उत्क्रमण (utkramaNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English उत्क्रमण utkramaNa exceeding
उत्क्रमण utkramaNa soaring aloft
उत्क्रमण utkramaNa departing from life
उत्क्रमण utkramaNa flight
उत्क्रमण utkramaNa dying
उत्क्रमण utkramaNa stepping out
उत्क्रमण utkramaNa death
उत्क्रमण utkramaNa surpassing
उत्क्रमण utkramaNa going up or out
Wilson
EnglishApte
Englishउत्क्रमणम् [utkramaṇam], 1 Going up or out, departure.
Ascent, soaring aloft .
Surpassing, exceeding.
The flight or passage of the soul (out of the body), i. e. death (= प्राणोत्क्रमणम्) देहादुत्क्रमणं चास्मात्पुनर्गर्भे च संभवम् 6.63
विष्वङ्ङ्न्या उत्क्रमणे भवन्ति Kaṭh.2.6.16
Ch. 8.6.6.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiउत्क्रमणम्
- उद्+क्रम्+ल्युट्
"ऊपर जाना, बाहर निकलना, प्रस्थान"
उत्क्रमणम्
- उद्+क्रम्+ल्युट्
चढ़ाई
उत्क्रमणम्
- उद्+क्रम्+ल्युट्
"पीछे छोड़ देना, आगे बढ़ जाना"
उत्क्रमणम्
- उद्+क्रम्+ल्युट्
आत्मा का पलायन अर्थात् मृत्यु
Shabdartha Kaustubha
Kannadaउत्क्रमण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಮೇಲಕ್ಕೆ ಹೋಗುವುದು /ಊರ್ಧ್ವಗಮನ
उत्क्रमण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ನಿರ್ಗಮನ /ಹೊರಡುವುದು /ಪ್ರಯಾಣ
उत्क्रमण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಪ್ರಾಣ ಹಾರಿ ಹೋಗುವುದು
निष्पत्तिः - > उत् +क्रमु (पादविक्षेपे) - "ल्युट्" (३-३-११५)
L R Vaidya
Englishवाचस्पत्यम्
Sanskritउत्क्रमण उद् + क्रम--ल्युट् । १ अपसरणे “सोमवदुत्क्रमणमपगमनञ्च” कात्या० १९, ५, १७ । २ देहात् जीवादेरपसरणे“शतं चैका च हृष्टयस्य नाड्यस्तासां मूर्द्धानमभि निस्मृ-तैका । तयोर्द्ध्वमायन्नमृत वमेति विष्वङ्ङन्या उत्क्रमणेभवन्ति” कठोप० अस्य भाष्यं यथा “तत्र शतञ्च शतस-ङ्ख्याका एका च सुषुमणा नाम पुरुषस्य हृदयाद्विनिःस्मृता नाड्यः शिरास्तासां मध्ये मूर्द्धानं भित्त्वाऽभिनिः-सृता निर्गता एका सुकुम्णा नाम तयाऽन्तकाले हृदयेआत्मानं वशीकृत्य योजयेत् । तया नाद्ध्योर्द्ध्वमुपरि आयन्गच्छन्नादित्यद्वारेणामृतत्वभमरणधर्म्मत्वमापेक्षिकम् । “आ-भूसंप्लवं स्थानममृतत्वं हि भाष्यत” इति स्मृतेः । ब्रह्मणावा सह कालान्तरेण मुख्यममृतत्वमेति भुक्त्वा भोगाननुपमान्ब्रह्मलोकगतान्, विष्वङ् नार्नाविधगतयोऽन्या नाड्य उत्-कुमणे निमित्तं भवन्ति संसारपतिपत्त्यर्था एव भवन्ती-भ्यर्थः” । तत्रोत्क्रमणप्रकारः वृ० उ० ६, ३, ४, ब्रा० दर्शितोयथा “तद्यथाऽनः सुसमाहितमुत्सर्ज्जद्यायादेवमेवायंशारीर आत्मा प्राज्ञेनात्मनाध्वारूढमुत्र्ज्जद्याति यत्रैतदू-र्द्धोच्छ्वासी भवति” ३५ क० । स यत्रायमणिमानं न्येति जरयावोपतपता वाणिमानं निगच्छति तद्यथाम्रं वोदुम्बरं वापिप्पलं वा वन्धनात्प्रमुच्यत एवमेवायं पुरुष एभ्योऽङ्गेभ्यः"प्रमुच्यपुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव” ३६ क० ।“तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसःसूतग्रामण्योऽ-भिसमा यन्त्ये वमेवेममात्मानमन्तकाले सर्व्वे प्राणा अभिसमा-यन्ति यत्रैतदूद्ध्वाच्छ्वासी भवति” ३८ क० । “स यत्रायमा-त्माऽबल्यं न्येत्य सम्भोहमिवन्येत्यर्थैनमेते प्राणा अभिसमा-यन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्व-वक्रामति स यत्रैष चाक्षुषः पुरुषः पराङ् पर्य्यावर्त्ततेतथा रूपज्ञो भवति १ । एकीभवति न पश्यतीत्याहुरेकीभवति न जिघ्रतीत्याहुरेकीभवति न रसयत इत्याहुरे-कीभवति न वदतीत्याहुरेकीभवति न शृणोतीव्याहुरेकी-भवति न मनुत इत्याहुरेकीभवति न स्पृशतीत्याहुरेकी-भवति न बिजानातीत्याहुस्तस्य हैतस्य हृदमस्याग्रं प्रद्यो-तते तेन प्रद्योतेनैष आत्मा निष्क्रामति, चक्षषो-वा मूर्द्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणो-ऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्व्वे प्राणा अनूत्क्रामन्तिसविज्ञानो भवति सविज्ञानमेवान्ववक्रामति । तं विद्याक-र्म्मणी समन्वारभेते पूर्व्वप्रज्ञा च” ४ ब्रा० १ क० ।