति तस्मात् “अतः पुत्रेण जातेनस्वार्थमुत्सृज्य यत्नतः ऋणात् पिता मोचनीयोयथानोनरकं व्रजेदिति” पुत्रेण व्यवहारज्ञतया जातेननिष्पन्नेनेति व्याख्येयम् श्राद्धे तु बालस्यापि अधिकारः“न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनादिति” गौतम-स्मरणात् पुत्रपौत्रैरिति बहुवचननिर्देशाद्बहवः पुत्रा यदिविभक्ताः, स्वांशानुरूपेणर्णं दद्युः अविभक्ताश्चेत् सम्भूयसमुत्थानेन गुणप्रधानभावेन वर्त्तमानानां प्रधानभूतएवदद्यादिति गम्यते यथाह नारदः “अत ऊर्द्धं पितुःपुत्रा ऋणं दद्युर्यथांशतः अविभक्ता विभक्ता वा यस्तांचोद्वहते धुरमिति” अत्र यद्यपि पुत्रपौत्रैरृणं देय-मित्यविशेषेणोक्तम् तथापि पुत्रेण यथा पिता सवृद्धिकन्ददाति तथैव देयं पौत्रेण तु समं मूलमेव दातव्यं वृद्धिंरितिविशेषोऽवगन्तव्यः “ऋणमात्मीयवत् पित्र्यं पुत्रैर्देयं वि-भावितम् पैतामहं समं देयमदेयं तत्सुतस्य तु” इति-वृहस्पतिवचनात् अत्र विभावितमित्यविशेषोपादानात्साक्षिभावितमित्यत्र साक्षिग्रहणं प्रमाणोपलक्षणम् समंयावद्गृहीतं तावदेव देयं वृद्धिः तत्सुतस्य प्रपौत्रस्या-देयमगृहीतधनस्य एतच्चोत्तरश्लोके स्पष्टयिष्यते ऋ-णापकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः कर्त्तारोद-र्शिताः तेषाञ्च समवाये क्रमोऽपि दर्शितः ।इदानीं कर्त्रन्तरसमवाये क्रममाह “ऋक्थग्राहऋणं दाप्योयोषिद्ग्राहस्तथैव पुत्रोऽनन्याश्रितद्रव्यःपुत्रहीनस्य ऋक्थिनः” या० अन्यदीयं द्रव्यमन्यस्यक्रयादिव्यतिरेकेण यत् स्वीयं भवति तदृक्थं विभागद्वारेणऋक्थं गृह्णातीति ऋक्थग्राहः ऋणं दाप्यः एतदुक्तम्भवति यो यदीयन्द्रव्यं रिक्थरूपेण गृह्णाति तत्कृतम्ऋणं दाप्यो चौरादिरिति योषितं भार्यां गृह्णातीतियोषिद्ग्राहः तथैव ऋणं दाप्यः यो यदीयां योषितंगृह्णाति तत्कृतमृणं दाप्यः योषितोऽविमाज्यद्रव्यत्वेनऋक्थव्यपदेशानर्हत्वाद्भेदेन निर्देशः पुत्रश्चानन्याश्रितद्रव्यऋणं दाप्यः अन्यमाश्रितमन्याश्रितम् मातृपितृसम्बन्धि-द्रव्यं यस्यासावन्याश्रितद्रव्यः अन्याश्रितद्रव्योऽनन्याश्रितद्रव्यः पुत्रहीनस्य ऋक्थिन ऋणं दाप्य इति सम्बन्धः ।एतेषां समवाये क्रमश्च पाठक्रमएव ऋक्थग्राह ऋणं दाप्य-स्तदभावे योषिद्ग्राहस्तदभावे (तथाभूतः) पुत्र इति ।नन्वेतेषां समवाय एव नोपपद्यते “न भ्रातरो नपितरः, पुत्रा ऋक्थहराः पितुरिति” पुत्रे सत्यन्यस्यऋक्थग्रहणासम्भवात् योषिद्ग्राहोऽपि नोपपद्यते“न द्वितीयश्च साध्वीनां क्वचिद्भर्त्तोपदिश्यते” इति स्मर-णात् तदर्णं पुत्रो दाप्य इत्यप्ययुक्तं पुत्रपौर्त्रैरृणंदेयमित्युक्तत्वात् अनन्याश्रितधन इति विशेषणमप्यनर्थ-कम् पुत्रे सति द्रव्यस्यान्याश्रयणासम्भवात् सम्भवे चऋक्थग्राह इत्यनेनैव गतार्थत्वात् पुत्रहीनस्य ऋक्थिनइत्येतदपि वक्तव्यम् पुत्रे सत्यपि ऋक्थग्राह ऋणंदाप्य इति स्थितमसति पुत्रे ऋक्थग्राहः सुतरां दाप्यःइति सिद्धमेवेति अत्रोच्यते पुत्रे सत्यप्यन्य ऋक्थ-ग्राही सम्भवति क्लीवान्धबधिरादीनां पुत्रत्वेऽपि ऋक्थ-हरत्वाभावात् तथा क्लीवादीननुक्रम्य “भर्त्तव्यास्तुनिरंशकः” इति वक्ष्यति तथा “सवर्णापुत्रोऽप्यन्यायवृत्तोन लभेतेति केषामिति” गौतमवचनात् अतश्च क्लीवादिषुपुत्रेषु सत्स्वन्यायवृत्ते सवर्णापुत्रे सति ऋक्थग्राहीपितृव्यतत्पुत्रादिः योषिद्ग्राहो यद्यपि शास्त्रविरोधेनन सम्भवति तथाप्यतिक्रान्तनिषेधः पूर्वपतिकृतर्णापक-रणाधिकारी भवत्येव योषिद्ग्राहोयश्चतसृणां स्वैरिणी-नामन्तिमां गृह्णाति, यश्च पुनर्भ्वान्तिसृणां प्रथमाम्, यथाह नारदः “परपूर्वास्त्रियस्त्वन्याः सप्त प्रोक्तायथाक्रमम् पुनर्भूस्त्यिविधा तासां स्वैरिणी तु चतुर्विधा ।