| YouTube Channel

उत्तानं (uttAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
उत्तानं, त्रि, (उद्गतस्तानो विस्तारो यस्मात् ।) अग-म्भीरम् ऊर्द्ध्वमुखशयितम् इति मेदिनो
चित्इति भाषा (ऊर्द्ध्वतलम् यथा, “उत्तानपाणिद्वयसन्निवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये” ।इति कुमारे ४५ तथा, याज्ञवल्क्यः ।“पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्ज्जयेत्” ।“उत्तानं लेपनाभ्यङ्गपरिषेकावगाहनैः ।विरेकास्थापनैः स्नेहपानैर्गम्भीरमाचरेत्”
इति चिकित्सास्थाने द्वाविंशेऽध्याये वाभटेनोक्तं
“उत्तानस्य प्रसुप्तस्य कांस्यं वा ताम्रभाजनम् ।नाभौ निधाय धाराम्बु शीतदाहनिवारणम्”
इति हारीते चिकित्सितस्थाने द्वितीयोऽध्यायः
)