| YouTube Channel

उब्ज (ubja)

 
शब्दसागरः
English
उब्ज r. 6th cl. (उब्जति) To be straight: with नि prefixed, (त्युब्जति) To be
crooked: this root is also written उज्ज and उद्ज.
उब्ज r. 6th cl. (उब्जति) To be straight: see ऊब्ज.
Yates
English
उब्ज (श) उब्जति 6.
a. To be straight.
उब्ज उब्जति 1.
a. To be straight.
Spoken Sanskrit
English
उब्ज - ubja -
adj.
- bent downwards
उब्ज - ubja -
adj.
- turned downwards
Wilson
English
उब्ज r. 6th cl. (उब्जति) To be straight: with नि prefixed,
(न्युब्जति) To be crooked: this root is also written उब्ज and उद्ज.
Monier Williams 1872
English
उब्ज, अस्, m., N. of a man.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
उब्ज्
मूलधातुः:
उब्ज
धात्वर्थः:
आर्जवे
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
उब्जति
धातुप्रदीपः
Sanskrit
उब्जँ उब्ज आर्जवे
- उब्जति उब्जाञ्चकार उब्जिजिषति अभ्युद्गः समुद्गः न्युब्जः 23
शब्दकल्पद्रुमः
Sanskrit
उब्ज, आर्ज्जवे इति कविकल्पद्रुमः
(तुदां-परं-अकं-सेट् ।) ह्रस्वादिः ओष्ठ्यबकारोपधः ।तेन र्व्यनच्तयीति दीर्घो स्यात् स्यादौ नवद्रइति उब्जिजिषति ऊर्णौर्ज्जोर्दीर्घपाठसामर्थ्यात्स्वरादेर्न दीर्घ इति केचित् दन्त्यवकारत्वान्नउब्जतीत्यत्र दीर्घ इत्यप्येके उब्जती उब्जन्ती ।आर्ज्जवमवक्रीभावः उब्जति साधुरवक्रः स्यादि-त्यर्थः इति दुर्गादासः
(यथा, ऋग्वेदे ५२
“उब्जन्तु तं सुभ्वः पर्व्वतासो निहियतामतियाजस्य यष्ट”
)
वाचस्पत्यम्
Sanskrit
उब्ज आर्जवे तुदा०
पर०
अक० सेट् उब्जति औब्जीत् ।णिचि उब्जयति ते औब्जिजत् “इन्द्राग्नीरक्ष उब्ज-तम्” ऋ० १, २१, “उब्जन्तु तं सुभ्वः पर्व्वतासः”६, २, घञ् नि० वस्य दः समुद्गः अभ्युद्गः नि + उब्ज(उलटान) उत्तानस्यावतानकरणे न्युब्जति उत्तानंवस्तु अवतानं करोतीत्यर्थः
क्षीरतरङ्गिणी
Sanskrit
उब्जँ उब्ज आर्जवे
- (अर्थविवरणम्) आर्जवं स्पष्टता
उब्जति उब्जिजिषति, नन्द्राः संयोगादयः (613) इत्यत्र वक्तव्याद् बो द्विरुच्यते समुद्गादिसिद्धत्वाद् बोपधोऽयम्, उपध्मानीयोपधत्वे जश्त्वस्यासिद्धत्वं स्यात् भुजन्युब्जौ पाण्युपतापयोः (7361) उब्जेर्बले बलोपश्च (उ0 4192)इत्यसुन्-ओजस् 24
धातुवृत्तिः
Sanskrit
उब्जँ उब्ज (अर्थः) आर्जवे
अयमुपध्मानीयोपध इति केचित् तथा "हयवरट् '' इत्यत्र वार्तिकम् [अयोगवाहानामट्सु णत्वं शर्षु जश्भावषत्वे] इति अत्र भाष्यं-"शर्षु चोपदेशः कर्तव्यः किं प्रयोजनं, जश्भावषत्वे उब्जिरयमुपध्मानीयोपधः पठ्यते, तस्य जश्त्वे कृते ( उब्जिता उब्जित्वा उब्जितुमुब्जितव्यम् ) इत्येतद्रूपं यथा स्यादिति शर्षु जश्भाव इत्यस्यायभिप्रायः शर्षु उपदेशात् झल्त्वाज्जश्त्वमिति पुनश्च भाष्यम् यद्युपध्मानीयोपधः पठ्यते उब्जिजिषतीत्युपध्मानीयादेरेव द्विर्वचनं प्राप्नोतीति जश्त्वस्यासिद्धत्वादुपध्मानीयादेर्द्विर्वचने जश्त्वेनोपध्मानीयस्य बत्वे उबिब्जिषतीति स्यादिति भावः तथा कैयटे द्विर्वचने पूर्वत्र जश्त्वमसिद्धमथापि [पूर्वत्रासिद्धीयमद्विर्वचने] इति सिद्धं, सर्वथोबिब्जिषतीति प्राप्नोति किं अभ्युद्गः समुद्ग इति सिध्यतः यद्यपि गमेर्व्युपसर्गाड्डेऽपि सिद्धस्तथापि अस्माद्धञि कृते उपध्मानीयस्य जश्त्वे (अभ्युब्जः समुब्जः ) इत्यपि स्याताम्, तदर्थम् [उपध्मानीयस्य च] इति