कन्यैवाऽक्षतयोनिर्या पाणिग्रहणदूषिता पुनर्भूः प्रथमाप्रोक्ता पुनःसंस्कारकर्मणा देशधर्मानपेक्ष्य स्त्री गुरु-भिर्या प्रदीयते उत्पन्नसाहसाऽन्यस्मै सा द्वितीया प्र-कीर्त्तिता” उत्पन्नसाहसा उत्पन्नव्यभिचारा “असत्सुदेवरेषु स्त्री बान्धवैर्या प्रदीयते सवर्णाय सपिण्डायसा तृतीया प्रकीर्त्तिता स्त्री प्रसूताऽप्रसूता वा पत्या-वेव तु जीवति कामात् समाश्रयेदन्यं प्रथमा स्वैरिणीतु सा कौमारं पतिमुत्सृज्य या त्वन्यं पुरुषाश्रिता ।पुनःपत्युर्गृहं यायात् सा द्वितीया प्रकीर्त्तिता मृतेभर्त्तरि तु प्राप्तान् देवरादीनपास्य या उपगच्छेत् परंकामात् सा तृतीया प्रकीर्त्तिता प्राप्ता देशाद्धनक्रीता क्षु-त्पिपासातुरा तु या तवाहमित्युपगता सा चतुर्थी प्र-कीर्त्तिता अन्तिमा स्वैरिणीनां या प्रथमा पुनर्भुषाम् ।ऋणन्तयोः प्रतिकृतं दद्याद्यस्ते उपाश्रितः” इति तथा-न्योऽपि योषिद्ग्राहः ऋणापाकरणाधिकारी तेनैवदर्शितः “या तु सप्रधनैव स्त्री सापत्या वात्यमायेत् सो-ऽस्या दद्यादृणं भर्त्तुरुत्सृजेद्वा तथैव ताम्” प्रकृष्टेनधनेन सह वर्त्तत इति सप्रधना बहुधनेति यावत् तथा“अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् ऋणं वोढुःस भजते सैव चास्य धनं स्मृतमिति” पुत्रस्य पुनर्वचनंक्रमार्थम् अनन्याश्रितद्रव्य इति बहुपुत्रेषु ऋक्था-भावेऽप्यंशग्रहणयोग्यस्यैवर्णापाकरणाधिकारोनायोग्यस्या-न्धादेरित्येवमर्थम् “पुत्रहीनस्य ऋक्थिन” इत्येतदपिपुत्रपौत्रहीनस्य प्रपौत्रादयो यदि ऋक्थं गृह्णन्ति तदर्णंदाप्यानान्यथेत्येवमर्थम् पुत्रपौत्रौ तु ऋक्थग्रहणाभावेऽपि दाप्यावित्युक्तम् यथाह नारदः “क्रमाद-भ्यागतं प्राप्तं पुत्रैर्यन्नर्णमुद्धृतम् दद्युः पैतामहं पौत्रा-स्तच्चतुर्थान्निवर्त्तते” इति सर्वं निरवद्यम् यद्वा योषि-द्ग्राहाभावे पुत्रोदाप्य इत्युक्तन्तस्याभावे योषिद्ग्राहोदाप्य इत्युच्यते पुत्रहीनस्य ऋक्थिशब्देन योषिदेवो-च्यते “सैव चास्य धनं स्मृतमिति” स्मरणात् “यो यस्यहरते दारान् तस्य हरते धनमिति” ननु यो-षिद्ग्राहाभावे पुत्र ऋणं दाप्यः पुत्राभावे योषिद्ग्रा-ह इति, परस्परं विरुद्धम् उभयसद्भावे कश्चिद्दाप्यइति, नैष दोषः अन्तिमस्वैरिणीग्राहिणः प्रथमपुनर्भू-ग्राहिणः सप्रधनस्त्रीहारिणश्चाभावे पुत्रोदाप्यः पुत्रा-भावे तु निर्द्धननिरपत्ययोषिद्ग्राहो दाप्य इति एतदे-बोक्तं नारदेन “धनस्त्रीहारिपुत्राणामृणभाग् यो धनंहरेत् पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनि-पुत्रयोः” धनस्त्रीहारिपुत्राणां समवाये यो धनं हरेत्स ऋणभाक् पुत्रोऽसतोः स्त्रीधनिनोः स्त्री धनञ्चस्त्रीधने ते विद्येते ययोः तौ स्त्रीधनिनौ तयोः स्त्रीध-निनोः असतोः पुत्र एवर्णभाक् धनिपुत्रयोरसताःस्त्रीहार्य्येवर्णभाक् स्त्रीहार्य्यभावे पुत्र ऋणभाक् ।पुत्रभावे स्त्रीहारीति विरोधप्रतिभासपरिहारः पूर्ववत् ।पुत्रहीनस्य ऋकथिनः इत्यस्यान्या व्याख्या, एते धनस्त्रीहारिपुत्रा ऋणं कस्य दाप्याः? इति विवक्षायामुत्तम-र्णस्य दातुस्तदभावे तत्पुत्रादेः पुत्राद्यभावे कस्य दाप्याइत्यपेक्षायामिदमुपतिष्ठते पुत्रहीनस्य ऋक्थिन इतिपुत्राद्यन्वयहीनस्योत्तमर्णस्य ऋक्थी ऋक्थग्रहण-योग्यः सपिण्डादिस्तस्य ऋक्थिनो दाप्याः तथा ना-रदेन “ब्राह्मणस्य तु यद्देयं सान्वयस्य चास्ति सः ।