| YouTube Channel

उदरी (udarI)

 
शब्दकल्पद्रुमः
Sanskrit
उदरी, [न्] त्रि, (अतिशयितमुदरमस्य उदर +इनि ।) उदरिलः इति हेमचन्द्रः
(उदररोग-ग्रस्तः यथा सुश्रुते चिकित्सितस्थाने १४ अध्याये ।“उदरी तु गुर्व्वभिष्यन्दिरूक्षविदाहिस्निग्धपि-शितपरिषेकावगाहान् परिहरेत् शालिषष्टि-कयवगोधूमनीवारान्नित्यमश्नीयात्”
)