| YouTube Channel

उष्णोदक (uSNodaka)

 
शब्दसागरः
English
उष्णोदक
n.
(-कं) Warm or hot water.
E.
उष्ण and उदक water.
Yates
English
उष्णो_दक (कं) 1.
n.
Hot water.
Wilson
English
उष्णोदक
n.
(-कं) Warm or hot water.
E.
उष्ण and उदक water.
Monier Williams Cologne
English
उष्णोदक
n.
hot water, water boiled and so reduced in quantity (said to be wholesome to drink and healing when used for bathing),
Bhpr.
Macdonell
English
उष्णोदक uṣṇa‿udaka,
n.
warm water.
Apte Hindi
Hindi
उष्णोदकम्
पुं*
उष्ण-उदकम् -
गर्म या तप्त पानी
Shabdartha Kaustubha
Kannada
उष्णोदक
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಬಿಸಿನೀರು /ಕಾಯಿಸಲ್ಪಟ್ಟ ನೀರು
विस्तारः - > "अष्टमेनांशशोषेण चतुर्थेनार्धकेन वा अथवा क्वथनेनैव सिद्धमुष्णोदकं वदेत् ॥" - भावप्र०
L R Vaidya
English
uzRa-udaka {% n. %} hot water.
Sanskrit Tibetan
Tibetan
chu dron
उष्णोदक
शब्दकल्पद्रुमः
Sanskrit
उष्णोदकं,
क्ली,
(उष्णञ्च तत् उदकञ्चेति ।) तप्तजलम् ।क्वाथ्यमानपादावशेषार्द्धावशेषपादहीनं जलम् ।तद्विधिर्यथा ।“अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन बा ।अथवा क्वथनेनैव सिद्धमुष्णोदकं बदेत्”
अस्य गुणाः सदा पथ्यत्वम् कासज्वरविबन्ध-कफवाताममेदोनाशित्वम् दीपनत्वम् वस्ति-शोधनत्वञ्च ।“श्लेष्मामवातमेदोघ्नं वस्तिशोधनदीपनम् ।कासश्वासज्वरान् हन्ति पीतमुष्णोदकं निशि”
इति भावप्रकाशे प्रथमखण्डम्
*
अथोष्णो-दकस्य लक्षणं गुणाश्च ।“क्वाथ्यमानन्तु निर्व्वेगं निष्फेनं निर्म्मलन्तथा ।अर्द्धावशिष्टं यत्तोयं तदुष्णोदकमुच्यते
ज्वर-कास-कफ-श्वास-वात-पित्ताम-मेदसाम् ।नाशनं वस्तिसंशोधि पथ्यमुष्णोदकं सदा
*
अथर्त्तुभेदे जलस्य पाकभेदः यदाह, त्रिपादशेषं सलिलं ग्रीष्मे शरदि शस्यते ।“हिमेऽर्द्धशेषं शिशिरे तथा वर्षावसन्तयोः”
अन्ये तु ।“निदाघे त्वर्द्धपादोनं पादहीनन्तु शारदम् ।शिशिरे वसन्ते हिमे चार्द्धावशेषितम्
अष्टमांशावशेषन्तु वारि वर्षासु शस्यते ।इति केचिद्बुधाः प्राहुर्जेज्जटागमदर्शनात्”
केचित्त ।“वसुष्वङ्गेषु बाणेषु वेदेषु त्रिषु पक्षयोः ।एकभागावशेषं स्यादम्बु वर्षादिषु क्रमात्”
अत्र दोषाणां यथोल्वणता हीनता वा तथाव्यवस्था कल्पनीया
“तत्पादहीनं पित्तघ्नमर्द्धहीनन्तु वातनुत् ।त्रिपादहीनं श्लेष्मघ्नं संग्राह्यग्निप्रदं लघु”
*
त्रिपादहीनस्य तन्त्रान्तरे आरोग्याम्बुसंज्ञा ।तस्य लक्षणगुणाः ।“पादशेषन्तु यत्तोयमारोग्याम्बु तदुच्यते ।आरोग्याम्बु सदा पथ्यं कास-श्वास-कफापहम्
सद्यो ज्वरहरं ग्राहि दीपनं पाचनं लघु ।आनाहपाण्डुशूलार्शोगुल्मशोथोदरापहम्”
इति भावप्रकाशे मध्यमखण्डम्
रात्रौ उष्णो-दकपानगुणाः श्लेष्मसङ्घातभेदकत्वम् मारुताप-कर्षित्वम् आशु अजीर्णजारकत्वञ्च ।“तत्पादहीनं वातघ्नं मध्यहीनं तु पित्तनुत् ।कफघ्नं पादशेषस्थं पानीयं लघु दीपनम्”
इति राजनिर्घण्टः
(“शरदीह तथा ग्रीष्मे क्वाथे पादावशेषितम् ।शिशिरे वसन्ते कुर्य्यादर्द्धावशेषितम्”
विपरीतमृतुं दृष्ट्वा प्रावृषं वार्द्धभागिकम् ।क्वाथ्यमानञ्च निर्व्वेगं निष्फेनं निर्म्मलञ्च यत्
अर्द्धावशिष्टं भवति तदुष्णोदकमुच्यते ।तत्पादहीनं वातघ्नञ्चार्द्धं पित्तविकारजित्
कफघ्नं पादशेषन्तु पानीयं लघु पाचनम्” ।“दिवसे क्वथितं तोयं रात्रौ तद्गुरुतां व्रजेत् ।रात्रौ शृतन्तु दिवसे गुरुत्वमधिगच्छति”