निर्वापयेत् सकुल्येषु तदभावेऽस्य बन्धुषु” इत्यभिधायाभिहि-तम् “यदा तु सकुल्याः स्युर्न्न सम्बन्धिबान्धवाः ।तदा दद्याद्द्विजेभ्यस्तु तेष्वसत्स्वप्सु विनिक्षिपेदिति” ।अधुना पुरुषविशेषे ऋणग्र हणप्रतिषेधनप्रसङ्गादन्यदपिपतिषे धति “भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैवहि प्रातिभाव्यमृणं साक्ष्यमविभक्ते तु स्मृतम्” या० ।प्रतिभुवो भावः प्रातिभाव्यम् भ्रातॄणां दम्पत्योः पितापु-त्रयोश्च अविभक्ते द्रव्येद्रव्यविभागात् प्राक् प्रातिभाब्य-मृणं साक्ष्यञ्च स्मृतं मन्वादिभिः अपि तु प्रतिषिद्धंसाधारणघनत्वात् प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यव्ययाव-सानत्वात् ऋणस्य चावश्यप्रतिदेयत्वात् एतच्च परस्पराऽन-नुमत्या अनुमत्या त्वविभक्तानामपि प्रातिभाव्यादि भवत्येव ।विभागादूर्द्धन्तु परस्परानुमतिव्यतिरेकेणापि भवति ननु-दसात्योर्विभागात् प्राक् प्रातिभाव्यादिप्रतिषेधो युज्यतेतयोर्विभागाभावेन विशेषणानर्थक्याद्विभागाभावश्च आप-स्तम्बेन दर्शितः “जायापत्योर्न्न विभागो विद्यत” इति ।सत्यं श्रौतस्मार्त्ताग्निसाध्येषु कर्म्मसु तत्फलेषु वि-भागाभावो पुनः सर्वकर्मसु द्रव्येषु तथा हि“जायापत्योर्न विभागो विद्यते” इत्युक्त्वा किमिति विद्यतइत्यपेक्षायां हेतुमुक्तवान् “पाणिग्रहणाद्धि सहत्वङ्कर्म-सु तथा पुण्यफलेषु चेति” हि यस्मात् पाणिग्रहणा-दारभ्य कर्मसु सहत्वं श्रूयते “जायापती अग्निमादधी-यातामिति” तस्मादाधाने सहाधिकारादाधानसिद्धाग्नि-साध्येषु कर्मसु सहाधिकारः तथा “कर्म स्मार्त्तं विवा-हाग्नावित्यादि” स्मरणात् विवाहसिद्धाग्निसाध्येष्वपि कर्मसुसहाधिकार एव अतश्चोभयविधाग्निनिरपेक्षेषु कर्मसुपूर्त्तेषु जायापत्योः पृथगेवाधिकारः सम्पद्यते तथापुण्यानां फलेषु स्वर्गादिषु जायापत्योः सहत्वं श्रूयते“दिवि ज्योतिरजरमारभेतामित्यादि” येषु पुण्यकर्मसुसहाधिकारस्तेषां फलेषु सहत्वमिति बोद्धव्यम् पुनःपूर्त्तानां भर्त्तुनुज्ञयानुष्ठितानां फलेष्वपि ननु द्रव्यस्वामि-त्वेऽपि सहत्वमुक्तम् “द्रव्यपरिग्रहेषु हि मर्त्तु-र्विप्रवासे नैमित्तिकदाने स्तेयसुपदिशन्तीति” सत्यं द्रव्य-स्वामित्वं पत्न्या दर्शितमनेन पुनर्विभागाभावः यस्मा-द्द्रव्यपरिग्रहेषु चेत्युक्त्वा तत्र कारणमुक्तम्भर्त्तुर्विप्रवासे नैमित्तिकेऽवश्यकर्त्तव्यदानेऽतिथिभोजनभिक्षादानादौहि यस्मान्न स्तेयमुपदिशन्ति मन्वादयः तस्माद्भार्य्यायाअपि द्रव्यस्वामित्वमस्ति अन्यथा स्तेयं स्यादिति तस्मा-द्भर्त्तुरिच्छया भार्य्याया अपि द्रव्यविभागोभवत्येव नस्वेच्छया यथा वक्ष्यति “यदि कुर्य्यात् समानांशान्पत्न्यः कार्य्याः समांशिकाः” इति अधुना प्रातिभाव्यंनि रूपयितुमाह “दर्शने प्रत्यये दाने प्रातिभाव्यं विधी-यते आद्यौ तु वितथे दाप्यावितरस्य सुता अपि” या०प्रातिभाव्यं तिश्वासार्थं पुरुषान्तरेण सह समयः, तच्चविषयभेदात् त्रिधा भिद्यते यथा दर्शने दर्शना-पेक्षायामेनं दर्शयिष्यामीति, प्रत्यये विश्वासे मत्प्र-त्ययेनास्य धनं प्रयच्छ नायं त्वां वञ्चयिष्यते यतोऽमुकस्य पुत्रोऽयमुर्वराप्रायभूरस्य ग्रामवरोऽस्तीति, दाने य-द्ययं ददाति तदानीमहमेव धनं दास्यामीति, प्राति-भाव्यं विधीयत इति प्रत्येकं सम्बन्धः आद्यौ तु दर्शन-प्रत्ययप्रतिभुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभि-चारे दाप्यौ राज्ञा प्रस्तुतं (अवृद्धिकम्) धनमुत्तमर्णस्य ।इतरस्य दानप्रतिभुवः सुता अपि दाप्याः वितथे इत्येवशाठ्येन निर्द्ध्वनत्वेन वा अधमर्णेऽप्रतिकुर्व्वति इतरस्यसुता अपीति वदता पूर्व्वयोः सुता दाप्याः इत्युक्तम् ।