अत्र शाङ्क० भाष्यं यथा । “इत आरभ्यास्यसंसारोवर्ण्यते । यथायमात्मा स्वप्नान्ताद्वुद्धान्तमागतएवमयमस्माद्देहाद्देहान्तरं प्रतिप्रत्स्यत इत्याहात्र दृष्टान्तः ।तत्तत्र यथा लोके अनः शकटं सुसमाहितं सुष्टुभृशं वा समाहितं भाण्डोपस्करणेनोलूखलमुसल-शूर्पपिठरादिनान्नाद्येन च सम्पन्नं सम्भारेणाक्रान्त-मित्यर्थः । तथा भाराक्रान्तं सदुत्सर्जच्छब्दं कुर्व्वद्यथायायाद्गच्छेत् शाकटिकेनाधिष्ठितं सत् । एवमेव यथो-क्तदृष्टान्तोऽयं शारीरः शरीरे भवः । कोऽसौ आत्मालिङ्गोपाधिर्य्यः स्वप्नबुद्धान्ताविव जन्ममरणाभ्यां पाप्म-सन्सर्गवियोगलक्षणाभ्यामिहलोकपरलोकावनुसञ्चरति य-स्योत्क्रमणमनु प्राणाद्युत्क्रमणम् । थ पाज्ञेन परेणात्मनास्वयंज्योतिःस्वभावेनान्वारूढोऽधिष्ठितोऽवभास्यमानस्तथाचोक्तम्” “आत्मनैवायं प्योतिषाऽऽणे पाययते” ष्मति ।उत्सर्जन् याति तत्र चैतन्यात्मज्जोतिसा भास्ते लिङ्गेप्राणप्रधाने गच्छति सति तदुपाधिरप्यात्मा गच्छतीव । तथा च श्रुत्यन्तरम् “कस्मिन्न्वहमित्यादिं“ध्यायतीवेति” च । अत एवोक्तं प्राज्ञेनात्मनान्वारूढइत्यन्यथा प्राज्ञेनैकीभूतः शकटवत्कथमुत्सर्जन याति तेनलिङ्गीपाधिरात्मा उत्सर्जन्मर्म्ममु निःकृत्यमानेषु दुःख-वेदनयार्त्तः शब्दं कुर्व्वन् याति गच्छति । तत्कस्मिन्-काले? इत्युच्यते । यत्रैतद्भवत्येतदिति क्रियाविशेषणमूर्द्ध्वो-च्छ्वासी यत्रोर्द्धोच्छ्वासित्वमस्य भवतीत्यर्थः । दृश्यमान-स्याप्यनुवदनं वैराग्यहेतोः । ईदृशः कष्टः स्वल्वयं संसारोयेनोत्क्रान्तिकाले मर्म्मसूत्कृत्यमानेषु स्मृतिलोपो दुःख-वेदनार्त्तस्य पुरुषार्थसाधनप्रतिपत्तौ चासामर्थ्यं परवशी-कृतचित्तस्य । तस्माद्यावदियमवस्था नागमिष्यति तावदेवपुरुषार्थसाधनकर्त्तव्यतायामप्रमत्ता भवतेत्याह कारुण्याच्छु-तिः ३५ क० । तत्तस्योर्द्ध्वोच्छ्वासित्वं कस्मिन्काले? किंनिमित्तं? कथं? निमिथं? वा स्यादित्येतदुच्यते । सोऽयप्राकृतः शिरःपाण्यादिमान् पिण्डो यत्र यस्मिन् कालेऽय-मणिमानमणोर्भावमणुत्वं कार्श्यमित्यर्थः नि एति निगच्छति ।किं निमित्तं जरया वा स्वयमेव कालपक्वफलवज्जीर्णः कार्श्यंगच्छति उपतपतीत्युपतपत् ज्वरादिरोगग्रस्तेनोपतपता वाउपतप्यमानी हि रोगेण विषमाग्नितयान्नं भुक्तं न जरयतिततोऽन्नरसेनानुपचीयमानः पिण्डः कार्श्यमापद्यते तदु-च्यते उपतपता वेति आणिमानं निगच्छति । यदात्य-न्तकार्श्यं प्रतिपन्नो ज्वरादिनिमित्तैस्तदोर्द्ध्वोच्छ्वासी भवति ।यदीर्द्ध्वोच्छ्वासी तदा मृशाहितसम्भारशकटवदुत्सर्जन् यातिजराभिभवो रोगादिपीडनं कार्श्यापत्तिश्च शरीरवतोऽवश्यंभाविन एतेऽनर्था इति वैराग्यायेदमुच्यते । यदाऽसा-बुत्सर्जन् याति तदा कथं शरीरं विमुञ्चतीति दृष्टान्तउच्यते । तत्तत्र यथाम्रं वा फलमुडुम्बरं वा फलं पि-प्पलं वा फलं विषमानेकदृष्टान्तोपादानं मरणस्यानिय-तनिमित्तताख्यापनार्थम् । अनियतानि हि मरणस्थ निमि-त्तान्यसङ्ख्यातानि च । एतदपि वैराग्यार्थमेव । यस्मादयमने-कमरणनिमित्तवांस्तस्मात्सर्वदा मृत्योरास्ये वर्त्तत इति । बन्ध-नाद्बध्यते येन वृन्तेन स बन्धनकारणो रसो यस्मिन् वाबध्यत इति वृन्तमेवीच्यते बन्घनम् । तस्माद्रसात् वृन्ताद्वावन्धनात्प्रमुच्यते वाताद्यनेकनिमित्तम्, एवमेवायं पुरुषो लि-ङ्गात्मा लिङ्गीपाधिःएभ्योऽङ्गेभ्यश्चक्षुरादिदेहावयवेभ्यः सम्प्र-मुच्यते सम्यङिर्लेपेन प्रमुच्यते न सुषुप्तगमनकाल इवप्राणेन रक्षन् । किन्तर्हि सह वायुनोपसंहृय, पुनः प्रति-न्यायं पुनःशब्दात्पूर्व्वमप्ययं देहाद्देहान्तरमसकृद्गत-वान् यथा स्वप्तबुद्धान्तौ पुनः पुनगेच्छति तथा पुनः प्रति-न्यायं प्रतिगमनं यथागतमित्यर्थः । प्रतियोनि योनिं-योनिं प्रति कर्म्मश्रुतादिवशादाद्रवति । किमर्थम्? प्राणा-यैव प्राणव्यूहायैवेत्यर्थः । सप्राण एव हि गच्छति ततःप्राणायवेति विशेषणमनर्थकं प्रीणिव्यूहाय हि गमनं देहा-द्देहान्तरं प्रति । तेन ह्यस्य कर्मफलभोगार्थसिद्धिः । नप्राणसत्तामात्रेण तस्मात्तादर्थ्यार्थं युक्तं विशेषणं प्राणव्यूहा-येति” ३६ । “तमेवं जिगमिषुं के सह गच्छन्ति? ये वा गच्छन्तिते किं तत्क्रियाप्रणुन्ना? आहोस्वित्तत्कर्म्मवशात्खयमेवगच्छन्ति परलौकिकशरीरकर्तॄणीव भूतानीत्यत्रोच्यतेदृष्टान्तः । तद्यथा राजानं प्रयियासन्तं प्रकर्षेण यातुमि-च्छन्तमुग्राः प्रत्येनसः सूतग्रामण्यस्त एवाभिसमायन्त्याभि-मुख्येन समायान्त्येकीभावेन तमभिमुखा आयान्त्यनाज्ञप्ताएव राज्ञा केवलतज्जिगमिषाभिज्ञाः । एवमेवेममात्मानंभीक्तारमन्तकाले मरणकाले सर्व्वे प्राणा वागादयीऽभिस-मायन्ति यत्रैतदूर्द्धोच्छ्वासी भवतोति व्याख्यातम्” ३८ ।“स यत्रायमात्मतेति संसारोपवर्णनं प्रस्तुतम् । तत्रायंपुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्येत्युक्तम् । तत् सम्प्रमोक्षणंकस्मिन् काले कथं वेति? सविस्तरं संसरणं वर्णयितव्य-मित्यारभ्यते । सोऽयमात्मा प्रस्तुतोयत्र यस्मिन् काले अब-ल्यमबलभावं नि एत्य गत्वा यद्देहस्य दौर्बल्यं तदात्मनएव दौर्बल्यमित्युपचर्य्यते अबल्यं नेत्येति । न ह्यसौस्वतोऽमूर्त्तत्वादबलभावं गच्छति तया सम्मोहमिव संमूढतासंमोहीविवेकाभावः संमोहमिव नि एति निगच्छतिन चास्य स्वतः संमोहोऽसंमोहो वास्ति नित्यचैतन्य-ज्योतिःस्वभावत्त्वात् तेनेवशब्दः संमोहसिव न्येतीति ।उत्क्रान्तिकाले हि करणोपसंहारनिमित्तो व्याकुलीमावआत्मन इव लक्ष्यते लौकिकैः तथा च वक्तारा भवन्तिसंमूढः संमूढीयमिति । अथ वोभयत्रेवशब्दप्रयोगोयीज्योऽबल्यमिव न्येतोत्यसम्भोहमिव न्येतीति । उभ-यस्य परोपाधिनिमित्तत्वाविशेषात् समानकर्तृकनिर्द्देशाच्च ।अथास्मिन् काल एते प्राणा वागादय एनमात्मानमभिस-मायन्ति तदास्य शारीरस्यात्मनी ऽङ्गेभ्यः सम्प्रमोक्षणम् ।कथं पुनः सम्प्रमोक्षणं, केन वा प्रकारेणात्मानमभिस-मायन्ति? इत्युच्यते । स आत्मा एतास्तेजोमात्रास्तेजसोमात्रास्तेजोभात्रास्तेजोऽवयवा रूपादिप्रकाशकत्वाच्चक्षुरा-दीनि करणःनीत्यर्थः । ता एताः समभ्याददानः सम्य-ङ्निर्लेपेनाभ्याददानः आभिमुख्यनाददानः संहरमाणस्तत्स्व-प्नापेक्षया विशेषणं समिति न तु स्वप्ने निर्लेपेन सम-भ्यादानमस्ति त्वादानमात्रम् । “गृहीता वाक् गृहीतञ्चक्षु-रस्य लोकस्य सर्वावतो मात्रामुपादाय शुक्रमादाये-त्यादि” वाक्येभ्यः हृदयमेव पुण्डरीकाकाशमन्ववक्रामत्यन्ववगच्छति हृदयेऽभिव्यक्तविज्ञानो भवतीत्यर्थो बुद्ध्यादिविक्षे-पोपसिंसा मति । न हि तस्य स्वतश्चलनं विक्षेशोपसं-हारादिविक्रिया वा “ध्यायतीव लेलायतीव” इत्युक्तत्वात् ।बुद्ध्याद्युपाधिद्वारैव हि सर्वविक्रियाध्यारोप्यते तस्मिन् ।कदा पुनस्तस्य तेजोमात्राभ्यादानमित्युच्यते । स यत्रैषचक्षुषि भबश्चाक्षुषः आदित्यांशो भोक्तुः कर्म्मणा प्रयुक्तोयावद्देहधारणं तावच्चक्षुषोऽनुग्रहं कुर्वन् वर्त्तते । मरणकालेत्वस्य चक्षुषोऽनुग्रहं परित्यजति स्वमादित्यात्मानं प्रति-पद्यते । तदेतदुक्तम् “यत्रास्य पुरुषस्य मृतस्याग्निं वाग-प्येति, वातं प्राणश्चक्षुरादित्यमित्यादि” । पुनर्द्देहग्रहण-काले संश्रयिष्यति तथा खप्स्यतः प्रबुध्यतश्च । तदेतदाह ।चाक्षुषः पुरुषो यत्र यस्मिन् काले पराङ् पर्य्यावर्त्ततेपरि समन्तात् पराङ् व्यावर्त्तत इति यथाऽत्रास्मिन् काले-ऽरूपज्ञो भवति मुमूर्षुर्हि रूपं न जानाति । तदायमात्माचक्षुरादितेजोमात्राः समभ्याददानो भवति स्वप्नक्इव । सएकीभवति करणजातं स्वेन लिङ्गात्मना ।पार्श्वस्था आहुर्न पश्यतीति । तथा घ्राणदेवतानिवृत्तौघ्राणमेकीभवति लिङ्गात्मना । तदा न जिघ्रतीत्याहुः ।