| YouTube Channel

उर्व्वशी (urvvazI)

 
शब्दसागरः
English
उर्व्वशी
f.
(-शी) The name of one of the courtezans of Swarga or
INDRA'S heaven.
E.
उरु great, वश् to tame, अच् and ङीष् affixes
also उर्व्वसी and ऊर्व्वसी.
Yates
English
उर्व्वशी (शी) 3.
f.
A name of one of
the celestial courtezans.
Wilson
English
उर्व्वशी
f.
(-शी) The name of one of the courtezans of Svarga or
INDRA'S heaven.
E.
उरु great, वश to tame, अच् and ङीष् affixes
also
उर्व्वसी and ऊर्व्वसी.
शब्दकल्पद्रुमः
Sanskrit
उर्व्वशी,
स्त्री,
(उरून् महतोऽपि अश्नुते व्याप्नोतिवशीकरोतीति यावत् यद्वा ऊरुं नारायणस्यमहर्षेरूरुप्रदेशं अनुते योनित्वेन व्याप्नोतीति ।उरु + अश् + गौरादित्वात् ङीष् ।) स्वना-मख्यातस्वर्गवेश्या इत्यमरः
तस्या उत्पत्तिर्हरिवंशे नारायणोरुं निर्मिद्य सम्भूता वरवर्णिनी ।मनीषादित्वात् ह्रस्वादिः
(अस्या उत्पत्तिकथा उक्ता भागवते ११ ६-१६ ।यथा, --“धर्म्मस्य दक्षदुहितर्य्यजनिष्ट मूर्त्त्यांनारायणो नर ऋषिप्रवरः प्रशान्तः ।नैष्कर्म्म्यलक्षणमुवाच चचार कर्म्मयोऽद्यापि चास्त ऋषिवर्य्यनिषेविताङ्घ्रिः
इन्द्रो विशङ्क्य मम धाम जिघृक्षतीतिकामं न्ययुङ्क्त सगणं वदर्य्युपाख्यम् ।गत्वाप्सरोगणवसन्तसुमन्दवातैःस्त्रीप्रेक्षणेषुभिरविध्यदतन्मतिज्ञः
विज्ञाय शक्रकृतमक्रममादिदेवःप्राह प्रहस्य गतविस्मय एजमानान् ।मा भैष्ट भो मदनमारुतदेवबध्वोगृह्णीत नो बलिमशून्यमिमं कुरुध्वम्
इत्थं ब्रुवत्यभयदे नरदेव ! देवाःसव्रीडनम्रशिरसः सघृणं तमूचुः ।नैतत् विभो त्वयि परे विकृते विचित्रंस्वारामधीरनिकंरानतपादपद्मे
त्वां सेवतां सुरकृता बहवोऽन्तरायाःस्वौको विलङ्घ्य परमं व्रजतां पदं ते ।नान्यम्य वर्हिषि बलीन् ददतः स्वभागान् ।धत्ते पदं त्वमविता यदि विघ्नमूर्द्ध्नि
क्षुत्त्रिट्त्रिकालगुणमारुतजैह्व्यशैश्न्या-नस्मानपारजलधीनतितीर्य्य केचित्
क्रोधस्य यान्ति विफलस्य वशं पदे गो-र्मज्जन्ति दुञ्चरपथश्च वृथोत्सृजन्ति ।इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः ।दर्शयामास शुश्रूषां स्वर्चिताः कुर्व्वतीर्विभुः
ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः ।गन्धेन मुमुहुस्तासां रूपौदार्य्यहतश्रियः
तानह देवदेवेशः प्रणतान् प्रहसन्निव ।आसामेकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम्
ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः ।उर्व्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः
इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् ।ऊचुर्नारायणबलं शक्रस्तत्रास विस्मितः”
पुराणान्तरेषु ऋषिप्रवरोऽयं नारायणो निजो-रुदेशं निर्भिद्य अप्सरःश्रेष्ठाभेनामुर्व्वशीं देवगणेभ्योददौ इति दृश्यते
इयं हि चन्द्रवंशावतंसे बुधपुत्त्रे पुरूरवसिराजनि बद्धप्रणया बहुकालं तेन सह रेमे एत-त्कथा उक्ता हरिवंशे २६ अध्याये
यथा, जनमेजय उवाच ।“गन्धर्व्वी उर्व्वशी देवी राजानं मानुषं कथम्