सुता इति वदता पौत्रा दाप्या इति दर्शितम् एतदेवस्पष्टीकर्त्तुमाह “दर्शनप्रतिभूर्य्यन्त्र मृतः प्रात्ययिकोऽपिवा तत्पुत्रा ऋणं दद्युर्द्दद्युर्दानाय यः स्थितः” या०यदा दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूर्दिवंगतः तदा-तयोः पुत्राः प्रातिव्यायातं पैतृकम् ऋणं दद्युः यस्तुदानाय स्थितः प्रतिभूर्दिवं गतस्तस्य पुत्रा दद्युर्न पौत्राः ।ते मूलमेव दद्युर्न्न वृद्धिम् “ऋणं पैतामहं पौत्राःप्रातिभाव्यागतं सुतः समं दद्यात् तत्सुतौ तु दाप्या-विति निश्चयः” इति व्यासवचनात् प्रातिभाव्यव्यतिरिक्तंपैतामहमृणं पौत्रः समं यावद्गृहीतं तावदेव दद्यान्नवृद्धिम् तथा तत्सुतोऽपि प्रातिभाव्यागतं पित्र्यमृणंसममेव दद्यात्तयोः पौत्रपुत्रयोः सुतौ प्रपौत्रपौत्रौ चप्रातिभाव्यायातमप्रातिभाव्यायातं चर्णं यथाक्रममगृहीत-वित्तौ दाप्याविति यदपि स्मरणम् “स्वादकोवित्त-हीनः स्याल्लग्नकोवित्तवान् यदि मूलं तस्य भवेत्देयं नवृद्धिं दातुमर्हतीति” तदपि लग्नकः प्रतिभूः खादकोऽध-मर्णः, लग्नको यदि वित्तवान् मृतस्तदास्य पुत्रेण मूलमेवदातव्यं वृद्धिरिति व्याख्येयम् यत्र दर्शनप्रतिभूः प्रत्ययप्रतिभूर्वा बन्धकपर्याप्तं गृहीत्वा प्रतिभूर्जातः तत्-पुत्रा अपि तस्मादेव बन्धकात् प्रातिभाव्यायातमृण दद्यु-रेव यथा कात्यायनः “गृहीत्वा बन्धकं यत्र दर्श-नेऽस्य स्थितो भवेत् विना पित्रा धनात्तस्मात् दाप्यःस्यात् तदृणं सुतः” इति दर्शनग्रहणं प्रत्ययोपलक्षणम् विनापित्रा पितरि प्रेते दूरदेशङ्गते वेति यस्मिन्ननेकप्रतिभूसम्भवस्तत्र कथं दातव्यमित्याह “बहवः स्युर्य्यदि स्वांशै-र्दद्युः प्रतिभुवोधनम् एकच्छायाश्रितेष्वेषु धनिकस्ययथारुचि” या० यद्येकस्मिन् प्रयोगे द्वौ बहवो वाप्रतिभुवस्तदर्णं विभज्य स्वांशेन दद्युः एकच्छायाश्रितेषुप्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तामाश्रिताःएकच्छायाश्रिताः अधमर्णो यथा कृत्स्नद्रव्यदानाय-स्थितस्तथा दानप्रतिभुवोऽषि प्रत्येकं कृत्स्नदानायस्थिताः एवं दर्शनप्रत्यये तेष्वेकच्छायाश्रितेषु प्रतिभूषुसत्सु धनिकस्योत्तमर्ण्णस्य यथारुचि यथाकामम् ।अतश्च धनिको वित्ताद्यपेक्षया स्वाथं यं प्रार्थयते सएव कृत्स्नं दद्यान्नांशतः एकच्छायाश्रितेषु यदि कश्चि-द्देशान्तरं गतस्तत्पुत्रश्च सन्निहितस्तदा धनिकेच्छया ससर्वं दाप्यः मृते तु कस्मिंश्चित् स्वपित्र्यमंशमवृद्धिकं दाप्यः ।यथाह कात्यायनः “एकच्छायाप्रविष्टानां दाप्योयस्तत्रदृश्यते प्रोषिते तत्सुतः सर्वं पित्र्यमंशं मृते सति”प्रातिभाव्यर्णदानविधिमुक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधिमाह “प्रतिभूर्दापिती यत्तु प्रकाशं धनिनो धनम् ।द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत्” या० यदृणं प्रति-भूस्तत्पूत्रो वा धनिकेनोपपीडितः प्रकाशं सर्वजनसमक्षंराज्ञा धनिनो दापितो गनर्द्वैगुण्यलोभेन स्वयमुपेत्यदत्तम् यथाह नारदः यच्चर्णं प्रतिभूर्दद्याद्धनिके-नोपपीडितः ऋणिकन्तं प्रतिभुवे द्विगुणं प्रतिदापये-दिति” ऋणिकैरधमर्ण्णैस्तस्य प्रतिभुवस्तद्द्रव्यं द्विगुणंप्रतिदातव्यं स्यात् तच्च कालविशेषमनपेक्ष्य सद्य एवद्विगुणं दातव्यम् वचनारम्भसामर्थ्यात् एतच्च हिरण्य-विषयम् नन्विदं वचनं द्वैगुण्यमात्रं प्रतिपादयतितच्च पूर्वोक्तकालकलाक्रमाबाधेनाप्युपपद्यते यथा जातेष्टिविधानं शुचित्वाबाधेन अपि सद्यः