वार्तिकेन कवर्गे परत उपध्मानीयस्य सकारो विधेयः स्यात्, तस्मिन् हि जश्त्वेन दत्वं भविष्यति तस्मादयं दोपधः पठितव्यः उक्तं भाष्ये यद्ययं दोपधः का रूपसिद्धिः, उब्जित्वा उब्जितुमुब्जितव्यमिति असिद्धे उब्जेः इदमस्ति "स्तोः श्चुना श्चुः'' इति, ततो वक्ष्यामि उब्जेः उब्जे श्चुना सन्निपाते भो भवतीति, ततश्च "नन्द्राः'' इति निषेधे भत्वस्यासिद्धत्वाद्दकारवर्जस्य द्विर्वचने पश्चाद्बत्वे उब्जिजिषतीतीष्टसिद्धिः चास्ति [पूर्वत्रासिद्धीयमद्विर्वचन] इति "नन्द्रा'' इत्यस्य द्विर्वचननिषेधरूपत्वात् चास्त्यभ्युद्गः समुद्गे इत्यत्र भत्वस्य प्रसङ्गः तस्य कुत्वे पूर्वत्रासिद्धत्वात् कृते चास्मिन् चवर्गयोगाभावात् अपरे तु बकारोपधं पठन्ति "नन्द्राः'' इत्यत्र बकारस्यापि प्रतिषेधमुपसञ्चक्षते तेषामभ्युद्ग इत्यादौ दत्वमपि वक्तव्यम् ( उब्जति उब्जांचकार उब्जिता उब्जिष्यति उब्जतु औब्जत् उब्जेत् ) आशिषि ( उब्ज्यात् औब्जीत् उब्जयति मा भवानुब्जिजत् न्युब्जिता शेरतेऽस्मिन्निति (न्युब्जो) रोगविशेषः ) "भुजन्युब्जौ पाण्युपतापयोः'' इति घञि कुत्वाभावो निपात्यते ( ओजः ) "उब्जेर्बलोपश्च'' इत्यसुनि बलोपो गुणश्च निपात्यते (ओजायते) "कर्त्तुः क्यङ् सलोपश्च'' इति क्यङ्सलोपौ अत्रानुवृत्तस्य वाग्रहणस्य व्यवस्थितविभाषात्वान्नित्योऽत्र सलोपः ( ओजसा कृतम् ) "ओजस्सहोम्भस्तमसः तृतीयाया'' इत्यलुक् 23
कृदन्तरूपमाला
Sanskrit
1 {@“उब्ज आर्जवे”@} 2 उब्जकः-जिका, उब्जकः-जिका, 3 उब्जिजिषकः-जिषिका
उब्जिता-त्री, उब्जयिता-त्री, उब्जिजिषिता-त्री
उब्जन्-उब्जती-न्ती, उब्जयन्-न्ती, उब्जिजिषन्-न्ती
4 उब्जिष्यन्-न्ती-ती, उब्जयिष्यन्-न्ती-ती, उब्जिजिषिष्यन्-न्ती-ती
-- उब्जयमानः, उब्जयिष्यमाणः
उद्-उत्-उब्जौ-उब्जः
-- -- उब्जितम्-तः-तवान्, उब्जितः-तं, उब्जिजिषितः-तवान्
उब्जः, उब्जः, उब्जिजिषुः, उब्जिजयिषुः
उब्जितव्यम्, उब्जयितव्यम्, उब्जिजिषितव्यम्
उब्जनीयम्, उब्जनीयम्, उब्जिजिषणीयम्
उब्ज्यम्, उब्ज्यम्, उब्जिजिष्यम्
ईषदुब्जः, दुरुब्जः, सूब्जः
-- -- उब्ज्यमानः, उब्ज्यमानः, उब्जिजिष्यमाणः
उब्जः, समुद्गः, 5 न्युब्जः, 6 उब्जिजिषः
उब्जितुम्, उब्जयितुम्, उब्जिजिषितुम्
उब्जा, उब्जना, उब्जिजिषा
7 उब्जनम्, उब्जनम्, उब्जिजिषणम्
उब्जित्वा, उब्जयित्वा, उब्जिजिषित्वा
समुब्ज्य, समुब्ज्य, समुब्जिजिष्य
उब्जम् २, उब्जित्वा २, उब्जम् २, उब्जयित्वा २, उब्जिजिषम् २, उब्जिजिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१०५)
02
=>
(६-तुदादिः-१३०३-अक। सेट्। पर।)
03
=>
[[३। ‘हयवरट्’ (माहेश्वरसूत्रम्-५) सूत्रस्थवार्तिकात् अस्योपध्मानीयोपधत्वं लभ्यते। तदा उपध्मानीयस्य शर्षु पाठात् झल्त्वेन ‘झलां जश्’ (८-४-५३) इति जश्त्वेन बकारे यद्यपि--उब्जिता-उब्जितव्यम्-इत्यादिरूपाणि भवन्ति। तथापि उब्जिजिषकः-षिका इत्यादिरूपाणामसिद्ध्या दोपधपाठः भाष्यकृता आदृतः। “न न्द्रा” (६-१-३) इति दकारस्य द्वित्वनिषेधः। असिद्धे ‘स्तोः श्चुना’ (८-४-४०) इत्यनन्तरं “भ उब्जेः” (वा। ८-४-४०) इति दकारस्य भकारः।]]
04
=>
[पृष्ठम्०१०३+ २६]
05
=>
[[१। ‘भुजन्युब्जौ पाण्युपतापयोः’ (७-३-६१) इति निपातनात् घञि कुत्वाभावः। अन्यत्र समुद्गः। ‘चजोः--’ (७-३-५२) इति कुत्वं भवति।]]
06
=>
(रोगः)
07
=>
[[आ। ‘नित्यं भूपतिमुब्जनोज्झितमनाः यत्रास्त खल्या सुखम्।।’ धा। का। २-७३।]]