समानमन्यत् । जिह्वायां सोमो वरुणो वा देवता तन्नि-वृत्त्यपेक्षया न रसयत इत्याहुः । तथा न वदति न शृ-णोति न मनुते न स्पृशति न विजानातीत्याहुस्त-दोपलक्ष्यते देवतानिवृत्तिः करणानाञ्च हृदय एकी-भावः तत्र हृदयौपसंहृत्य तेषु योऽन्तर्व्यापारः सकथ्यते । तस्य ह एतस्य प्रकृतस्य हृदयस्य हृदयच्छिद्रस्ये-त्येतत् । अग्रं नाडीमुखं निर्गमनद्वारं प्रद्योतते स्वप्नकालइव स्वेन भासा तेजोमात्रादानकृतेन स्वेनैव ज्योतिषाऽऽ-त्मनैव च तेनात्मज्योति प्रद्योतेन हृदयाग्रेण एष आत्माविज्ञानमयो लिङ्गोपाधिर्निर्गच्छति निष्क्रामति । तथाऽऽ-थर्वणे “कस्मिन् न्वहमुक्रान्त उत्क्रान्तो भविष्यामि? क-स्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति? स प्राणससृजतेति”तत्र चात्मचैतन्यज्योतिः सर्वदाभिव्यक्ततरं तदुपाधिद्वाराह्यात्मनि जन्ममरणगमनागमनादिसर्वविक्रियालक्षणःसंव्यवहारस्तदात्मकं हि द्वादशविधं करणम् । बुद्ध्यादितत्सूत्रूं तज्जीवनं सीऽन्तरात्मा जगतस्तस्थुषश्च । तेन प्रद्यो-तेन हृदयाग्रप्रकाशेन निःक्रममाणः । केन मार्गेण नि-ष्क्रामतीत्युच्यते । चक्षुषो वाऽऽदित्यलोकप्राप्तिनिमित्तंज्ञानं कर्म्म वा यदि स्यात् । मूर्द्ध्नो वा ब्रह्मलोकप्राप्तिनि-मित्तं चेत् । अन्येभ्यो वा शरीरदेशेभ्यः शरीरावयवेभ्योयथाकर्म्म यथाश्रुतमिति तं विज्ञानात्मानमुत्क्रा-मन्तं परलोकाय प्रस्थितं परलोकायोद्भूताकूतमित्यर्थः ।सर्व्वाधिकारस्थानीयोराज्ञ इवानूत्क्रामति तञ्च प्राणमनूत्क्रामन्तं वागादयः सर्व्वे प्राणा अनूत्क्रामन्ति ।यथाप्रधानान्वाचिख्यासेयम् न तु क्रमेण सार्थवद्गमन-मिह विवक्षितम् । एष आत्मा सविज्ञानो भवति स्वप्नैवविशेषविज्ञानवान् भवति कर्म्मवशादस्वतन्त्रः सात-न्त्र्येण हि सविज्ञानत्वे सर्व्वः कृतकृत्यः स्यात् नैव तु तल्लभ्यते अतएवाह व्यासः “सदा तद्भावभावितः” इतिकर्म्मणानुद्भाव्यमानेनान्तःकरणवृत्तिविशेषाश्रितवासनात्मक-विशेषविज्ञानेन सर्व्वोलोक एतस्मिन् काले सविज्ञा-नोभवति सविज्ञानमेव च गन्तव्यमन्ववक्रामत्यनुग-च्छति विशेषविज्ञानोद्भासितमेवेत्यर्थः । तस्मात्तत्कालेस्वातन्त्र्याथं योगधर्म्मानुसेवनं परिसंख्यानाभ्यासश्च विशिष्टपुण्योपचयश्च श्रद्दधानैः परलोकार्थिभिरप्रमत्तैः कर्त्तव्यइति सर्व्वशास्त्राणां यत्नतोविधेयोऽर्थो दुश्चरिताच्चोपरम-णम् न हि तत्काले शक्यते किञ्चित्संपादयितुम् कर्म्मणानीयमानस्य स्वातन्त्र्याभावात् “पुण्योवै पुण्येन कर्म्मणा भवतिपापः पापेन” इत्युक्तेः एतस्य ह्यनर्थस्योपशमोपायविधानायसर्व्वशाखोपनिषदः प्रवृत्ताः नहि तद्विहितोपायानुसेवनंमुक्तात्यन्तिकस्यानर्थस्योपशमोपायोऽस्ति तस्मादत्रैवो-पनिषद्विहितोपाये यत्नपरैर्भवितव्यमित्येष प्रकरणार्थःशकटवत्सम्भृतसम्भार उपसर्ज्जद्यातीत्युक्तं किंपुनस्तस्यपरलाकाय प्रस्थितस्य पथ्यदनं शाकटिकसम्भारस्थानीयंगत्वा वा परलोकं यद्भुङ्क्ते शरीराद्यारम्भकञ्च यत्तत्किम्? इत्युच्यते । तं परलोकाय गच्छन्तभात्मानं विद्याकर्म्मणी विद्या च कर्म्म च विद्याकर्मणी विद्या सर्व्वप्रकाराविहिता प्रतिषिद्धा अविहिता ऽप्रतिषिद्धा च तथा कर्म्मविहितं प्रतिषिद्धं चाविहितमप्रतिषिद्धञ्च समन्वारभेतेसम्यगन्वारभेते अन्वालभेते अनुगच्छतः पूर्व्वप्रज्ञा च पूर्व्वा-नुभूतविषया प्रज्ञा पूर्वप्रज्ञातीतकर्म्मफलानुभववासनेत्यर्थः ।सा च वासनाऽ पूर्व्वकर्म्मारम्भे कर्म्मविपाके चाङ्गं भवति ।तेनासावप्यन्वारभते नहि तया वासनया विना केनचित्कर्म्म कर्त्तुं फलं चोपभोक्तुं शक्यते नह्यनभ्यस्तेविषये कौशलमिन्द्रियाणां भवति, पूर्व्वानुभववासनाप्रवृत्तानां त्विन्द्रियाणामिहाभ्यासमन्तरेण कौशलमुप-पद्यते, दृश्यते च केषाञ्चित् कासुचित् क्रियाणु चित्रकर्म्मादिलक्षणासु बिनैवेहाभ्यासेन जन्मत एव कौशलम्कासुचिदत्यन्तसौकर्य्ययुक्तास्वप्यकौशलम् केषाञ्चित्, तथाविषयोपभोगेषु स्वभावत एव केषाञ्चित्कौशलाकौशलेदृश्येते तच्चैतत् सर्व्वं पूर्व्वप्रज्ञोद्भवानुद्भवनिमित्त, तेन पूर्व्वप्रज्ञया विना कर्म्मणि वा फलोपभोगे वान कस्यचित् प्रवृत्तिरुप्रपद्यते, तस्मादेत्तत्त्रयं शाकटिक-भारस्थानीय परलोकपथ्यदनं विद्याकर्म्मपूर्व्वप्रज्ञाख्यम् ।यस्माद्विद्याकर्म्मणी पूर्व्वप्रज्ञा च देहान्तरप्रतिपत्तुर्भोगसाधनंतस्माद्विद्याकर्म्मादि शुभमेव समाचरेत् । यथा इष्टदेह-संयोगभोगोपभोगौ ४ ब्रा० स्यातामिति प्रकरणार्थः” १ क० ।