उपेन्द्र (upendra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishउपेन्द्रः [upēndrḥ], [उपगत इन्द्रं अनुजत्वात्] of Viṣṇu or Kṛiṣṇa as the younger brother of Indra in his 5th or dwarf incarnation
see इन्द्र
उपेन्द्रवज्रादपि दारुणो$सि 5
यदुपेन्द्रस्त्वमतीन्द्र एव सः 16.7. वज्राf. of a metre
see App. -अपत्यम् Madana, God of love. ... उद्भटोपेन्द्रापत्यपराक्रमैकनिधयो भद्राणि संतन्वते Chola Champu 27, verse 61.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishउपेन्द्र उपेन्द्र, अस्, m. (fr. उप-इन्°), N. of
Viṣṇu or Kṛṣṇa as the younger brother of Indra,
(born subsequently to Indra, especially as son of
Aditi, either as an Āditya or in the Vāmana Avatār)
N. of a king of the Nāgas
(आ), f., N. of a river.
—उपेन्द्र-दत्त, अस्, m., N. of a man.
—उपेन्द्र-
बल, अस्, m., N. of a man.
—उपेन्द्र-वज्रा, f. a
metre of four lines of eleven syllables each.
Benfey
EnglishApte Hindi
Hindiउपेन्द्रः
- उपगत इन्द्रम् - अनुजत्वात्
विष्णु या कृष्ण
Shabdartha Kaustubha
Kannadaउपेन्द्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಿಷ್ಣು
व्युत्पत्तिः - > इन्द्रमुपगतोऽनुजत्वेन
प्रयोगाः - > "उपेन्द्रो वामनः प्रांशुः"
उल्लेखाः - > वि० स०
विस्तारः - > "इन्द्रस्याप्यनुजत्वे जतश्चोपेन्द्र उच्यते" - निरुक्तिः ।
L R Vaidya
Englishभूतसङ्ख्या
Sanskrit९, अङ्क, अन्तर, अम्बुजासन, उपेन्द्र, ऋद्धि, कपाट, कवाट, कवि, कूप, केशव, क्षत, खग, खचर, खेगामी, खेचर, गम्भीर, गाम्भीर, गो, ग्रह, छिद्र, तामिस्र, तार्क्ष्यध्वज, दिविसद्, दुर्गा, द्वार, नन्द, नभोग, नव, निधान, निधि, पट, पदार्थ, बल, बिल, मिति, यन्त्र, रत्न, रन्ध्र, लब्ध, लब्धि, वट, विल, विवर, शुषिर, सुषिर, हरि
Aufrecht Catalogus Catalogorum
EnglishSanskrit Tibetan
Tibetannye dbang
१) उपेन्द्र २) उपेन्द्रो नागराज
अभिधानचिन्तामणिः
Sanskritविष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवो
दाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ ।
विष्वक्सेननरायणौ जलशयो नारायणः श्रीपति-
र्दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ २१४ ॥
गोविन्दषड्बिन्दुमुकुन्दकृष्णा वैकुण्ठपद्मेशयपद्मनाभाः ।
वृषाकपिर्माधववासुदेवौ विश्वंभरः श्रीधरविश्वरूपौ ॥ २१५ ॥
दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः ।
