| YouTube Channel

उपवीतं (upavItaM)

 
Apte 1890
English
उपवीतं [उप-वे-क्त] 1 Investiture with the sacred thread.
2 The sacred thread worn by the first three classes of the Hindus
पित्र्यमंशमुपवीतलक्षणं मातृकं धन्रूर्जितं दधत् R. 11. 64
मुक्तायज्ञोपवीतानि Ku. 6. 6
Śi. 1. 7
Ki. 12. 23
Ms. 2. 44, 64, 4. 36, 66.
शब्दकल्पद्रुमः
Sanskrit
उपवीतं,
क्ली,
(उप + वि + + क्त ।) वामस्कन्धा-र्पितं यज्ञसूत्रम् यज्ञसूत्रमात्रम् इत्यमरः
पैता इति भाषा (यदुक्तमुपनिषदि ।“ऊर्द्ध्वन्तु त्रिवृतं कार्य्यं तन्तुत्रयमधोवृतम् ।त्रिवृतञ्चोपवीतं स्यात् तस्यैको ग्रन्थिरिष्यते”
देवलश्चाह ।“यज्ञोपवीतकं कुर्य्यात् सूत्राणि नवतन्तवः” ।तद्द्वयमेव सर्व्वदा धारणीयं उत्तरीयवस्त्राभावे तुतत्त्रितयं धारणीयम् यदुक्तम् ।“यज्ञोपवीते द्वे धार्य्ये श्रौते स्मार्त्ते कर्म्मणि ।तृतीयमुत्तरीयार्थं वस्त्रालाभेऽतिदिश्यते”
तत्सूत्रभेदश्च मनुना वर्णभेदेन उक्तः ४४ यथा, “कार्पासमुपवीतं स्यात् विप्रस्योर्द्धवृतं त्रिवृत् ।शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्”
यथा, माघे ।“कृतोपवीतं हिमशुभ्रमुच्चकैः” ।“मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः” ।इति कुमारे
)