| YouTube Channel

उद्भिदं (udbhidaM)

 
शब्दकल्पद्रुमः
Sanskrit
उद्भिदं, त्रि, (उद्भिनत्तीति उत् + भिद् + इगुप-धेति कः ।) तरुगुल्मादि तत्पर्य्यायः उद्भित् २उद्भिज्जम् इत्यमरः
उद्भिजम् इतिरमानाथः
(यथा महाभारते १४ पर्ब्बणि ।“जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च”
)
उद्भिदं,
क्ली,
(उद्भिनत्तीति उद् + भिद् + ।)पांशुलवणम् इति रत्नमाला
पाङालुण इतिभाषा (“उद्भिदानि पलालेक्षुकरीषवेणुक्षिति-जानि” इति सुश्रुते सूत्रस्थाने षट्चत्वारिं-शत्तमेऽध्याये
)