त्रिविक्रमो जह्नुचतुर्भुजौ पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ २१६ ॥
मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रुशशबिन्दुवेधसः ।
पृश्निशृङ्गधरणीधरात्मभूः पाण्डवायनसुवर्णबिन्दवः ॥ २१७ ॥
श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः ।
सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ २१८ ॥
यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशङ्खभृत् ।
विष्णु (पुं), जिष्णु (पुं), जनार्दन (पुं), हरिकेश (पुं), हृषीकेश (पुं), अच्युत (पुं), केशव (पुं), दाशार्ह (पुं), पुरुषोत्तम (पुं), अब्धिशयन (पुं), उपेन्द्र (पुं), अज (पुं), इन्द्रानुज (पुं), विष्वक्सेन (पुं), नरायण (पुं), जलशय (पुं), नारायण (पुं), श्रीपति (पुं), दैत्यारि (पुं), पुराणपुरुष (पुं), यज्ञपुरुष (पुं), तार्क्ष्यध्वज (पुं), अधोक्षज (पुं), गोविन्द (पुं), षड्बिन्दु (पुं), मुकुन्द (पुं), कृष्ण (पुं), वैकुण्ठ (पुं), पद्मेशय (पुं), पद्मनाभ (पुं), वृषाकपि (पुं), माधव (पुं), वासुदेव (पुं), विश्वम्भर (पुं), श्रीधर (पुं), विश्वरूप (पुं), दामोदर (पुं), शौरि (पुं), सनातन (पुं), विधु (पुं), पीताम्बर (पुं), मार्ज (पुं), जिन (पुं), कुमोदक (पुं), त्रिविक्रम (पुं), जह्नु (पुं), चतुर्भुज (पुं), पुनर्वसु (पुं), शतावर्त (पुं), गदाग्रज (पुं), स्वभू (पुं), मुञ्जकेशिन् (पुं), वनमालिन् (पुं), पुण्डरीकाक्ष (पुं), बभ्रु (पुं), शशबिन्दु (पुं), पृश्निशृङ्ग (पुं), धरणीधर (पुं), पाण्डवायन (पुं), सुवर्णबिन्दु (पुं), श्रीवत्स (पुं), देवकीसूनु (पुं), गोपेन्द्र (पुं), विष्टरश्रवस् (पुं), सोमसिन्धु (पुं), जगन्नाथ (पुं), गोवर्धनधर (पुं), यदुनाथ (पुं), गदाभृत् (पुं), शार्ङ्गभृत् (पुं), चक्रभृत् (पुं), श्रीवत्सभृत् (पुं), शङ्खभृत् (पुं)
अभिधानरत्नमाला
Sanskritविष्णु
विष्णु, कृष्ण, केशव, मञ्जुकेशी, श्रीवत्साङ्क, श्रीपति, पीतवासस्, विष्वक्सेन, विश्वरूप, मुरारि, शौरि, शार्ङ्गिन्, पद्मनाभ, मुकुन्द, गोविन्द, धरणिधर, सुपर्णकेतु, वैकुण्ठ, जलशयन, चतुर्भुज, दैत्यारि, मधुमथन, रथाङ्गपाणि, दाशार्ह, क्रतुपुरुष, वृषाकपि, जनार्दन, अधोक्षज, वासुदेव, दामोदर, श्रीधर, अच्युत, उपेन्द्र, इन्द्रावरज, बभ्र, हरि, हृषीकेश, आत्मभू, पुण्डरीकाक्ष, श्रीवत्स, विष्टरश्रवस्, नारायण, जगन्नाथ, वनमाली, गदाधर, सनातन, जिन, शम्भु, विधि, वेधस्, गदाग्रज, कैटभारि, अज, जिष्णु, कंसजित्, पुरुषोत्तम
