उपसुन्द (upasunda)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishउपसुन्दः [upasundḥ], of an Asura, son of Nikumbha and younger brother of Sunda.
Monier Williams 1872
EnglishApte Hindi
Hindiउपसुन्दः
- -
"एक राक्षस, निकुंभ का पुत्र तथा सुद का भाई"
Shabdartha Kaustubha
Kannadaउपसुन्द
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸುಂದನ ತಮ್ಮ /ನಿಕುಂಭನೆಂಬ ರಾಕ್ಷಸನ ಮಗ
प्रयोगाः - > "सुन्दोपसुन्दौ सहजावभीकौ सुरेष्विव क्वापि सुराङ्गनायाम् । अन्योन्यमाहत्य पुरा यमस्य मनोभवेषोरिव लक्ष्यमास्ताम् ॥"
उल्लेखाः - > चं० भा०
Mahabharata
EnglishUpasunda, an Asura, brother of Sunda. § 11 (Parvasaṅgr.): I, 2, 395 (Sundoºyoḥ…ākhyānaṃ).--§ 245 (Rājyalābhap.): I, 208, 7613 (Sundoºau…bhrātarau), 7616 (Sundoºāv Asurau).--§ 246 (Sundopasundop.): I, 209, 7621 (Sundoºau Daityendrau), 7636 (Sundoºau…bhrātarau), (7642) (Sundoºau)
210, 7677 (Sundoºyoḥ)
211, 7684 (do.), 7698 (Sundoºābhyāṃ)
212, 7723, 7726 (Sunda and U. subjugated the worlds, but afterwards they killed each other on account of Tilottamā).--§ 612 (Hradapraveśap.): IX, 31, 1755 (Sundºāv Asurau kriyayā vinishūditau).-§ 615 (Gadāyuddhap.): IX, 55, 3107 (Sundoºyoḥ). Cf. Asura.
वाचस्पत्यम्
Sanskritउपसुन्द दैत्यभेदे तत्कथा भा० आ० “महासुरस्या-न्ववाये हिरण्यकशिपोः पुरा । निकुम्भो नाम दैत्येन्द्र-स्तेजस्वी बलवानभूत् । तस्य पुत्रौ महावार्य्यौ जातौ भीम-पराक्रमौ । सुन्दोपसुन्दौ दैयेन्द्रौ दारुणौ क्रूरमानसौ ।तावेकनिश्चयौ दैत्यावेककार्य्यार्थाम्मतौ । निरन्तरम र्त्तेतांसमदुःखसुखातुभौ । विनान्योन्यं न भुञ्जाते विनान्योन्यंन गच्छतः । अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ ।एकशीलसमाचारौ द्विधेवैकं यथा कृतौ । तौ विवृद्धौमहावीर्य्यो कार्य्येष्वप्येकनिश्चयौ । त्रैलोक्यविजयार्थायसमाधायैकनिश्चयौ । दीक्षां कृत्वा गतौ विन्ध्यं तावुग्रंतेपतुस्तपः । तौ तु पूर्वेण कालेन तपोयुक्तौ बभूवतुः ।क्षुत्पिपासापरिश्रान्तौ जटावल्कलघारिणौ । मलोप-चितसर्वाङ्गौ वायुभक्षौ बभूवतुः । आत्ममांसानि जुह्वन्तौपादाङ्गुष्ठाग्रधिष्ठितौ । ऊर्द्ध्वबाहू चानिमिषौ दीर्घकालंधृतव्रता । तयोस्तपःप्रभावेण दार्थकालं प्रतापितः । धूमंप्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् । ततो देवा भयं ज-ग्मुरुग्रं दृष्ट्वा तयोस्तपः । तपोविधातार्थमथो देवा विघ्नानिचक्रिरे । रत्नैः प्रलोभयामासुः स्त्रोभिश्चोभौ पुनः पुनः ।