शा० सू० भाष्ययोश्च उत्क्रमणप्रकारः प्रपञ्चितो यथा“वाङ्मनसि दर्शनाच्छब्दाच्च” सू० । “अथापरासु विद्यासुफलप्राप्तये देवयानं पन्थानमतारयिष्पन् प्रथमं ताव-द्यथाशास्त्रमुत्क्रान्तिक्रममाचष्टे समाना हि विद्वदवि-दुषोरुत्क्रान्तिरिति वक्ष्यति । अस्ति प्रायणविषया श्रुतिः“अस्य सोम्य! पुरुषस्य प्रयतोवाङ् मनसि सम्पद्यते, मनः प्राणे, प्राणस्तेजसि, तेजः परस्यान्देवतायामिति”किमिह वाच एव वृत्तिमत्याः मनसि सम्पत्तिरुच्यते उत-वाग्वृत्तेरिति? विशयः । तत्र वागेव तावन्मनसि सम्पद्यतइति प्राप्तं तथा हि श्रुतिरनुगृहीता भवति । इतरथा-लक्षणा स्यात् श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या न लक्षणातस्माद्वाच एवायं मनसि प्रविलय इत्येवं प्राप्ते ब्रूमः ।वाग्वृत्तिर्मनसि सम्पद्यत इति । कथं वाग्वृत्तिरितिव्याख्यायते यावता वाङ्मनसीत्येवाचार्य्यः पठति । सत्यमेतत् पठिष्यति तु “परस्तात् अविभागोवचनादिति” ।तस्मादत्र वृत्त्युपशममात्रं विवक्षितमिति गम्यते । तत्त्व-प्रलयविवक्षयान्तु सर्वत्रैवाविभागसाम्यात् किं परत्रैवविशिंष्यादविभाग इति । तस्मादत्न वृत्त्युपसंहारविष-क्षायां वाग्वृत्तिः पूर्व्वमुपसंह्रियते मनोवृत्ताववस्थि-यामित्यर्थः । कस्मात्? दर्शनात् दृश्यते हि वाग्वृत्तेःपूर्वोपसंहारोमनोवृत्तौ विद्यमानायाम् । न तु वाच एववृत्तिमत्यामनस्युपसंहारः केनचिदपि द्रष्टुं शक्यते ।ननु श्रुतिसामर्थ्याद्वाच एवायं मनस्यप्यय इत्युक्तंनेन्याह अतत्प्रकृतित्वात् यस्य हि यत उत्पत्तिस्तस्यतत्र लयोनाय्योमृदीव शरावस्य । न च मनसो वागुत्प-द्यत इति किञ्चन प्रमाणमस्ति । वृत्त्युद्भवाभिभवौ त्वप्रकृतिसमाश्रयावपि दृश्येते । पार्थिवेभ्योहीन्धनेभ्यस्तैजस-स्याग्नेर्वृत्तिरुद्भवति अप्सु चोपशाम्यति । कथं तर्ह्यस्मिन्पक्षे वाङ्मनसि सम्पद्यत इति शब्दः इत्यत आह शब्दा-च्चेति । शब्दोऽप्यस्मिन् पक्षेऽवकल्पते वृत्तिवृत्तिमतोरभेदीप-चारादित्यर्थः” भा० । “अतएव च सर्व्वाण्यनु” सू० ।“तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः”इत्यत्राविशेषेण सर्वेषामेवेन्द्रियाणां मनसि सम्पत्तिः श्रूयतेतताप्यत एव वाच इव चक्षुरादीनामपि सवृत्तिके मनस्यवस्थिते वृत्तिलोपदर्शनात्तत्त्वप्रलयासम्भवाच्छब्दोपपत्तेश्चवृत्तिद्वारेणैव सर्वाणीन्द्रियाणि मनोऽनुवर्त्तन्ते । सर्वे-वाङ्करणानां मनस्युपसंहराविशेषे सति वाचः पृथग्ग्रहणंवाङमनसि सम्पद्यत इत्युदाहरणानुरोधेन” भा० ।“तन्मनः प्राण उत्तरात्” सू० । “समधिगतमेतत् वा-ङ्मनसि सम्पद्यत इत्यत्र वृत्तिसमपत्तिर्विवक्षितेति ।अथ यदुत्तरं वाक्यम् “मनः प्राणैति” किमत्रापि वृत्ति-सम्पत्तिरेव विवक्षिता उन वत्तिमत्सम्पत्तिरिति?विचिकित्सायां वृत्तिमत्सम्पत्तिरेबेति श्रुत्यनुग्रहात्तत्-प्रकृतितोपपत्तेश्च तथा हि “अन्नमयं हि सौम्य मन”आपोमयः प्राण” इत्यत्र अन्नयोनि मन आमनन्ति अब्योनिञ्च प्राणम् । आपश्चान्नमसृजन्तेति श्रुतेः”“अतश्च यन्मनः प्राणे प्रलीयते अन्नमेव तदप्सु प्रलीयते-अन्न हि मनः, आपश्च प्राणः, प्रकृतिविकाराभेदादि-त्येवं प्राप्ते ब्रूमः तदप्यात्मगृहीतबाह्येन्द्रिय-वृत्तिमनोवृत्तिद्वारेणैव प्राणे प्रलीयत इत्युत्तराद्वाक्यादव-गन्तव्यम् । तथा हि सुषुप्सोर्मुमूर्षोश्च प्राणवृत्तौपरिस्पन्दात्मिकायामवस्थितायां मनोवृत्तीनामुपशमो दृ-श्यते । न च मनसः स्वरूपाप्ययः प्राणे सम्भ-वति अतत्प्रकृतित्वात् । ननु दर्शितं मनसःप्रकृतित्वम् । नैतत्सारं न हीदृशेन प्राणालिकेनतत्प्रकृतित्वेन मनः प्राणे सम्पत्तुमर्हति । एवमपि ह्यन्नमनः सम्पद्येत अप्सुचान्नं अप्स्वेव च प्राणः । नह्येतस्मि-ञ्चपि पक्षे प्राणभावपरिणताभ्योऽद्भ्योमनोजायत इतिकिञ्चन प्रमाणमस्ति । तस्मान्न मनसः प्राणे स्वरूपाप्ययः ।वृत्त्यप्यये तु शब्दोऽवकल्पते वृत्तिवृत्तिमतोरभेदोपचारादिगिदर्शितम्” भा० । “सोऽध्यक्षे तदुपगमादिभ्यः” सू० ।