ऋणं (RNaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritऋणं, (ऋ + क्त । ऋणमाधमर्ण्ये इति णत्वम् ।)धारः । देना इति भाषा । तत्पर्य्यायः । पर्य्युदञ्च-नम् २ उद्धारः ३ । इत्यमरः ॥
पुनर्देयत्वेन स्वी-कृत्य यत् गृहीतम् । इति जगदीशः ॥
अस्यविवरणं ऋणादानशब्दे द्रष्टव्यम् ॥
* ॥
कुसीदाख्यं ऋणं यथा ।“स्थानलाभनिमित्तं यद्दानग्रहणमिष्यते ।तत्कुसीदमिति ज्ञेयं तेन वृत्तिः कुसीदिनाम्” ॥
इति नारदः ॥
अस्यार्थः । स्थानं मूलधनावस्थानम् ।लाभो वृद्धिः । दानग्रहणपदे कर्म्मण्यनटा साध्येतेन मूलधनावस्थाने सत्येव यो लाभस्तदर्थं यद्दानंधनिकेन दीयमानं मूलधनं अधमर्णेन च ग्रहणंतथा स्वीकृत्य गृह्यमाणं यत्तदृणम् । इति रत्ना-करादयः ॥
कलाशून्ये तु अवश्यापाकरणियत्व-रूपगुणयोगाद्गौणप्रयोगः । अतएव बाणिज्यार्थ-प्रयुक्तस्य नर्णत्वं इति मिश्राः ॥
* ॥
अपि च ।“कुत्सितात् सीदतश्चैव निर्विशङ्कैः प्रगृह्यते ।चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणं त्वतः” ॥
इति वृहस्पतिः ॥
अस्यार्थः । कुत्सितात् सीदत-श्चाधमर्णात् सकलं धनं यत् गृह्यते निर्विशङ्कै-रुत्तमर्णैः । चतुर्गुणं वेति वाकारोऽनास्थायां तेनद्वैगुण्यादिलाभः ॥
* ॥
ऋणत्रयविशेषो यथा ।“देवानाञ्च पितॄणाञ्च अषीणाञ्च तथा नरः ।ऋणवान् जायते यस्मात्तन्मोक्षे प्रयतेत् सदा ॥
* ॥
तत्परिशोधनमाह ।“देवानामनृणो जन्तुर्यज्ञैर्भवति मानवः ।अल्पवित्तश्च पूजाभिरुपवासव्रतैस्तथा ॥
श्राद्धेन प्रजया चैव पितॄणामनृणो भवेत् ।ऋषीणां ब्रह्मचर्य्येण श्रुतेन तपसा तथा” ॥
इति विष्णुधर्म्मोत्तरम् ॥
(जलदुर्गमभूभिः । यथामुग्धबोधे १ । २८ सूत्रस्य टीकायां दुर्गादासः ।“दशार्णो देशः दशार्णा नदी उभयत्र ऋणशब्देनजलदुर्गमभूमिरुच्यते” ॥
अङ्कशास्त्रोक्तः कुतश्चि-दपि राश्यन्तरात् वियोज्य संख्यावान् पदार्थः ।यथा वीजगणिते ।“धनर्णसङ्कलने करणसूत्रं वृत्तार्द्धम् ।योगे युतिः स्यात् क्षययोः स्वयोर्व्वाधनर्णयोरन्तरमेव योगः” ॥
ऋणतीति । ऋण गतौ तस्मात्कः । इति व्युत्पत्त्यावाच्यलिङ्गः । गन्ता । गमनशीलः । यथा, ऋग्वेदे६ । १२ । ५ । “सद्यो यः स्यन्द्रो विषितो यवीया-नृणो न तायुरतिधन्वा राट्” । “ऋणः शीघ्र-गन्ता” इति भाष्यम् ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