सवृद्धि-कदानपक्षे पशुस्त्रीणां सद्यःसन्तत्य भावान्मूलदानमेवप्राप्नोतीति तदसत् “वस्त्रधान्यहिरण्यानां चतुस्त्रिद्वि-गुणा परा” इत्यनेनैव कालकलाक्रमेण द्वैगुण्यसिद्धेर्द्वैगुण्य-मात्रविधान इदं वचनमनर्थकं स्यात् पशुस्त्रीणान्तुकालक्रमपक्षे सन्तत्यभावे स्वरूपदानमेव यदा प्रतिभू-रपि द्रव्यदानानन्तरं कियता कालेनाधमर्णेन संघटते तदासंततिरपि सम्भवत्येव यद्वा पूर्व्वसिद्धसन्तत्या सह पशुस्त्रि-योदास्यतीति किञ्चिदेतत् अथ प्रातिभाव्यं प्रीतिकृत-मतश्च प्रतिभुवा दत्तं प्रीतिदत्तमेव प्रीतिदत्तस्य या-चनात् प्राक्वृद्धिरस्ति यथाह “प्रीतिदत्तं तु यत्कि-ञ्चिद्वर्द्धते त्वयाचितम् याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकंशतमिति” अतश्च प्रीतिदत्तस्यायाचितस्यापि दानदिव-सादारभ्य यावत् द्विगुणं कालक्रमेण वृद्धिरित्यनेन वचने-नोच्यत इति तदप्यसत् अस्यार्थस्यास्माद्वचनादप्रतीतेःद्विगुणं प्रतिदातव्य मित्येतावदिह प्रतोयते तस्मात् काल-क्रमनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्यादितिसुष्ठूक्तम् प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तेऽपवाद-माह “सन्ततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव वस्त्रंचतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा” या० हिरण्यद्वैगुण्य-वत् कालानादरेणैव स्त्रीपश्वादयः प्रतिपादितवृद्ध्या दाप्याःश्लोकस्तु व्याख्यातएव यस्य द्रव्यस्य यावती वृद्धिः परा-काष्ठोक्ता तत्द्रव्यं प्रतिभूदत्तं खादकेन तया वृद्ध्या सहकालविशेषमनपेक्ष्य सद्यो दातव्यमिति तात्पर्य्यार्थः यदातु दर्शनप्रतिमूः सं प्रतिपन्ने कालेऽधमर्णं दर्शयितुमसमर्थ-स्तदा तदन्वेषणाय तस्य पक्षत्रयं (अवधिभूतम्) दातव्यम् ।तत्र यदि दर्शयति तदा मोक्तव्योऽन्यथा प्रस्तुतं धनंदाप्यः “नष्टस्यान्वेषणार्थन्तु देयं पक्षत्रयं परम् यद्यसौदर्शयेत् तत्र मोक्तव्यः प्रतिभूर्भवेत् काले व्यतीते प्रति-भूर्य्यदि तं नैव दर्शयेत् निबन्धं दापयेत्तन्तु प्रेते चैषविधिः स्मृतः” इति कात्यायनवचनात् लग्नके विशेष-निषेधश्च तेनैवोक्तः “न स्वामी वै शत्रुः स्वामि-नाधिकृतस्तथा निरुद्धो दण्डितश्चैव संदिग्धश्चैव नक्वचित् नैव ऋक्थी मित्रञ्च नचैवात्यन्तवासिनः ।राजकार्य्यनियुक्तश्च ये प्रव्रजिता नराः शक्तोधनिने दातुं दण्डं राज्ञेच तत्समम् जीवन्वापि पितायस्य तथैवेच्छाप्रवर्त्तकः नाविज्ञातो ग्रहीतव्यः प्रतिभूःस्वक्रियां प्रतीति” सन्दिग्धोऽभिशस्त्रः अत्यन्तवासिनी-नैष्ठिकब्रह्मचारिणः इति प्रतिभूविधिः धनप्रयोगे द्वौ“विश्वासहेतू प्रतिभूराधिश्च यथाह नारदः विश्रम्भहेतूद्वावत्र प्रतिभूराधिरेव चेति” प्रतिभूर्निरूपितः” मिता०आधिस्तु विस्तरेक्षाधिशब्दे ७११ पृष्ठादौ निरूपितः ।अत्र विशेषः वीरमि० व्यासः “सबन्धे भाग आशीतःषष्टोभागः सलग्नके निराधाने द्विकशतं मासलाभउदाहृतः” अत्र आधानपदं प्रतिभुवोऽभ्युपलक्षणम् ।तत्रैव नारदः “स्थानलाभनिमित्तं यद्दानग्रहणमिष्यते ।तत्कुसीदमिति ज्ञेयम् तेन वृत्तिः कुसीदिनाम्” स्थानंमूलधनस्यावस्थानं लाभो वृद्धिः तन्निमित्त ततप्रयोज-नम् कुसीदशब्दार्थ माह वृह० “कुत्सितात् सीदतश्चैवनिर्विशङ्कैः प्रगृह्यते चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणा-त्ततः” कतमितात सीदतश्च अधमर्ण्णात् इत्यर्थः वृद्धौविशेषमाह एव “वृद्धिश्चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकी-र्त्तिता षड्विधान्यैः समाख्याता तत्त्वतस्ता निबोधत ।