“स्थितमेतद्यस्य यतोनोत्पत्तिस्तस्य तस्मिन् वृत्तिलयोन स्वरूपलय इति । इदमिदानी प्राणस्तेजसीत्यत्रचिन्त्यते किं यथाश्रुति प्राणस्य तेजस्येव वृत्त्युपसंहारः किंवा देहेन्द्रियपञ्जराध्यक्षे जीवे? इति । तत्र श्रुतेरनतिशङ्क्यत्वात् प्राणस्य तेजस्येव सम्पत्तिः स्यात् अश्रुतकल्पना-या अन्याय्यत्वादित्येवं प्राप्ते प्रतिपद्यते सोऽध्यक्ष इति ।स प्रकृतः प्राणोऽध्यक्षेऽविद्याकर्म्मपृर्व्वप्रज्ञोपाधिके विज्ञा-नात्मन्यबतिष्ठते तत्प्रधाना प्राणवृत्तिर्भवतीत्यर्थः । कुतः?तदुपगमादिभ्यः । “एवमेवेममात्मानमन्तकाले सर्व्वे प्राणाअभिसमायन्ति यत्रैतदूर्द्ध्वोच्छ्वासी मवतीति” हि श्रुत्य-न्तरम् अध्यक्षोपगामिनः सर्व्वान् प्राणानविशेषेण दर्शयति ।विशेषेणैव “तमुत्क्रामन्तं प्राणोनूत्क्रामतीति” पञ्चवृत्तेःप्राणस्याध्यक्षानुगामितां दर्शयति तदनुवृत्तिताञ्चेतरेषाम्, “प्राणमनूत्क्रामन्तं सर्व्वे प्राणा अनूत्क्रामन्तीति” ।“सविज्ञानोभवर्तीति” चाध्यक्षस्यान्तर्विज्ञानवत्त्वप्रदर्शनेनतस्मिन्नपीतकरणग्रामस्य प्राणस्यावस्थानं गमयति! ननु“प्राणस्तेजसीति” श्रूयते कथं प्राणोऽध्यक्ष इत्यधिकावापःक्रियते । नैष दोषः अध्यक्षप्रधानत्वादुत्क्रमणादिव्यवहारस्यश्रुत्यन्तरगतस्यापि च विशैषस्यापेक्षणीयत्वात् । कथं तर्हि“प्राणस्तेजसीति” श्रुतिरित्यत आह” भा० । “भूतेषुतच्छुतेः” सू० । “स प्राणसंयुक्तोऽध्यक्षः तेजःसहचरितेषुभूतेषु देहवीजभूतेषु सूक्ष्मेष्ववतिष्ठत इत्यवगन्तव्यम्“प्राणस्तेजसि” इत्यतः श्रुतेः । ननु चेयं श्रुतिः प्राणस्यतेजसि स्थितिं दर्शयति न प्राणसं युक्तस्याध्यक्षस्य । नैषःदोषः“सोऽध्यक्षः” इत्यध्यक्षस्याप्यन्तराल उपसंख्यातत्वात् ।योऽपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलि पुत्रंव्रजति सोऽपि स्रुध्नात् पाटलिपुत्रं यातीति शक्यते वदि-तुम् । तस्मात् प्राणस्तेजसीति प्राणसंयुक्तस्याध्यक्षस्यैवैत-त्तेजःसहचरितेषु भूतेष्ववस्थानम् । कथं तेजःसहचरितेषु भूतेष्वित्युच्यते यावता तेजः श्रूयते “प्राणस्तेज-सि” इत्यत आह” भा० । “नैकस्मिन् दर्शयतोहि” सू० ।“नैकस्मिन्नेव तेजसि शरंरान्तरप्रेप्सावेलायां जीवोऽव-तिष्टते कार्य्यस्य शरीरस्यानेकात्मकतादर्शनात् । दर्शयत-श्चैतमर्थं प्रश्नप्रतिवचने “आपः तरुषवचस” इति ।तद्व्याख्यातं “त्र्यात्मकत्वालु भूयम्त्वात्” इत्यत्र । श्रुति-स्मृती चैतमर्थं दर्शयतः । श्रुतिः “पृथितीमय आपमयस्तेज-मयो वायुमय आकाशमय” इत्याद्या । अतिरपि “अण्व्यो-मात्रा ऽविनाशिन्यो दशार्द्धानान्तु याः स्मृताः । ताभिःसार्द्धगिदं एर्त्वं सल्भवत्यनुपूर्व्वशः” इत्याद्या । ननु चोपसं-हृतेषु करणेषु शरीरान्तरप्रेप्सावेलायां क्कायन्तदा पुरुषोभवतीत्युपक्रम्य श्रुत्यन्तरं कर्म्माश्रयतां निरूपयति “तौ हयदूचतुः कर्म्म हैव तदूचतुः अथ ह यत् प्रशशंसतुः कर्म्महैव तत् प्रशशंसतुरिति” । तत्रोच्यते । तत्र कर्म्मप्रयुक्तस्यग्रहातिग्रहसंज्ञकस्येन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिरितिकर्म्माश्रयतोक्ता इह पुनर्भूतोपादानाद्देहान्तरोत्पत्ति-रिति भूताश्रयत्वमुक्तम् । प्रशंसाशब्दादपि तत्र प्राधान्य-मात्रं कर्म्मणः प्रदर्शितं न त्वाश्रयान्तरं निवारितम् तस्माद-विरोधः” भा० । “समाना चा सृत्युपक्रमादमृतत्वञ्चानुपोष्म”सू० “सेयमुत्क्रान्तिः किं विद्वदविदुषोः समाना? किं वाविशेषवतीति? विशयानानां विशेषवतीति तावत् प्राप्तम् ।भूताश्रयविशिष्टा ह्येषा पुनर्भवाय भूतान्याश्रीयन्ते न चविदुषः पुनर्भवः सम्भवति” “अमृतत्व हि विद्वानभ्यश्नुते”इति श्रुतेः । त मादविदुष एवैषोत्क्रान्तिः । ननु विद्या-प्रकरणे समाम्नानाद्विदुष एवैषा भवेत्, न स्वापादिवद्यथा-प्राप्तानुकीर्त्तनात् । तथा हि “यत्रैतत्पुरुषः स्वपितिनाम अशिशिषति नाम पिपासति नामेति” च सर्व-प्राणिसाधारणा एव स्वापादयोनुकीर्त्त्यन्ते विद्याप्रकरणे-ऽपि प्रतिपिपादयिषितवस्तुप्रतिपादनानुगुण्येन, न तुविदुषीबिशेषवन्तोविधित्स्यन्ते एवमियमप्युत्क्रान्तिर्महा-जनगतैवानुकीर्त्यते यस्यां परस्यां देवतायां पुरुषस्य प्रय-तस्तेजः सम्पद्यते, “स आत्मा तत्त्वमसीति” प्रतिपादयि-तुम् । प्रतिषिद्धा चैषा विदुषः । तस्मादविदुष एवैषेत्येवंप्राप्ते ब्रूमः । समानैषोत्क्रान्तिः वाङ्मनसीत्याद्या विद्वद-विदुषोरा सृत्युपक्रमाद्भवितुमर्हति अविशेषश्रवणात् ।