न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ । अथ मायांपुनर्देवास्तयोश्चक्रुर्महात्मनोः । सगिन्यो मातरो भार्य्या-स्तयोश्चात्मजनस्तथा । प्रपात्यमाना वित्रस्ताः शूलहस्तेनरक्षसा । भ्रटाभरणके शान्ता भ्रटाभरणवाससः । अभि-भाष्य ततः सर्बास्तौ त्राहीति विचुक्रुशुः । न च तौचक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ । यदा क्षोभं नोपयातिनार्त्तिमन्यतरस्तयोः! ततः स्त्रियस्ता भूतञ्च सर्वमन्तरधी-यत । ततः पितामहः साक्षादभिगम्य महासुरौ । वरेण-च्छन्दयामास सर्वलोकहितः प्रभुः । ततः सुन्दोपसुन्दौतौ भ्रातरौ दृढविक्रमौ । दृष्ट्वा पितामहं देवं तस्थतुःप्राञ्जली तदा । ऊचतुश्च प्रभुं देवं ततस्तौ सहितौतदा । आवयोस्तपसाऽनेन यदि प्रीतः पितामहः । मा-याविदावस्त्रविदौ बलिनौ कामरूपिणौ । उभावप्यमरौस्याव प्रसन्नौ यदि नौ प्रभुः । व्रह्मोबाच । ऋतेऽमरत्वंयुवयोः सर्बमुक्तं भविष्यति । अन्यद्वृणीतं मृत्योश्च विधान-ममरैः समम् । प्रभविष्याव इति यन्महदभ्युद्यतं तपः ।युवयोर्हेतुनानेन नामरत्वं विधीयते । त्रैलोक्यविजया-र्थाय भवद्भ्यामास्थितं तपः । हेतुनानेन दैत्थेन्द्रौ न वांकामं करोम्यहम् । सुन्दोपसुन्दावूचतुः । त्रिषु लो-केषु यद्भूतं किञ्चित् स्थावरजङ्गमम् । सर्वस्मान्नो भयं मस्यादृतेऽन्योत्यं पितामह! । पितामह उर्वाच । यत्प्रा-र्थितं यथोक्तञ्च काममेतं ददानि वाम् । मृत्योर्विधान-मेतच्च यथावद्वां भविष्यति । नारद उवाच । ततः पितामहो दत्त्वा वरमेतत्तदा तयोः । निवर्त्य तपसस्तौ चव्रह्मलोकं जगाम ह । लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रात-रावुभौ । अबध्यौ सर्वलोकस्य स्वमेव भवनं गतौ” २११० अ०“तावन्तरोक्षमुमुप्लुत्य दैत्यौ कामगमावुभौ । देवानामेवभवनं जग्मतुर्युद्धदुर्म्मदौ । तयोरागमनं ज्ञात्वा वरदानञ्चतत् प्रभोः । हित्वा त्रिपिष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ।ताविन्द्रलोकं निर्ज्जित्य यक्षरक्षोगणांस्तथा । खेचराण्यपिभूतानि जग्मतुस्तीव्रविक्रमौ । अन्तर्भूमिगतान् नागान्जित्वा तौ च महारथौ । समुद्रवासिनीः सर्वा म्लेच्छ-जातीर्विजिग्यतुः । ततः सर्वां महीं जेतुमारब्धावुग्र-शासनौ । सैनिकांश्च समाहूय सुतीक्ष्णं वाक्यमूचतुः ।राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः । तेजो बलञ्चदेवानां वर्द्धयन्ति श्रियं तथा । तेषामेवं प्रवृत्तानां सर्वे-षामसुरद्विषाम् । सम्भूय सर्वैरस्माभिः कार्य्यः सर्वात्मनाबधः । एवं सर्वान् समादिश्य पूर्बतीरे महोदधेः ।क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुस्वौ । यज्ञैर्यज-न्ति ये केचिद्याजयन्ति च ये द्विजाः । तान् सर्वान् प्र-सभं हत्वा बलिनौ जग्मतुस्ततः । आश्रमेष्वग्निहोत्राणिमुनीनां भावितात्मनाम् । गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धंसैनिकास्तयोः । तपोधनैश्च ये क्रुद्धैः शापा उक्ता महा-त्मभिः । नाक्रामन्त तयोस्तेऽपि वरदाननिराकृताः ।