विष्णुः कृष्णः केशवो मञ्जुकेशी,
श्रीवत्साङ्कः श्रीपतिः पीतवासाः ।
विष्वक्सेनो विश्वरूपो मुरारिः,
शौरिः शार्ङ्गी पद्मनाभो मुकुन्दः ॥ २१ ॥
गोविन्दो धरणिधरः सुपर्णकेतु-
र्वैकुण्ठो जलशयनश्चतुर्भुजश्च ।
दैत्यारिर्मधुमथनो रथाङ्गपाणि-
र्दाशार्हः क्रतुपुरुषो वृषाकपिः स्यात् ॥ २२ ॥
जनार्दनाधोक्षजवासुदेवं दामोदरं श्रीधरमच्युतं च ।
उपेन्द्रमिन्द्रावरजं च बभ्रं हरिं हृषीकेशमुदाहरन्ति ॥ २३ ॥
आत्मभूः पुण्डरीकाक्षः श्रीवत्सो विष्टरश्रवाः ।
नारायणो जगन्नाथो वनमाली गदाधरः ॥ २४ ॥
सनातनो जिनः शम्भुर्विधिर्वेधा गदाग्रजः ।
कैटभारिरजो जिष्णुः कंसजित्पुरुषोत्तमः ॥ २५ ॥
verse 1.1.1.21
page 0004
नाममाला
Sanskritकृष्ण, दामोदर, विष्णु, उपेन्द्र, पुरुषोत्तम, केशव, हृषीकेश, शार्ङ्गिन्, नारायण, हरि, केशीसूदन, मधुसूदन, बलिसूदन, बाणसूदन, हिरण्यकशिपुसूदन, मुरसूदन, शौरि, पद्मनाभ, अधोक्षज, गोविन्द, वासुदेव
कृष्णो दामोदरो विष्णुरुपेन्द्रः पुरुषोत्तमः ।
केशवश्च हषीकेशः शार्ङ्गी नारायणो हरिः ॥ ७४ ॥
केशी मधुर्बलिर्बाणो हिरण्यकशिपुर्मुरः ।
तदादिसूदनः शौरिः पद्मनाभोऽप्यधोक्षजः ॥ ७५ ॥
गोविन्दो वासुदेवश्च लक्ष्मीः श्रीर्गोमिनीन्दिरा ।
तत्पतिः शैलभूम्यादिधरश्चक्रधरस्तथा ॥ ७६ ॥
verse 0.1.1.74
page 0039
Mahabharata
EnglishUpendra = Vishṇu: III, 171 (devāḥ soºāḥ)
V, 2378 (Mahendroºvikramaṃ)
VI, 2000 (only C.), 3695 (Indroºāv ivāmarau), 5235 (ºsadṛśaḥ)
VII, 2500 (ºsadṛśaṃ), 6810 (Rudroºvikramaḥ), 7939 (do.)
VIII, †1740 (= Kṛshṇa), 3667 (Rudroºsamaṃ)
IX, 1964 (iva…Indroºau)
XIII, †5385, 6966 (1000 names).
पुराणम्
Englishउपेन्द्र / UPENDRA. A synonym of viṣṇu. Mahāviṣṇu once took birth by aditi the wife of Kaśyapaprajāpati. In that birth Mahāviṣṇu had the name upendra. He was known as vāmana too. (bhāgavata, 10th skandha).
शब्दकल्पद्रुमः
Sanskritउपेन्द्रः, (इन्द्रमुपगतः । कश्यपादृषेः अदितौवामनावतारे इन्द्रस्यानन्तरं जातत्वात् तथात्वम् ।)विष्णुः । इत्यमरः ॥
(उपेन्द्रस्यापरां व्युत्पत्तिमाहहरिवंशे ७५ । ४६ ।“ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः ।उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः” ॥
तथा च भागवते ८ । २३ । २१, २२, २३ ।“कश्यपस्यादितेः प्रीत्यै सर्व्वभूतभवाय च ।लोकानां लोकपालानामकरोत् वामनं पतिम् ॥
वेदानां सर्व्वदेवानां धर्म्मस्य यशसः श्रियः ।मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥
उपेन्द्रं कल्पवाञ्चक्रे पतिं सर्व्वविभूतये ।तदा सर्व्वाणि भूतानि भृशं मुमुदिरे नृप !” ॥
)
वाचस्पत्यम्
Sanskritउपेन्द्र उपगत इन्द्रम् अनुजत्वात् अत्या० स० । १ विष्णौ ।स हि कश्यपात् अदितौ इन्द्रादनन्तरं वामनरूपतयासंजातः इति तस्य तथात्वम् । “उपेन्द्रो वामनःप्रांशुः” विष्णुस० । अत्र भाष्ये अन्यापि निरुक्तिर्दर्शितायथा । “ममोपरि यथेन्द्रस्त्वं स्थापितोगोभिरीश्वरः ।उपेन्द्र इति कृष्ण! त्वां गास्यन्ति दिवि देवताः” इति हरि-वंशवचनात् उपरि इन्द्रः उपेन्द्रः” इति । अत्र वासुदेवस्यैवयथोपेन्द्रनामता, तथा गोवर्द्धनोद्धारणेन गोषु रक्षितासुतत्प्रीतये गोभिस्तस्य सर्वोपरिलीकस्थितत्वेन उपेन्द्रनामत-याऽभिषेकः कृत इति वर्ण्णितं हरिवं० ७६ अ० यथा ।“अपामधस्ताल्लोकोऽयं तस्योपरि महीधराः । नागानामुप-रिष्टाद्भूः पृथिव्युपरि मानुषाः । मनुष्यलोकादूर्द्ध्वं तुखगानां गतिरुच्यते । आकाशस्योपरि रविर्द्वारं स्वर्गस्यभानुमान् । देवलोकः परस्तस्माद्विमानगमनो महान् ।यत्राहं कृष्ण! देवानामैन्द्रे विनिहितः पदे । स्वर्गादूर्द्ध्वंब्रह्मलोको महर्षिगणपूजितः । तत्र सोमगतिश्चैव ज्योति-षाञ्च महात्मनाम् । तस्योपरि गवां लोकः सिद्धास्तंपालयन्ति हि । स हि सर्वगतः कृष्ण! महाकाशगतो म-हान् । उपर्युपरि तत्रापि गतिस्तव तपोमयी । यां नविद्म वयं सर्वे पृच्छन्तोऽपि पितामहम् । लोकास्त्वधोदुष्कृतिनां नागलोकस्तु दारुणः । पृथिवी कर्मशीलानांक्षेत्रं सर्वस्य कर्मणः । खमस्थिराणां विषयो वायुनातुल्यवर्त्तिनाम् । गतिः शमदमाढ्यानां स्वर्गः सुकृतकर्म-णाम् । ब्राह्मे तपसि युक्तानां ब्रह्मलोकः परा गतिः ।गवामेव तु गोलोको दुरारोहा हि सा गतिः । स तुलोकस्त्वया कृष्ण! सीदमानः कृपात्मना । धृतो धृतिमतावीर! निघ्नतोपद्रवं गवाम् । तदहं समनुप्राप्तो गवां वा-क्येन नोदितः । ब्रह्मणश्च महाभाग । गौरवात्तव चानघ! ।अहं भूतपतिः कृष्ण! देवराजः पुरन्दरः । अदितेर्गर्भप-र्याये पूर्व्वजस्ते पुरातनः । तेजस्तेजस्विनश्चैव यत्ते द-र्शितवानहम् । मेघरूपेण तत्सर्वं क्षन्तुमर्हसि मे विभो! ।एवं क्षान्तमनाः कृष्ण! स्येन सौम्येन तेजसा । ब्रह्मणःशृणु मे वाक्यं गवाञ्च गजविक्रम! । आह त्वां भगवान्ब्रह्मा गावश्चाकाशगा दिवि । कर्मभिस्तोषिता दिव्यैस्तवसंरक्षणादिभिः । भवता रक्षिता लोका गोलोकश्च महा-नयम् । तद्वयं पुङ्गवैः सार्द्धं वर्द्ध्वामः प्रसवैस्तथा । कर्ष-कान् पुङ्गवैर्वाह्यैर्म्मेध्येन हविषा सुरान् । श्रियं शकृत्-प्रवृत्तेन तर्पयिष्यामः कामदाः । तदस्माकं गुरुस्त्वंहि प्राणदश्च महाबल! । अद्यप्रभृति नो राजा त्वमिन्द्रोवै भव प्रभो! । तस्मात्त्वं काञ्चमैः पूर्णैर्द्दिव्यस्य पयसो घटैः ।