देवानुत्सृज्य सम्प्राप्ता तन्मे ब्रूहि बहुश्रुत
वशम्पायन उवाच ।ब्रह्मशापाभिभूता सा मानुषं समपद्यत ।ऐलन्तु सा वरारोहा समयात्समुपस्थिता
आत्मनः शापमोक्षार्थं समयं सा चकार ।अनग्नदर्शनञ्चैव सकामायाश्च मैथुनम्
द्वौ मेषौ शयनाभ्यासे सदा बद्धौ तिष्ठतः ।घृतमात्रा तथाहारः कालमेकन्तु पार्थिव
यद्येष समयो राजन् यावत्कालञ्च ते दृढः ।तावत्कालन्तु वत्स्यामि कृतः समय एष नः
तस्यास्तं समयं सर्व्वं राजा समपालयत् ।एवं सा वसते तत्र पुरूरवसि भाविनौ
वर्षाण्येकोनषष्टिन्तु तद्भक्ता शापमोहिता ।उर्व्वश्यां मानुषस्थायां गन्धर्व्वाश्चिन्तयान्विताः
गन्धर्व्वा ऊचुः ।चिन्तयध्वं महाभागा यथा सा तु वराङ्गना ।समागच्छेत् पुनर्द्देवानुर्व्वशी स्वर्गभूषणम्
ततो विश्वावसुर्नाम तत्राह वदतां वरः ।मया तु समयस्ताभ्यां क्रियमाणः श्रुतः पुरा
व्युत्क्रान्तसमयं सा वै राजानं त्यक्ष्यते यथा ।तदहं वेद्म्यशेषेण यथा भेत्स्यत्यसौ नृपः
ससहायो गमिष्यामि युष्माकं कार्य्यसिद्धये ।एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः
निशायामथ चागम्य मेषमेकं जहार सः ।मातृवत् वर्त्तते सा तु मेषयोश्चारुहासिनी
गन्धर्व्वागमनं ज्ञात्वा शापान्तञ्च यशस्विनी ।राजानमब्रवीत्तत्र पुत्त्रो मे ह्रियतेति सा
एवमुक्तो विनिश्चित्य नग्नो नैवोदतिष्ठत ।नग्नं मां द्रक्ष्यते देवी समयो वितथो भवेत्
तवो भूयस्तु गन्धर्व्वा द्वितीयं मेषमाददः ।द्वितीये तु गते मेषे ऐलं देव्यब्रवीदिदम्
पुत्त्रो मे ह्रियते राजन्ननाथाया इव प्रभो ।एवमुक्तस्तदोत्थाय नग्नो राजा प्रधावितः
मेषयोः पदमन्विच्छन् गन्धर्व्वैर्विद्युदप्यथ ।उत्पादिता सुमहती ययौ तद्भवनं महत्
प्रकाशितं वै सहसा ततो नग्नमवैक्षत ।नग्नं दृष्ट्वा तिरोभूता साप्सराः कामचारिणी
तिरोभूतान्तु तां दृष्ट्वा गन्धर्व्वा ह्यगमन्दिवम्
उत्सृष्टावुरणौ दृष्ट्वा राजा गृह्यागतो गृहम् ।अपश्यन्नुर्व्वशीं तत्र विललाप सुदुःखितः
चचार पृथिवीञ्चापि मार्गमाण इतस्ततः ।अथापश्यत् तां राजा कुरुक्षेत्रे महाबलः
प्लक्षतीर्थे पुष्करिण्यां हैमवत्यां समाप्लुताम् ।क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम्
तां क्रीडन्तीं ततो दृष्ट्वा विललाप सुदुःखितः ।सा चापि तत्र तं दृष्ट्वा राजानमविदूरतः
उर्व्वशी ताः सखीः प्राह एष पुरुषोत्तमः ।यस्मिन्नहमवात्सं वै दर्शयामास तं नृपम्
समाविग्नास्तु ताः सर्व्वाः पुनरेव नराधिप ।जायेहो तिष्ठ मनसा घोरे वचसि तिष्ठ
एवमादीनि सूक्तानि परस्परमभाषताम् ।उर्व्वशी चाब्रवीदैलं सगर्भाहं त्वया विभो
संवत्सरात् कुमारास्ते भविष्यन्ति संशयः ।निशामेकाञ्च नृपते निर्व्वत्स्यसि मया सह
हृष्टो जगाम राजाथ स्वपुरं सुमहायशाः ।गते संवत्सरे भूय उर्व्वशी पुनरागमत्
उषितश्च तया सार्द्धमेकरात्रं महायशाः”
*
)(नदीभेदः उर्व्वशीतीर्थः यथा, महाभारते १३ ।आङ्गिरसतीर्थयात्रायां २५ ४४ ।“उर्व्वशीं कृत्तिकायोगे गत्वा चैव समाहितः ।लौहित्ये विधिवत् स्नात्वा पुण्डरीकफलं लभेत्”
)