कायिका कालिका चैव चक्रवृद्धिरतीऽपरा कारिता स-शिखा वृद्धिर्भोगलाभस्तथैव कायिका कर्म्मसंयुक्ता मास-ग्राह्या तु कालिका वृद्धेर्वृद्धिश्चक्रवृद्धिः कारिता ऋणिनाकृता प्रत्यहं गृह्यते या तु शिखा वृद्धिस्तु सा स्मृता ।गृहात्तोषः फलं क्षेत्रात् भोगलाभः प्रकीर्त्तितः” कर्म्म-संयुक्ता कायिका यत्र बन्धकीकृतस्य गवाश्वादेर्दोहनवहना-दिकं कर्म्म वृद्धित्वेन स्थापितं तत्र सा कायिका यथाहव्यासः “दोह्यवाह्यकर्मयुता कायिका समुदाहृता” प्रत्यहंगृह्यते या तु शिखा वृद्धिस्तु सा स्मृता शिखेव वर्द्धतेनित्यं शिरश्छेदान्निवर्त्तते मूले दत्ते तथैवैषा शिखा-वृद्ध्विर्निवर्त्तते” परमवृद्धौ विशेषस्तत्रैव वृह० “हिरण्येद्विगुणा वृद्ध्विस्त्रिगुणा वस्त्रकुप्यके धान्ये चतुर्गुणा प्रोक्ताशदवाह्यलवेषु उक्ता पञ्चगुणा शाके वीजेक्षौ षड्-गुणा स्मृता लवणस्नेहमद्येषु वृद्धिरष्टगुणा मता ।गुडे मधुनि चैवोक्ता प्रयुक्ते चिरकालिके” कुप्यं त्रपुसी-सादि शदः क्षेत्रफलं धान्यस्य पृथग्ग्रहणात्तद्व्यतिरिक्तंपुष्पफलादि कात्या० “तैलानाञ्चैव सर्वेषां मद्यानामथसर्थिषाम् वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च” ।सर्वेषां सर्वप्रकाराणां सर्वत्रान्वयः गुडादौ विभक्तिव्यत्ययेनसर्वस्येत्यन्वयः वसिष्ठः “वज्रशुक्तिप्रवालानां हेम्नश्च रजतस्यच द्विगुणा त्विष्यते दृद्धिः कृतकालानुसारिणी” कात्या०“मणिमुक्ताप्रवालानां सुवर्ण्णरजतस्य तिष्ठतो द्वि-गुणा वृद्धिः फलकैटाविकस्य च” फलं फलजं कार्पासादिआविकसाहचर्य्यात् कैटं कीटोद्भवं पट्टसूत्रादि आविकंकम्बलादि वसिष्ठः “ताम्रायःकांस्यरीतीनां त्रपुणः सीस-कस्य त्रिगुणा तिष्ठतो वृद्धिः कालात् चिरकृतस्य तु”विष्णुः “अनुक्तानां त्रिगुणा” देशाचारभेदादुक्तायाः सव-प्रकारवृद्धेरन्यथात्वमाह नारदः “ऋणानां सार्वभौमो-ऽवं विधिर्वृद्धिकरः स्मृतः देशाचारस्थितिस्त्वन्या यत्रर्ण्ण-मवतिष्ठते द्विगुणं त्रिगुणञ्चैव तथात्यस्मिंश्चतुर्गुणम् ।तथाष्टगुणमन्यस्मिन् तत्र देशेऽवतिष्ठते” द्रव्यभेदेऽक्षयवृ-द्धिमाह वृह० “तृणकाष्ठेष्टकासूत्रकिण्वचर्मास्थिवर्म्म-णाम् हेतिपुष्पफलानाञ्च वृद्धिस्तु निवर्त्तते ।किण्वं सुराद्रव्योपकरणं द्रव्यविशेषः वसिष्ठः“दन्तचर्मास्थिशृङ्गाणां मृण्मयानां तथैव अक्षयावृद्धि-रेतेषां पुष्पमूलफलस्य च” पुष्पादौ पूर्वापरविरोधः अधमर्ण्ण-शक्त्यपेक्षानपेक्षाभ्यां समाधानीयः शिखावृद्ध्यादौ वृद्धेर-रक्षयमाह वृह० “शिखावृद्धिं कालिकाञ्च फलभोगंतथैव धनी तावत् समादद्यात् यावन्मूलं शोधि-तम्” “क्वचिदनङ्गीकृताऽपि वृद्धिर्भवतीत्याह” विष्णुः“यो गृहीत्वा ऋणं पूर्वं श्वोदास्यामीति सामकम् दद्याल्लोभतः पश्चात् तदहाद्वृद्धिमाप्नुयात्” सामकं सम-मेवावृद्धिकं श्वोदास्यामीति प्रतिश्रुत्येर्थः श्व इति पदं दा-नकालोपलक्षणम् अङ्गीकाराभावे क्वचित् विषये वृद्ध्य-भावमाह संव० “न वृद्धिः स्त्रीधने लाभे निःक्षिप्ते चयथास्थिते सन्दिग्धे प्रतिभावो यदि स्यात् स्वयंकृता” स्त्रीधने “अधिविन्नस्त्रियै देयमाधिवेदनिकं समम्”इत्युत्याद्युक्तेः स्त्रियै दातव्ये धने स्त्रीशुल्कधने लाभेकृष्याद्याये बाणिज्याद्युत्पन्ने आये कालातिक्रमेऽपि नबृद्धिः कात्या० “धर्म्मकृत्यासवद्यूते पण्यमूल्ये सर्वदा ।