एभिरद्याभिषिच्यस्व मया हस्तावनामितैः । अहं किलेन्द्रोदेवानां त्वङ्गवामिन्द्रताङ्गतः । गोविन्द इति लोकास्त्वांस्ताष्यन्ति भुवि शाश्वतम् । ममोपरि यथेन्द्रस्त्वं स्थापितोगोमिरोश्वरः । उपेन्द्र इति कृष्ण! त्वां गास्यन्ति दिविदेवताः” ।“ततः शक्रस्तु तान् गृह्य घटान् दिव्यपयोधरान् । अभि-षेकेन गोविन्दं योजयामास योगवित् । दृष्ट्वाऽभिभिच्य-मानं तं गावस्ताः सह यूथपैः । स्तनैः प्रस्रवसंयुक्तैःसिषिचुः कृष्णमव्ययम् । मेघाश्च दिवि मुक्ताभिः सा-मृताभिः समन्ततः । सिषिचुस्तोयधाराभिः सिच्यमानंतमव्ययम् । वनस्पतीनां सर्वेषां सुस्रावेन्दनिमं पयः ।ववर्ष पुष्पवर्षञ्च नेदुस्तूर्थाणि चाम्बरे । स्तुवन्ति मुनयःसर्वेबाग्भिर्मन्त्रपरायणाः । एकार्णवविविक्तञ्च दधारवसुधा वपुः । प्रसादं सागरा जग्मुर्तवुर्वाता जगद्धिताः ।मार्गस्थो विबभौ भानुः सोमो नक्षत्रसंयुतः । ईतयः प्रशमंजग्मुर्जग्मुर्निवैर्रतां नृपाः । प्रवालपत्रशवलाः पुष्प-वन्तश्च पादपाः । मदं प्रसुस्नुवुर्नागा यातास्तोषं वनेमृगाः । अलङ्कृता नात्ररुहैर्धातुभिर्भान्ति पर्वताः । देव-लोकोपमो लोकस्तृप्तोऽमृतरसैरिव । आसीत् कृष्णाभि-षेके हि दिव्यः स्वर्गरसोक्षितः । अभिषिक्तन्तु तं गोभिःशक्रो गोविन्दमव्ययम् । दिव्यमाल्याम्बरधरं देवदेवोऽब्र-वीदिदम् । एष ते प्रथमः कृष्ण! नियोगो गोषु यः कृतः” ।तत्रैव १७ अ० । “शक्रस्तु स्वयमागत्य दैवतैः सह वृत्रहा ।अभिषिच्याब्रवीत् कृष्णमुपेन्द्रेति शचीपतिः” । वासुदेवस्यै-वेन्द्रेण उपेन्द्रनान्त्राऽभिषेकः कृतः इत्युक्तम् । भा० ८ स्क० ३३अ० तु वामनस्यैव तन्नामतोक्ता यथा वामनेन बलेर्दमनान-न्तरम् । “कश्यपस्यादितेः प्रीत्यै सर्व्वभूतभवाय च ।लोकानां लोकपालानामकरोत् वामनं पतिम् । वेदानांसर्वदेवानां धर्मस्य यशसां श्रियः । मङ्गलानां व्रतानाञ्चकल्पं स्वर्गापवर्गयोः । उपेन्द्रं कल्पयाञ्चक्रे इति सर्व-विभूतये इति” “प्राप्य त्रिभुवनञ्चेन्द्र उपेन्द्रभुजपालितः”इति तत्रैव । वामनस्य उपेन्द्रत्वमिन्द्रानुजातत्वात् वासु-देवस्य तु पूर्दोक्तप्रकारेण तन्नामता उभयोरेव एकपरमेश्वरांशत्वान्न विरोधः । “तदिन्द्रसन्दिकृष्टसुपेन्द्र!यद्वचः” माघे नारदस्य वासुदेवसम्बोधनतया प्रयोगः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
