| YouTube Channel

उपधूमित (upadhUmita)

 
वाचस्पत्यम्
Sanskrit
उपधूमित
त्रि०
धूमोजातोऽस्य तारका० इतच् दाहकायोगात्अल्पं धूमितं प्रा० स० जातधूमे (धोओयान) यात्रादौवर्ज्जनीये ज्योतिषोक्ते सूर्य्यगन्तव्यदिग्भागे स्त्री “दग्धादिगैन्द्री ज्वलिता दिगैश्युपधूमिता चानलदिक् प्रभातेप्रत्येकमेवं प्रहराष्टकेन क्रमाद्दिशीऽष्टौ सविता क्रमेत ।दग्धा दिगुक्ता दिननाथयुक्ता विवस्वदाप्ता भवति प्रदीप्ता ।संधूमिता यां सविता प्रयाता शेषा दिगन्ताः खलु पञ्च-शान्ताः” पेयू० वसन्तराजः तन्निदर्शनचक्रं यथा ।दग्धा दीप्ता उपधूमिता शान्ताः१ यामे ऐशी पूर्व्वा आग्नेयो याम्यादिसौम्यान्ताः२ यामे पूर्वां आग्नेयी याम्या नैरृत्यादीशानान्ताः३ यामे आग्नेयी याम्या नैरृती पश्चिमादिपूर्वान्ताः४ यामे याम्या नैरृती वारुणी वायव्यादिवह्निदिगन्ताः५ यामे नैरृती पश्चिमा वायवी सौम्यादियाम्यान्ताः६ यामे पश्चिमा वायवी उत्तरा ईशादिनैरृत्यन्ताः७ यामे वाववी उत्तरा ऐशो पूर्वादिपग्रिमान्ताः८ यामे उत्तरा ऐशी पूर्वा आग्नेय्यादिवायव्यन्ताःतत्र प्रहरभेदेन दग्धादित्रिके गच्छेत् शान्तासु पञ्च-सु गच्छेत् एवं प्रधूमिता संधूमितादयोऽप्यत्र