| YouTube Channel

उदरम्भरिः (udarambhariH)

 
E Bharati Sampat
Sanskrit
(वि) स्व उदरं भरति इति उदर+डुभृञ्(भरणपोषणयोः)+इन्+मुम् ‘फलेग्रहिरात्मम्भरिश्च’ ३.२.२६। स्वार्थपरः। ‘ज्योत्स्ना करम्बमुदरम्भरयश्चकोराः’ अनर्घ०।
Wordnet
Sanskrit
Synonyms:
उदरम्भरिः, आत्मम्भरिः, कुक्षिम्भरिः
noun
यः स्वोदरमात्रं पूरयति।
"उदरम्भरेः कुटुम्बिनः बुभुक्षिताः एव स्वपन्ति।"
Synonyms:
अत्याहारी, उदरपिशाचः, उदरम्भरिः, घस्मरः, आद्यूनः, कुक्षिम्भरिः
noun
यः प्रमाणात् अधिकं खादति।
"रामानन्दः अत्याहारी अस्ति यतः सः एकस्मिन् एव समये अतिमात्रं भोजनं करोति।"
शब्दकल्पद्रुमः
Sanskrit
उदरम्भरिः, त्रि, (उदरं बिभर्त्तीति उदर + भृ +इन् + मुम् निपातसिद्धः ।) स्वोदरमात्र-पूरकः तत्पर्य्यायः कुक्षिम्भरिः आत्मम्भरिः३ इति हेमचन्द्रः