स्त्रीशुल्केषु वृद्धिः स्यात् प्रातिभाव्यागतेषु च” धर्म्म-कृत्ये प्रतिश्रुत्यादत्ते, द्यूते कृतर्ण्णे पराजितर्णे सुरा-पाणार्थमृणे क्रीतद्रव्यस्य पण्यस्य मूल्ये प्रातिभाव्या-गतेषु सन्दिग्धप्रातिभाव्यागतेषु प्रागुक्तसंवर्त्तवाक्यैवाक्यत्वात्अत्र सर्वदेति विशेषणम् याचनेऽपि वृद्धिरिति सू-चनार्थमं व्यासः “न वर्द्धते चिरस्थं मद्यशुल्कप्रतिश्रु-तम्” शुल्कं घट्टादिदेयं राजकरादि पूर्ण्णावधौ ऋणदानासामर्थ्ये विशेषमाह मनुः “ऋणं दातुमशक्तोयःकर्त्तुमिच्छेत् पुनः क्रियाम् दत्त्वा निर्जितां वृद्धिंकरणं परिवर्त्तयेत् अदर्शयित्वा तत्रैव हिरण्यं परि-वर्त्तयेत् यावती, सम्भवेद्वृद्धिस्तावतीं दातुमर्हति चक्र-वृद्धिं समारूढो देशकालव्यवस्थितः अतिक्रामन् देशका-लौ तत्फलमयाप्नुयात्” निर्जितां लभ्यत्वेनात्माधी-नत्वं नीताम् करणमन्यदृणलेख्यं कुर्यात् अदर्शयित्वासाक्षिभ्यो देयद्रव्यमदर्शयित्वैव अधमर्ण्णेन मयाएतावती वृद्धिरियन्मूलमित्येवमङ्गीकारणेन देयमृणंपरिवर्त्तयेत् सवृद्धिकत्वेनाधिकतया अन्यथाभावभापादयेत्तदेव पत्रे साक्षिमल्लेख्यम् एतच्च यावर्ती वृद्धिं तदादातु शक्नोति तावतीं दत्त्वा लेख्यं कार्यं तथा-कृते सति द्विगुणातिक्रमेण वृद्धिर्भवतीत्यर्थः तथाकृते चवृद्धेरपि वृद्धिः तस्य सवृद्धिकस्य मूलस्थानीयत्वात्यथाह वृह० “पूर्ण्णावधौ शान्तलाभमृणमुद्ग्राहये-द्वनी कारयेद्वा ऋणी लेख्यं चक्रवृद्धिव्यवस्थया द्विगुण-स्योपरि यथा चक्रवृद्धिः प्रगृह्यते भोगलाभस्तथा तत्रसूलं स्यत् सोदयमृणम्” ऋणग्रहणोपायाश्च मिता०उक्ताः उपायशब्दे १३५५ पृ० विस्तरेण दर्शिताः अव-धिमध्ये सवृद्धिकसर्वर्णदानासम्भवे क्रमेण दाने स-लेख्यप्रयोगे लेख्यपृष्ठे लिखित्वैव दानप्रकारमाह याज्ञ० ।“लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वादत्त्वर्ण्णिको घनम् धनीवोपगतं दद्यात् स्वहस्तपरिचिह्नितम्” उपगतशब्दे १२०१ पृ०व्याख्यातम् विष्णुः “असमग्रदाने लेख्यासन्निधाने चो-त्तमर्ण्णः स्वलिखितं दद्यात्” (रसिंद) प्रवेशपत्रादाने विशेषमाह नारदः “गृहीत्वोपगतं दद्यादृणिकायोदयंधनी अददद्याच्यमानश्च शेषहानिमवाप्नुयात्” “उदयंप्राप्तम् सर्वर्ण्णदाने तु ऋणलेख्यच्छेदनमाह “दत्त्वर्ण्णंपाटयेल्लेख्यं शुद्ध्यै वान्यत्तुकारयेत् साक्षिमच्च भवे-द्यद्वा तद्दातव्यं ससाक्षिकम्” या० ।तत्राशक्तौ विशेषमाह कात्या० “धनदानासहं वुद्ध्वास्वाधीनं कर्म्म कारयेत् अशक्तौ बन्धनागारे प्रवंश्योब्राह्मणादृते” अशुभकर्मकारणं बन्धनागारप्रवेशनञ्चराजावेदनपूर्वकमेव कार्य्यमन्यथा दण्डमाह कात्या० “यदिह्यादावनादिष्टमशुभं कर्म कारयेत् प्राप्नुयात् साहसंपूर्बमृणान्मुच्येत चर्ण्णिकः” अनादिष्टम् राज्ञाऽनिवेदितम् ।ऋणदातृपुत्रं विशेषयति कात्या० “ऋणं तु दापयेत्पुत्रम् यदि स्यान्निरुपद्रवः द्रविणार्हश्च धुर्यश्च नान्यथादापयेत् सुतम् व्यसनाभिप्लुते पुत्रे बाले वा यत्प्रदृश्य ते द्रव्यहृद्दापयेत्तं तु तस्याभावे पुरन्ध्रीहृत्”कुटम्बार्थे कृतर्ण्णे विशेषमाह वृह० “पितृव्यभ्नातृ-पुत्रस्त्रीदासशिष्यानुजीविभिः यत् गृहीतं कुटुम्बार्थे तद्गृही दातुमर्हति” नारदः “शिष्यान्तेवासिदासस्त्रीप्रैष्यकृत्यकरैश्च यत् कुटुम्बहेतोर्यत् क्षिप्तं दातव्यं तत् कुटु-म्बिना” शिष्यः वेदशिष्यः अन्तेवासी शिल्पशिष्यः ।“कुटुम्बार्थमृणं दर्शयति” कात्या० “कुटुम्बार्थ-मशक्ते तु गृहीतं व्याधिते तथा उपप्लवनिमित्तंच विद्यादापत्कृतन्तु तत् कन्यावैवाहिके चैव प्रेत-कार्य्येषु यत् कृतम् एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतंप्रभोः” पुत्रकृते विशेषमाह नार० “पितुरेव नियो-गाद्वा कुटुम्बभरणाय वा कृतं वा यदृणं कृच्छ्रे दद्यात्पुत्रस्य तत्पिता” स्त्रियाः पतिकृ तर्ण्णदाने विशेषमाहकात्या० “मर्त्तुकामेन या भर्त्त्रा उक्ता देयमृणं त्वया ।