अविद्वान् देहवीजतूतानि भूतसूक्ष्माण्याश्रित्य कर्मप्रयुक्तो-देहग्रहणमनुभवितुं संसरति विद्वांस्तु ज्ञानप्रकाशितंमोक्षं नाडीद्वारमाश्रयते तदेतदा सृत्युपक्रमादित्युक्तम् ।नन्वात्मतत्त्वं विदुषा प्राप्तव्य न च तद्देशान्तरायतं तत्रकुतो भूताश्रयत्वं सृत्युपक्रमो वेति” । अत्रो-च्यते । अनुपीष्य चेदम् अदग्ध्वाऽत्यन्तमविद्यादीन् क्लेशा-नपरविद्यांसामर्थ्यादापेक्षिकममृतत्वं प्राप्स्यते । सम्भवतितत्र सृत्युपक्रमोभूताश्रयत्वञ्च । न हि निराश्रयाणांप्राणानां गतिरुपपद्यते । तस्माददोषः” भा० । “तदा-ऽपीतेः संसारव्यपदेशात्” सू० । “तेजः परस्यां देवतायामि-त्यत्र प्रकरणसामर्थ्यात्तद्यथा प्रकृतं तेजः साध्यक्षं स-पाणं सकरणग्रामं मूतान्तरसहितं प्रयतः पुंसः पर-स्यां देवतायां सम्पद्यत इत्येतदुक्तं भवति । कीदृशी-पुनरियं सम्पत्तिः स्यादिति चिन्त्यते । तत्रात्यन्तिकएव-तावत् स्वरूपप्रविलय इति प्राप्तं तत्प्रकृतित्वोपपत्तेः ।सर्व्वस्य हि जनिमतोवस्तुजातस्य प्रकृतिः परा देवतेति प्रतिष्ठापितम् । तस्मादात्यन्तिकीऽयमबिभागापत्तिःइत्येवं प्राप्ते ब्रूमः । तत्तेजआदिभूतसूक्ष्मं श्रोत्रा-दिकरणाश्रयभूतमाऽपीतेरा संसारमोक्षात् सम्यगज्ञाननि-मित्तादवतिष्ठते । “योनिमन्ये प्रपद्यन्ते शरीरत्वायदेहिनः । स्थाणुमन्थेऽनुसयान्ति यथाकर्म यथाश्रुतम्”इत्यादिसंसारव्यपदेशात् । अन्यथा हि सर्वः प्रायणसम-य एवोपाधिप्रत्यस्तमयादत्यन्तं ब्रह्म सम्पद्येत तत्र विधि-शास्त्रं चानर्थकं स्याद्विद्याशास्त्रञ्च । मिथ्याज्ञाननिमि-त्तश्च बन्धो न सम्यग्ज्ञानादृते विस्र सितुमर्हति । तस्मात्तत्-प्रकृतित्वेऽपि सुषुप्तिप्रलयवद्वीजभावावशेषैवैषा सत्सम्पत्तिः”भा० । “सूक्ष्मं प्रमाणतश्च तथोपलब्धेः” सू० ।“तच्चेतरभूतसहितं तेजीजीवस्यास्माच्छरीरात् प्रवस-त आश्रयभूतं स्वरूपतः परिमाणतश्च सूक्ष्मं भवितु-भर्हति । तथा हि नाडीनिष्क्रमणश्रवणादिभ्योंऽस्यसौक्ष्म्यमुपलभ्यते । तत्र तनुत्वात् सञ्चारोपपत्तिः स्व-च्छत्वाच्चाप्रतीघातीपपत्तिः अतएव च देहान्निर्गच्छत्-पार्श्वस्थैर्नोपलभ्यते” भा० । “नोपमर्देनातः” सू० ।“अतएव च सूक्ष्मत्वान्नास्य स्थूलशरींरस्योपमर्द्देनदाहादिनिमित्तेनेतरत् सूक्ष्मशरीरमुपमृद्यते” भा० ।“अस्यैव चोपपत्तेरेष उष्मा” सू० । “अस्यैव चसूक्ष्मशरीरस्यैष उष्मायमेतस्मिन् जीवच्छरीरे संस्प-र्शेनोष्णिमानं विजानाति । तथा हि मृतावस्था-यामवस्थितेऽपि देहे विद्यामानेष्वपि च रूपादिषु देहगुणेषु नोष्मोपलभ्यते जीवदवस्थायामेव तूपलभ्यते इत्यतउपपद्यते प्रसिद्धशरीरव्यतिरिक्तरूपाश्रय एवैष उष्मेति ।तथा च श्रुतिः “उष्ण एव जीविष्यंच्छीतो मरिष्यन्निति”भा० । “प्रतिषेधादिति चेन्न शारीरात्” सू० । “अमृतत्व-ञ्चानुपोष्येत्थतोविशेषणादात्यन्तिकेऽमृतत्वे गत्युत्क्रा-न्त्योरभावोऽभ्युपगतः तत्रापि केनचित् कारणेनोत्क्रान्तिमाशङ्क्य प्रतिषेधति । “अथाकामयमानोयोऽकामो-निष्काम आप्तकाम आत्मकामोन तस्य प्राणाउत्क्रामन्तिब्रह्मैव सन् ब्रह्माप्येतीति” । अतः परविद्याविषयात्प्रतिषेधात् न परब्रह्मविदोदेहात् प्राणानामुत्क्रान्तिरस्तीति चेन्नेत्युच्यते । यतः शारीरादात्मन एष उत्क्रान्तिप्रतिषेधः प्राणानां, न शरीरात् । कथमवयस्यते । “नतस्मात् प्राणाउत्क्रामन्तीति” शाखान्तरे पञ्चमीप्रयोगात् ।