| YouTube Channel

ऋक्षं (RkSaM)

 
शब्दकल्पद्रुमः
Sanskrit
ऋक्षं,
क्ली,
पुं,
(ऋष् + “स्नुव्रश्चिकृत्यृषिभ्यःकित्” ६६ इत्युणादिसूत्रेण कित् ।)नक्षत्रम् इति मेदिनी
(यथा, मनुः १९१ ।“पूर्व्वां सन्ध्यां जपंस्तिष्ठेत् सावित्रीमार्कदर्शनात् ।पश्चिमान्तु समासीनः सम्यगृक्षविभावनात्”
तच्च अश्विन्यादिभेदेन सप्तविंशतिः ।) राशिः ।इति ज्योतिषम्
(राशयश्च मेषवृषादिभेदेनद्वादश अस्मिन्नर्थे प्रमाणं यथा रघौ १२ २५ ।“प्रययावातिथेयेषु वसन्नृषिकुलेषु सः ।दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः”
“ऋक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव” ।इति तट्टीकायां मल्लिनाथः
)