नाक्रामन्त यदा शापा वाणा मुक्ताः शिलास्विव । निय-मान् सम्परित्यज्य व्यद्रवन्त द्विजातयः । पृथिव्यां येतपःसिद्धा दान्ताः शमपरायणाः । तयोर्भयाद्दुद्रुवुस्तेवैनतेयादिवोरगाः । मथितैराश्रमैर्भग्नैर्विकोर्णकलसस्रवैः ।शून्यमासीत् जगत् सर्वं कालेतेव हतं तदा । ततो राजन्न-दृश्यद्भिरृषिभिश्च महासुरौ । उभौ विनिश्चयं कृत्वाविकुर्वाते बधैषिणौ । प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जर-रूपिणौ । संलीनमपि दुर्गेषु निन्यतुर्यमसादनम् । सिंहौभूत्वा पुनर्व्याघ्र्यौ पुनश्चान्तर्हितावभौ । तैस्तैरुपायैस्तौक्रूरावृषीन् दृष्ट्वा निजघ्नतुः । निवृत्तयज्ञस्वाध्याया प्रनष्ट-नृपतिद्विजा । उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ।हाहाभूता भयार्त्ता च निवृत्तविपणापणा । निवृत्तदेव-कार्य्या च पुगयोद्वाहविवर्ज्जिता । निवृत्तकृषिगोरक्षाविध्वस्तनगराश्रमा । अस्थिकङ्कालसङ्कीर्णाभूर्बभूवोग्रदर्शना ।निवृत्तपितृकार्य्यञ्च निर्वषट्कारमण्डलम् । जगत् प्रति-भयाकारं दुष्प्रेक्ष्यमभवत्तदा । चन्द्रादित्यौ ग्रहास्तारागक्षत्राणि दिवौकसः । जम्मुर्विषादं तत् कर्म दृष्ट्वा सुन्दो-पसुन्दयोः । एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा ।निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः” २११ अ० । ततस्तिलोत्तमासृष्टिमुपवर्ण्य तस्यास्तत्समीपयानं तयोस्तदा-सक्तत्वमुक्त्वा तत्रान्योन्ययुद्धेनान्योन्यबधः २१३ अ० उक्तःयथा “ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती । वेश-माक्षिप्तमाधाय रक्तेनैकेन वाससा । नदीतीरेषुजातान् साकर्णिकारान् प्रचिन्वती । शनैर्जगाम तं देशं यत्रास्तंतौ महासुरौ । तौ तु पीत्वा परं पानं मदरक्तान्तलो-चनौ । दृष्ट्वैव तां वरारोहां व्यचितौ सम्बभूवतुः । तावु-त्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता । उभौ चकामसम्मत्तावुभौ प्रार्थयतश्च ताम् । दक्षिणे तां करे सुभ्रूंसुन्दो जग्राह पाणिना । उपसुन्दोऽपि जग्राह वामेपाणौ तिलोत्तमाम् । वरप्रदानमत्तौ तावौरसेन बलेनच । धनरत्नमदाभ्याञ्च सुरापाणमदेन च । सर्वैरेतैर्मदै-र्मत्तावन्योन्यं भ्रुकुटीकृतौ । मदकामसमाविष्टौ परस्पर-मथोचतुः । मम भार्य्या तव गुरुरिति सुन्दोऽभ्यभाषत ।मम भार्य्या तव वधूरुपसुन्दोभ्यमाषत । नैषा तव ममै-षेति ततस्तौ मन्युराविशत् । तस्या रूपेण संमत्तौ विग-तस्नेहसौहृदौ । तस्या हेतोर्गदे भीमे संगृह्णीतामुभौ तदा ।प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ । अहंपूर्ब-महंपूर्वमित्यन्योन्यं निजघ्नतुः । तौ गदाभिहतौ भीमौपेततुर्धरणीतले । रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ नभ-श्च्युतौ” । सुन्दोपसुन्दन्याथः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