इति हारीते प्रथमस्थाने अध्याये ।“दीपनं पाचनं कण्ठ्यं लघूष्णं वस्तिशोधनम्
हिक्काध्मानानिलश्लेष्म सद्यःशुद्धे नवज्वरे ।कासामपीनसश्वासपार्श्वरुक्षुच शस्यते”
“अनभिस्यन्दि लघु तोयं क्वथितशीतलम् ।पित्तयुक्ते हितं दोषे व्युषितं तन्त्रिदोषकृत्
इति वाभटे सूत्रस्थाने अध्याये
“कफमेदोऽनिलामघ्नं दीपनं वस्तिशोधनम्
श्वास-कास-ज्वर-हरं पथ्यमुष्णोदकं सदा ।यत् क्वाथ्यमानं निर्व्वेगं निःफेनं निर्म्मलं लघु
चतुर्भागावशेषन्तु तत्तोयं गुणवत् स्मृतम् ।न पर्य्युषितं देयं कदाचिद्वारि जानता
अम्लीभूतं कफोत्क्लेशि हितं तत् पिपासवे ।मद्यपानात् समुद्भूते रोगे पित्तोत्थिते तथा
सन्निपातसमुत्थे शृतशीतं प्रशस्यते” ।इति सुश्रुते सूत्रस्थाने ४५ अध्याये
)तमुवाच भगवानात्रेयो ज्वरितस्य कायसमुत्थान-देश-कालानभिसमीक्ष्य पाचनार्थं पानीयमुष्णंप्रयच्छन्ति भिषजः ज्वरो ह्यामाशयसमुत्थः प्रायोभेषजानि चामाशयसमुत्थानां विकाराणां पाचन-वमनापतर्पणानि शमनानि भवन्ति पाचनार्थञ्चपानीयमुष्णं तस्मादेतज्ज्वरितेभ्यः प्रयच्छन्ति भि-षजो भूयिष्ठम् तद्ध्येषां पीतं वातमनुलोमयतिअग्निमुदर्य्यमुदीरयति क्षिप्रं जरां गच्छतिश्लेष्माणञ्च परिशोषयति स्वल्पमपि पीतं तृष्णा-प्रशमनायोपपद्यते तथा युक्तमपि चैतन्नात्यर्थोत्-सन्नपित्ते ज्वरे सदाहभ्रमप्रलापातिसारे वाप्रदेयमुष्णेन हि दाह-भ्रम-प्रलापातिसारा भूयो-ऽभिवर्द्धन्ते शीतेनोपशाम्यन्तीति” ।इति चरके विमानस्थाने अध्यायः
)
वाचस्पत्यम्
Sanskrit
उष्णोदक
न०
कर्म्म० अग्निना तप्तजले काथ्यभानपादशेषा-र्द्धावशेषपादादिहीनके जले तद्गुणादि भावप्र०“अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा अथवा क्वथने-नैव सिद्धमुष्णोदकं वदेत्” तद्गुणाः “श्लेष्मामवातमेदोघ्नंवास्तशोधनदीपनम् कासश्वासज्वरान् हन्ति पीतमु-ष्णोदकं निशि क्वाथ्यमानन्तु निर्वेगं निष्फेनं निर्म्मल-न्तथा अर्द्धावशिष्टं यत्तोयं तदुष्णोदकमुच्यते ज्वरकासकफश्वासवातपित्ताममेदसाम् नाशनं वस्तिसंशोधि-पथ्यमुष्णोदकं सदा त्रिपादशषं सलिलं ग्रीष्मेशरदि शस्यते हिमेऽर्द्धशेषं शिशिरे तथा वर्षावसन्तयोः”अन्ये तु “निदाघे त्वर्द्धपादोनं पादहीनन्तु शारदम् शि-शिरे वसन्ते हिमे चार्द्धावशेषितम् अष्टमांशावशेषन्तु वारि वर्षासु शस्यते” केचित्तु “विधिष्वङ्गेषु वाणेयवेदेषु त्रिषु पक्षयोः एकभामावशेषं स्यादम्बु वर्षा-दिषु क्रमात्” अत्र दोषाणां ययोल्वणता हीनता वातथा व्यवस्था कल्पनीया “तत् पादहीनं पित्तघ्नम-र्द्धहीनन्तु वातनुत् त्रिपादहीनं श्लेष्मघ्नं संग्राह्यग्नि-करं लघु” त्रिपादहीनस्य तन्त्रान्तरे आरोग्याम्बुसंज्ञा तस्यलक्षणगुणास्तु “पादशेषन्तु यत्तोयमारोग्याम्बु तदुच्यते ।आरोग्याम्बु सदा पथ्यं कासश्वासकफापहम् सद्यो-ज्वरहरं ग्राहि दीपनं पाचनं लघु आनाहपाण्डु-शूलार्शोगुल्मशोथोदरापहम्” भा० प्र० “दिवा शृतन्तु यत्तोषं रात्रौ तद्गुरुतां व्रजेत्” वैद्यकम् “संक्रान्तौवर्षवृद्धौ ग्रहणे चन्द्रसूर्य्ययोः सूतके मृतके चैव नस्नायादुष्णवारिणा” स्मृतिः “क्षेत्रस्थमुद्धृतं वापिशीतमुष्णमथापि वा गाङ्गं पयः पुनात्याशु पापमा-मरणान्तिकम्” मरीचिः “नित्यं नैमित्तिकञ्चैव क्रियाङ्गंमलकर्षणम् तीर्थाभावे कर्त्तव्यमुष्णोदकपरोदकैः”यमः “उष्णाम्बुनाधःकायस्य परिषेको मलापहम् ।तेनैव षोत्तमाङ्गस्य बलनुत् केशचक्षुषोः” आ० त० आयु-र्वेदः उष्णोदकेनाचमननिषेध आचमनशब्दे उक्तः