| YouTube Channel

उर्द (urda)

 
शब्दसागरः
English
उर्द r. 1st cl. (उर्दते)
1. To measure.
2. To play.
3. To be easy or cheerful.
Wilson
English
उर्द r. 1st cl. (उर्दते)
1 To measure.
2 To play.
3 To be easy or cheerful.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
उर्द्
मूलधातुः:
उर्द
धात्वर्थः:
माने क्रीडायां
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
ऊर्दते
धातुप्रदीपः
Sanskrit
उर्दँ उर्द माने, क्रीडायाञ्च
- ऊर्द्दते ऊर्दाञ्चक्रे ।। 20 ।।
शब्दकल्पद्रुमः
Sanskrit
उर्द, परिमाणे क्रीडायाम् स्वादे इति कविक-ल्पद्रुमः
(भ्वादिं-आत्मं-सकं-क्रीडायां, अकं-सेट् ।)ह्रस्वादीरेफमध्यः दीर्घस्य नित्यत्वात् दीर्घादि-रिति कश्चित् उर्द्दते कनकं वणिक् इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
उ(ऊ)र्द्द दाने स्वादे
सक०
क्रीडायाम् अक०
भ्वा०
आत्म०सेट् उ(ऊ)र्दते और्द्दिष्ट दीर्घादिरयमिति बहवः
क्षीरतरङ्गिणी
Sanskrit
उर्दँ उर्द माने, क्रीडायाञ्च
(अर्थविवरणम्) मितिर्मानमिति मुख्योऽर्थः
चकारादास्वादनेऽपीति दुर्गः ऊर्दते, र्वोरुपधाया दीर्घ इकः, हलि (8276-77) इति दीर्घः 20
धातुवृत्तिः
Sanskrit
उर्दँ उर्द (अर्थः) माने, क्रीडायां
क्रीडायामकर्मकः चकारादास्वादने (अर्थविवरणम्) इह मानं सुखमित संमतायाम्
( ऊर्दंते ऊर्दाचक्रे ऊर्दिता ऊर्दिष्यते ऊर्दताम् और्दत ऊर्देत आशिषि ऊर्दिषीष्ट और्दिष्ट और्दिष्यत ) "उपधायां च'' इति धातोरुनधाभूतरेफात् पूर्वत्वादिको दार्घः सर्वत्र यथायोगं भावकर्मकर्मकर्तृपूर्घत इत्यादि ( ऊर्दिदिषते ) ( सूत्रम्) न्द्राः संयोगादयः (इति सूत्रम्) इति द्वितीयस्यैकाचो नदराणां संयोगादीनां द्विर्वचननिषेधाद्दकारादिर्द्विरुच्यते ( ऊर्दयति औदिदत् ) 20
कृदन्तरूपमाला
Sanskrit
1 {@“उर्द माने क्रीडायां च”@} 2 चकारात् आस्वादने च--इति मा।
धातुवृत्तिः।
3 ऊर्दकः-र्दिका, ऊर्दकः-र्दिका, 4 ऊर्दिदिषकः-षिका
ऊर्दिता-त्री, ऊर्दयिता-त्री, ऊर्दिदिषिता-त्री
-- ऊर्दयन्-न्ती, ऊर्दयिष्यन्-न्ती-ती
ऊर्दमानः, ऊर्दयमानः, ऊर्दिदिषमाणः
5 ऊर्दिष्यमाणः, ऊर्दयिष्यमाणः, ऊर्दिदिषिष्यमाणः
6 ऊर्द्-ऊर्दौ-ऊर्दः
-- -- ऊर्दितः-तम्-तवान्, ऊर्दितः-तं, ऊर्दिदिषितः-तबान्
ऊर्दः, 7 समूर्दीं, ऊर्दः, ऊर्दिदिषुः, ऊर्दिदयिषुः
ऊर्दितव्यम्, ऊर्दयितव्यम्, ऊर्दिदिषितव्यम्
ऊर्दनीयम्, ऊर्दनीयम्, ऊर्दिदिषणीयम्
ऊर्द्यम्, ऊर्द्यम्, ऊर्दिदिष्यम्
ईषदूर्दः, दुरूर्दः, सूर्दः
-- -- ऊर्द्यमानः, ऊर्द्यमानः, ऊर्दिदिष्यमाणः
ऊर्दः, ऊर्दः, ऊर्दिदिषः
ऊर्दितुम्, ऊर्दयितुम्, ऊर्दिदिषितुम्
ऊर्दा, ऊर्दना, ऊर्दिदिषा, ऊर्दिदयिषा
8 ऊर्दनम्, ऊर्दनम्, ऊर्दिदिषणम्
ऊर्दित्वा, ऊर्दयित्वा, ऊर्दिदिषित्वा
समूर्द्य, समूर्द्य, समूर्दिदिष्य
ऊर्दम् २, ऊर्दित्वा २, ऊर्दम् २, ऊर्दयित्वा २, ऊर्दिदिषम्
ऊर्दिदिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१०६)
02
=>
(१-भ्वादिः-२०-अक। सेट्। आत्म।)
03
=>
[[२। ‘उपधायां च’ (८-२-७८) इति दीर्घः।]]
04
=>
[[३। ‘न न्द्राः संयोगादयः’ (६-१-३) इति रेफस्य द्वित्वनिषेधः।]]
05
=>
[पृष्ठम्०१०४+ २४]
06
=>
[[१। ‘रात्सस्य’ (८-२-२४) इति नियमात् दकारस्य ‘संयोगान्त’ (८-२-२३) लोपो न।]]
07
=>
[[२। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
08
=>
[[आ। ‘मुदा चेतो दददे चिरं हरौ स्वादात् सुरैः स्वर्दितमङ्गलोर्दने। अकूर्दतेवास्य पुरः स्वखूर्दकैर्वनान्तगूर्दी रिपुगोदसूद्यसौ।।’ धा। का। १-४।]]