उपपातकं (upapAtakaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishशब्दकल्पद्रुमः
Sanskritउपपातकं, (उपपातयति नरके यत् ।उप + पत् + णिच् + ण्वुल् । यद्वा उपमितंपातकेन ।) पापविशेषः । तत्तु ऊनपञ्चाश-द्विधंयथा । गोबधः १ अयाज्ययाजनम् २ पर-दारगमनम् ३ आत्मविक्रयः ४ गुरुत्यागः ५मातृत्यागः ६ पितृत्यागः ७ एषां शुश्रूषाद्यकरणंत्यागः । स्वाध्यायत्यागः ८ स तु सर्व्वदा ब्रह्मयज्ञ-त्यागः । अधीतवेदविस्मरणञ्च । अग्नित्यागः ९ सतु स्मार्त्ताग्निहोत्रत्यागः । सुतत्यागः १० स तुतस्य संस्कारभरणाद्यकरणम् । परिवित्तिता ११सा तु कनिष्ठेन आदौ विवाहे कृते ज्येष्ठस्यपरिवेदनं १२ तत्तु अकृतदारज्येष्ठसत्त्वे कनि-ष्ठस्य । तयोः कन्यादानं १३ तयोर्याजनं १४ तत्तुतयोरेव विवाहादौ पौरोहित्यम् । कन्याया दूषणं१५ तत्तुं मैथुनवर्जमङ्गुलीप्रक्षेपादिना रूषणम् ।अङ्गुल्या योनिविदारणमिति यावत् । वार्द्धुष्यं १६तत्तु निषिद्धवृद्धिजीवनम् । व्रतलोपः १७ स तुब्रह्मचारिणो मैथुनम् । तडागविक्रयः १८ आराम-विक्रयः १९ दारविक्रयः २० अपत्यविक्रयः २१व्रात्यता २२ सा तु यथाकालमनुपनयनम् । बान्ध-वत्यागः २३ भृताध्यापनम् २४ तत्तु प्रतिनियत-वेतनग्रहणपूर्व्वमध्यापनम् । भृताध्ययनम् २५तत्तु वेतनप्रदानपूर्व्वकाध्ययनम् । अपण्यानांविक्रयः २६ स तु तिललाक्षागोरसादौनां ब्राह्म-णेन विक्रयः । सर्व्वाकरेष्वधीकारः २७ स तु सु-वर्णाद्युत्पत्तिस्थानेषु राजाज्ञया अधिकारः । महा-यन्त्रप्रवर्त्तनं २८ तत्तु महतां उदकप्रवाहप्रतिबन्ध-हेतूनां सेतुबन्धादीनाञ्च प्रवर्त्तनं अथवा तैलादि-यन्त्रस्य शस्त्रतेजनादियन्त्रस्य च । ओषधिहिंसनं२९ तत्तु धान्यादीनां यथाकथञ्चिन्नाशः । स्त्र्या-जीवः ३० स तु भार्य्यादिस्त्रीणां वेश्यात्वं कृत्वातदुपजीवनम् । अभिचारकर्म्म ३१ तत्तु श्येना-दिना यज्ञेन अनपराद्धस्य मारणम् । मूलकर्म्म३२ तत्तुमन्त्रौषधादिना वशीकरणम् । इन्धनार्थ-मशुष्कद्रुमाणां छेदनं ३३ आत्मार्थं क्रियारम्भः ३४स तु अनातुरस्य देवपित्राद्युद्देशमन्तरेण पाका-द्यनुष्ठानम् । निन्दितान्नस्य भक्षणम् ३५ तत्तु लशु-नादेः सकृदनिच्छया अथवा गणकदेवलतस्करा-द्यन्नभक्षणम् । अनाहिताग्निता ३६ सा तु सम-र्थस्य श्रौतस्मार्त्ताग्न्यपरिग्रहः । स्तेयं ३७ तत्तुसुवर्णद्रव्यादन्यसारद्रव्यापहरणम् । देवर्षिपितॄणांऋणाशोधनं ३८ असच्छास्त्राभिगमनम् ३९ तत्तुश्रुतिस्मृतिविरुद्धशास्त्रशिक्षणम् पाषण्डशास्त्रा-भ्यासो वा । कौशीलव्यक्रिया ४० सा तु तौर्य्य-त्रिकस्य सततानुष्ठानम् । धान्यस्तेयं ४१ पशुस्तेयम्४२ कुप्यस्तेयम् ४३ मद्यपस्त्रीनिषेवनम् ४४ स्त्रीबधः४५ शूद्रबधः ४६ वैश्यबधः ४७ क्षत्रियबधः ४८नास्तिक्यम् ४९ । तत्तु अदृष्टार्थकर्म्माभावबुद्धिः ।नास्ति परलोक इति वा । इति मनुः शूलपाणिश्च ॥
(अस्य प्रायश्चित्तादिकं प्रायश्चित्तशब्दे द्रष्टव्यम् ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
