उत्तरः (uttaraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiउत्तरः
- उद्+तरप्
"आगामी समय, भविष्यत्काल"
उत्तरः
- उद्+तरप्
विष्णु
उत्तरः
- उद्+तरप्
शिव
उत्तरः
- उद्+तरप्
विराट राजा का पुत्र
E Bharati Sampat
Sanskrit(पुं) उत्तेर्यते संसारोऽस्मात् । उद्+तॄ(प्लवनतरणयोः)+अप् । ‘ॠदोरप्’ ३.३.५७। १.उत्तरकुमारः। २.विष्णुः। ‘उत्तरो गोपतिर्गोप्ता’ वि०स०। ३.शिवः। ४.उतारदेशः। ५.उत्तरकालम् । ६.अग्निः। (स्त्रीन) ७.उत्तरफल्गुनी, उत्तराषाढा, उत्तराभाद्रा नक्षत्राणि । ८.प्रतिवचनम् । ९.निर्णयः। १०.समाप्तिः। ११.श्रेष्ठता । १२.मीमांसकानां पञ्चावयवतरः। ‘विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति सिद्धान्ताः शास्त्रेऽधिकरणं स्मृतम् ॥’ (वि) १३.ऊर्ध्वभागस्थम् । १४.वामभागस्त्वम् । १५.अधिकम् । १६.अग्रिम । ‘विधीयतां तत्र विधेयमुत्तरम्’ किरा०१.२५। १७.प्रधानम् । ‘धर्मोत्तरं मध्यममाश्रयन्ते’ रघुः१३.७। (स्त्री) उत्तरा । १८.विराटस्य पुत्री, अर्जुनस्य स्नुषा, अभिमन्युपत्नी । १९.धनुषः सौन्दर्यम् । ‘उत्तरं प्रतिवाक्ये स्यादुदीच्ये प्रवरोर्ध्वयोः। उत्तरस्तु विराटस्य तनये दिशि चोत्तरा’ विश्व०। २०.उत्तरादिक् ।
Wordnet
Sanskrit उत्तरः
काव्यालङ्कारविशेषः।
"उत्तरे उत्तरं श्रुत्वा एव प्रश्नस्य अनुमानं कर्तुं शक्यते।"
उत्तरः
राज्ञः विराटस्य पुत्रः।
"उत्तरस्य भगिनी उत्तरा अभिमन्युना सह परिणिता।"
उत्तरः, ऊर्द्धः, उदीची
उदतिशयेन उद्गतः
"एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् [मनु 2.136]"
उत्तरः
नागविशेषः ।
"उत्तरस्य वर्णनम् कथासरित्सागरे वर्तते"
उत्तरः
एकः पर्वतः ।
"उत्तरस्य वर्णनम् पुराणे वर्तते"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritउत्तरः विराटराजपुत्त्रः । इति हेमचन्द्रः ॥
(यथामहाभारते ३ । गोहरणपर्ब्बणि ३५ । ३३ “तमुत्तरंवीक्ष्य रथोत्तमे स्थितम्” । तत्रैव ३४ “सहोत्तरे-णास्तु तदद्य मङ्गलम्”) । (स्वनामख्यातपर्ब्बत-भेदः । यया, “दक्षिणस्योत्तरो गिरिः” । इतिरामायणे ॥
उत्तरयति संसारसागरात् इतिव्युत्पत्तेः । शिवः । हरिः ॥
भारते । १३ । १४९ । ६६ ॥
)
उत्तरः, त्रि, (उदतिशयेन उद्गतः । उत् + तरप् ।)ऊर्द्ध्वः । उदीची । (यथा, रामायणे ।“उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम्” ।)उत्तमः इति मेदिनी अमरश्च ॥
(प्रधानं । श्रेष्ठः ।यथा, रघुः १३ । ७ ।“नृपा इवोपप्लविनः परेभ्यो, धर्म्मोत्तरं मध्यममाश्रयन्ते” ।“ब्रह्मधर्म्मोत्तरे राज्ये शान्तनुर्विनयात्मवान्”इति महाभारतम् ॥
) अनन्तरम् ।(“वित्तं बन्धुर्बयः कर्म्म विद्या भवति पञ्चमी ।एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम्” ॥
इति मनुः । २ । १३६ ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
