| YouTube Channel

उत्पलं (utpalaM)

 
शब्दकल्पद्रुमः
Sanskrit
उत्पलं,
क्ली,
(उत्पलतीति पल गतौ पचाद्यच् ।)नोलकमलम् कुष्ठौषधिः इति विश्वः
पुष्पम् ।इति मेदिनी
जलजपुष्पमात्रम् तच्च पद्मकुमु-दादि तत्पर्य्यायः कुवलयम् इत्यमरः
कुब-लम् इति जटाधरः
कुवेलम् इति शब्द-रत्नावली
(यथा रघौ ३६ “नवावतारंकमलादिवोत्पलम्” ।) तस्य गुणाः कषायत्वम् ।मधुरत्वम् शीतत्वम् पित्तकफरक्तनाशित्वञ्च ।इति राजवल्लभः
जलपुष्पविशेषः कोञि इतिहिन्दी भाषा तत्पर्य्यायः अनुष्णम् रात्रि-पुष्पम् जलाह्वयम् हिमाब्जम् निशापुष्पम्६ अस्य गुणाः शीतत्वम् स्वादुत्वम् पित्त-रक्तार्त्तिदोषनाशित्वम् दाहश्रमवमिभ्रान्तिकृ-मिज्वरहरत्वञ्च इति राजनिर्घण्टः
(“उत्पलानि कषायाणि पित्तरक्तहराणि च” ।इति सूत्रस्थाने सप्तविंशेऽध्याये चरकेणोक्तम्
“तस्मादल्पान्तरगुणे विद्यात्कुवलयोत्पले” ।इति सुश्रुते सूत्रस्थाने षट्चत्वारिंशत्तमोऽध्यायः
)