| YouTube Channel

उल्वं (ulvaM)

 
शब्दकल्पद्रुमः
Sanskrit
उल्वं,
क्ली,
(उल्लीयते इति उत् + लीङ् श्लेषणेउल्वादयश्च ९५ इति उणादिसूत्रेण साधुः ।)जरायुः इत्यमरः
(यथा, गीतायां ३८ ।“यथोल्वेनावृतो गर्भस्तथा तेनेदमावृतम्” ।“जातमात्रं विशोध्योल्वाद्बालं सैन्धवसर्पिषा ।प्रसूतिक्लेशितञ्चानु बलातैलेन सेचयेत्”
इति वाभटः उत्तरस्थाने अध्याये उक्तवान्
“अथ जातस्योल्वं मुखञ्च सैन्धवसर्पिषा विशोध्यघृताक्तं मूर्द्ध्नि पिचुं दद्यात् ततो नाभिनाडीमष्टा-ङ्गुलमायम्य सूत्रेण बद्ध्वा च्छेदयेत्तत्सूत्रैकदेशञ्चकुमारस्य ग्रीवायां सम्यग् बध्रीयात् इति सुश्रुतेशारीरस्थाने १० अध्याये
)