| YouTube Channel

उदीर्णः (udIrNaH)

 
शब्दकल्पद्रुमः
Sanskrit
उदीर्णः, त्रि, (उत् + + क्त ।) उदारः महान् ।इति जटाधरः
(“न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् ।सख्यं भवति मन्दात्मन् ! श्रिया हीनैर्धनच्युतैः”
इति महाभारते
उत्तेजितः उद्द्वीपितः ।उद्धतः यथा, कुमारे ३२ ।“भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः” ।“ब्रह्म क्षत्रेण संसृष्टं क्षत्रं ब्रह्मणा सह ।उदीर्णेदहतः शत्रून् वनानीवाग्निमारुतौ”
इति महाभारते
पुं,
विष्णुः यथा, महा-भारते विष्णुसहस्ननामकथने १३ १४९ ८० ।“उदीर्णः सर्व्वतश्चक्षुरनीशः शाश्वतः स्थिरः”
)