प्रतिप्रन्ना सा दाप्या धनं यद्याश्रितं स्त्रियाम्” नार०“दद्यादपुत्रा विधवा नियुक्ता या मुसूर्षुणा या वा तद्रि-क्थमादद्यात् यतोरिक्थमृणं ततः” मातुर्निर्धनत्वे-ऽपि तत्कृतर्ण्णं पुत्रेण देयमाह” नारदः “पुत्रिणी तुसमुत्सृज्य पुत्रंस्त्री यान्यमाश्रयेत् तस्य ऋणं हरेत् सर्वंनिःस्वाया पुत्रएव तु” सधनत्वे तामद्वोढैव दद्यात” यथा-ह कात्या० “बालपुत्राधिकार्था स्यात् भर्त्त्रारं यान्यमा-श्रिता आश्रितस्तमृणं दद्यात् बालपुत्राविधिः स्मृतः” ।अविभक्तर्ण्णे विशेषमाह विष्णुः अविभक्तैः कृतमृणं यस्तिष्ठतिस दद्यात्” नारदः “पितृव्येणाविभक्तेन भ्रात्रा वायदृणं कृतम् मात्रा वा यत् कुटुम्बार्थे दद्युस्तत् सर्वऋक्थिनः” अविभ्रक्तकाले कुटुम्बार्थे कृतमृण विभक्तैरपिदेयमह मनुः “ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थेकृतोव्ययः दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वतः” ।कामकृतर्ण्णमाह कात्या० “लिखितं मुक्तकं वापि देयंयत्तु प्रतिश्रुतम् परपूर्वस्त्रियै तत्तु विद्यात् कामकृतंनृणाम्” मुक्तकं लेखरहितम् अनेकधनिसमवायेविशेषमाह कात्या० “नानर्ण्णसमवाये तु यद्यत् पूर्बकृतंभवेत् तत्तदेवाग्रतो देयं राज्ञः स्याच्छ्रोत्रियात् परम् ।एकाहे लिखितं यत्र तत्र कुर्यादृणं समम् ग्रहणंरक्षणं लाभमन्यथा तु यथाक्रमम्” भिन्नदिवसे कृतंश्रोत्रियपूर्वकं देयम् एकदिनकृतननर्ण्ण समवाये युग-पद्देयम् धनाल्पत्वबहुत्वयोस्तु तदनुसारेण भागं परिकल्प्यदेयमित्यर्थः अत्र विशेषमाह कात्या “यस्य द्रव्येणयत्पण्यं साधितं यो विभायेत् तद्द्रव्यमृणिकेनैवदातव्यं तस्य नान्यथा” यदुत्तमर्ण्णात् द्रव्यं गृहीत्वावाणिज्यादिकं करोति तस्मात् लब्धधनं तस्मै एवदेयं तत्सत्त्वे नान्यस्मै इत्यर्थः पैतामहपित्रर्ण्ण-योरग्रे देयतामाह वृह० “पित्र्यं पूर्वमृणं देयंपश्चादात्मीयमेव तयोः पैतामहं पूर्वं देयमेवमृणंसदा पित्रर्ण्णे विद्यमाने तु पुत्रो धनं हरेत् ।देयं तद्धनिके द्रव्यं मृते पौत्रैस्तु दाप्यते” एवं मातृक-र्णेऽपि “मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्वयः” या०उक्तेः पुत्रपौत्रादिभिर्देय ऋणे विशेषमाह विष्णुः “ध-नग्राहिणि प्रेते प्रव्रजिते वा द्विदशाः समाः प्रोषितेवा तत्पुत्रपौत्रैर्देयं नातः परमनीप्लुभिः” प्रेते अप्राप्तव्यवहारस्य विंशतिवर्षोत्तरं, संन्यस्ते प्रोषिते सर्वस्यैव तत्कालोत्तरं देयम् एतच्च अप्राप्तधनस्य गृहीतधनस्य तु तत्क्षणाद्देयता ऋणावशेषधनग्रहणस्यैव प्रागुक्तशास्त्रसिद्धेः ।ऋणापकरणाभावे दोषमाह व्यासः “तपस्वी वाग्नि-होत्री वा ऋणवान् म्रियते यदि तपर्श्चवाग्निहोत्रञ्चसर्वं तद्धनिनो भवेत्” अन्यकृतपुण्यस्यान्यत्र संक्रमाप्रस-प्तोरस्य चिन्दार्थवादता तेन तत्तत्पुण्यनाशकतेति प-र्य्यवमितोऽर्थः कात्या० “उद्धारादिकमादाय स्वामिनेन ददाति यः कन्तस्य दासो भृत्यः स्त्री पशुर्वा जायतेगृहे” तथा नारदः “याच्यमानं दद्याद्य ऋणंवापि प्रतिग्रहम् तद्द्रव्यं वर्द्धते तस्य यावत् कोटिशतंभवेत् ततः कोटिशते पूर्ण्णे वेष्टितस्तेन कर्म्मणा अश्वःस्वरो वृषो दासो भवेज्जन्मनि जन्मनि” तेनर्ण्णानपक्रियायाउक्तपश्वादियोनिप्राप्तिहेतुदुरदृष्टजनकत्वम् ऋणग्रहण-मेव पापहेतुः तच्छोधनस्य तन्नाशकतेति गदाधर आह स्म
Capeller
German
ऋणादान
m.
Schuldeintreibung (j.)