| YouTube Channel

उद्दामः (uddAmaH)

 
Apte Hindi
Hindi
उद्दामः
पुं*
- -
यम
उद्दामः
पुं*
- -
वरुण
E Bharati Sampat
Sanskrit
(पुं) १.वरुणः। २.दण्डकस्य प्रकारभेदः। (वि) दाम्नः निर्गतः। ३.निर्बन्धः। ४.निर्विरोधः। ‘उद्दामप्रमदाकपोलनिपतत्सिन्धूररागारुणैः सैन्दूरीक्रियते जनेन चरणन्यासैःपुरः कुट्टिमम्’ रत्ना०१.११। ४.प्रगल्भः, धैर्यशाली ५.प्रबलः। उद्दामदेहपरिदाहमहाज्ज्वराणि’ मालती०६.१३। ६.मदोन्मत्तता ७.भीभत्सः। ‘विपमडामरोद्दामशरीरसन्निवेशः’ मालती०३। ८.अतिशयम् ‘उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणात्’ रत्ना०२.४। ९.गभीरम्
शब्दकल्पद्रुमः
Sanskrit
उद्दामः, त्रि, (दाम्नः उद्गतः ।) बन्धनरहितः ।स्वतन्त्रः इति मेदिनी
(यथा, रघुः ७८
“नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे”
“अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्” ।इति रामायणे
) महान् यथा “उद्दामदन्तुर-विधुन्तुददन्तघातैः” इति प्रव्रज्या
(“उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि” ।इति मेघदूते २७
गम्भीरः यथा भागवते१ मस्कन्धे “उद्दामभावपिशुनामलवद्ग्रहासु”
)
उद्दामः,
पुं,
(उद्दीप्तं दाम पाशो यस्य समासे अच् ।)वरुणः इति मेदिनी
(दण्डकभेदच्छन्दोविशेषः ।यथा, वृत्तरत्नाकरे ।“यदि नयुगलं ततः सप्तरेफा-स्तदां दण्डवृद्धिप्रयातो भवेद्दण्डकः ।प्रतिचरणविवृद्धरेफाः स्युरर्णार्णव-व्यालजीमूतलीलकरोद्दामशङ्खादयः”
)