| YouTube Channel

उदयनीया (udayanIyA)

 
वाचस्पत्यम्
Sanskrit
उदयनीया स्त्री उदयने सभाप्तौ विहिता तन्निमित्तत्वेन तत्स-म्वन्धिनी वा समाप्तिनिमित्ते इष्टिभेदे “गार्हपत्यउदनीयामाचरति” आश्व० श्री० ६, ४, १, १, नेदमादिषु मा-र्जनमर्वागुदयनीयायाः” ४, २, ६, चरुमेक्षणबर्हिर्नि-दूधात्युदयनीयायै” कात्या० ७, ५, १६, अवभृथादुत्थाननिमित्ते अतिरात्रे
पु०
“हस्तावेवोदयनीयोऽतिरात्रः”शत० ब्रा० १२, १, ३, ३, अवभृथादुदेत्योदयनीयेन चरित्वानुब-न्ध्यस्य पशुपुरोडाशमनु दैविकानां हवींषि निर्वपति” ९, ५, १, ३४ “प्रायणीय एवातिरात्रे युञ्जन्त्युदयनीये विमु-ञ्चन्ति” “अथो यथा प्रायणीयेऽतिरात्रे समिधेनीरु-नूच्य ब्रूयादुदनीयएवातोऽनुवक्ताऽस्मीति” ९, ४, ४, १५, १६