सम्बन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्यासम्बन्धविशेषे व्यवस्थाप्यते । तस्मादिति च प्राधान्यादभ्यु-दयनिःश्रेयसाधिकृतो देही सम्बध्यते न देहः । न तर्स्मादुच्चिक्रमिषोर्जीवात् । प्राणाउत्क्रामन्ति सहैव तेन भवन्तीत्यर्थः । सप्राणस्य प्रवसतो भवत्युत्क्रान्तिर्देहादित्येवं प्राप्तेप्रत्युच्यते” भा० । “स्पष्टोह्येकेषाम्” सू० । “नैतदस्ति यदुक्तं परब्रह्मविदोऽपि देहादस्त्युत्क्रान्तिः प्रतिषेघस्य देह्यपादानत्वादिति । यतोदेहापादान एवीत्क्रान्तिप्रतिषेध एकेषांसमाम्नातॄणां स्पष्ट उपलभ्यते । तथाह्यार्त्तभागप्रश्ने“यत्रायं पुरुषोम्रियते तदस्मात् प्राणाः उत्क्रामन्त्याहोस्विन्न?” इत्यत्र “नेतिहोवाच याज्ञवल्क्य” इत्यनुत्क्रान्तिपक्षं परिगृह्य न तर्ह्ययमनुत्क्रान्तेषु प्राणेषु मृत इत्यस्यामाशङ्कायाम्” “अत्रैव समबलीयन्त” इति प्रविलयं प्राणा-नां प्रतिज्ञाय तत्सिद्धये “सौच्छ्वयत्याध्मायत्याध्मातोमृतःशेत” इति सशब्दपरामृष्टस्य प्रकृतस्योत्क्रान्त्यवधेरुछ्वयनादोनिसमामनति “देहस्य चैतानि स्युर्न देहिनः” । तत्सामान्यात्“न तस्मात् प्राणा उत्क्रामन्त्यत्रैव समबलीयन्त” इत्यत्राप्यभेदीपचारेण देहापादानस्यैवोत्क्रमणस्य प्रतिषेधः यद्यपिप्राधान्यं देहिन इति व्याख्येयम् । येषां पञ्चमीपाठःयेषान्तु षष्ठीपाठस्तेषां विद्वत्सम्बन्धिन्युत्क्रान्तिः प्रतिषिध्यत इति प्राप्तोत्क्रान्तिप्रतिषेधार्थत्वादस्य वाक्यस्यदेहापादनैव सा प्रतिसिद्धा भवति देहादुत्क्रान्तिः प्राप्तान देहिनः । अपि च “चक्षुष्टो वा मूर्द्ध्नोवान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तंसर्व्वे प्राणा अनूत्क्रामन्ति” इत्येवमविद्वद्विषये सप्रपञ्चमुत्क्रमणं सं सारगमनञ्च दर्शयित्वा “इति नु कामयमान” इत्युप-संहृत्याविद्वत्कथाम् “अथाकामयमान” इतिव्यपदिश्य विद्वांसं, यदि तद्विषयेऽप्युत्क्रान्तिमेव प्रापयेदसमञ्जस एव व्यप-देशःस्यात् । तस्मादविद्वद्विषये प्राप्तयोर्गत्युत्क्रान्त्योर्विद्वद्विषये प्रतिषेध इत्येवमेव व्याख्येयं व्यपदेशार्थवत्त्वाय ।न च ब्रह्मविदः सर्व्वगतव्रह्मात्मभूतस्य प्रक्षीणकामकर्म्मण उत्क्रान्तिर्गतिर्वोपपद्यते निमित्ताभावात् । “अत्रब्रह्म समश्नुत” इति चैवं जातीयकाः श्रुतयोगत्युत्क्रान्त्योरभाव सूचयन्ति” भा० । “स्मर्य्यते च” सू० । स्मर्य्यतेऽपिच महाभारते गत्युत्क्रान्त्योरभावः । “सर्व्वभूतात्मभूतस्यसम्यग्भूतानि पश्यतः । देवा अपि च मार्गेषु मुह्यन्तेऽस्य पदै-षिण” इति । ननु गतिरपि ब्रह्मविदः स्मर्य्यते “शुकः किलवैयासकिर्म्ममुक्षरादिमम्ण्डलमभिप्रतस्ये पित्रा त्वनु-गम्याहूतोभो इति प्रतिशुश्रावेति” । न सशरीरस्यैवायंयोगबलेन विशिष्ठदेशप्राप्तिपूर्व्वकः शरीरोत्सर्ग इतिद्रष्टव्यं स र्व्वभूतदृश्यत्वाद्युपन्यासात् । नह्यशरीरं गच्छन्तंसर्व्वभूतानि द्रष्टुं शक्नुयुः । तथा च तत्रैवोप संहृतम् ।“शुकस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षकः । दर्शयित्वाप्रभावं स्वं सव्वैभूतगतोऽभवदिति । तस्मादभावः परब्रह्मविदोगत्युत्क्रान्त्योः । गतिश्रुतीनान्तु विषयमुपरिष्टा-द्व्याख्यास्यामः” भा० “तानि परे तथाह्याह” सू० । “तानिपुनः प्राणशब्दोदितानीन्द्रियाणि भूतानि च परब्रह्मविदस्त-स्मिन्नेव परस्मिन्नात्मनि प्रलीयन्ते । कस्मात्? तथाह्याहश्रुतिः “एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषा-यणाः पुरुषं प्राप्यास्तं गच्छन्तीति” । ननु “गताः कलाःपञ्चदश प्रतिष्ठा” इति विद्वद्विषयैवापरा श्रुतिः परस्मा-दात्मनोऽन्यत्रापि कलानां प्रलयमाहस्म । न सा खलुव्यवहारापेक्षा पार्थिवाद्याः कलाः पृथीव्यादीरेव स्वप्रकृ-तीरपियन्तीति । इतरा तु विद्वत्प्रतिपत्त्यपेक्षा कृत्स्नंकलाजातं परब्रह्मविदो ब्रह्मैव सम्पद्यत इति तस्माददोषः”भा० “अविभागो वचनात्” सू० । “स पुनर्विदुषः कला-प्रलयः किमितरेषामिव सावशेषो भवत्याहोस्विन्निरवशेष?इति । तत्र प्रलयसामान्याच्छक्त्यवशेषताप्रसक्तौ ब्रवीति अ-विभागापत्तिरिति । कुतः? वचनात् । तथाहि कलाप्रलय-मुक्त्वा वक्ति” “भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यतेसएषोऽकलोऽमृतो भवतीति” । अविद्यानिमित्तानाञ्च कलानांन विद्यानिमित्ते प्रलये सावशेषतोपपत्तिः । तस्मादविभागएवेति” भा० । “तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्या-सामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्द्दानुगृहीतः शताधिकया” सू० । “समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता ।संप्रति त्वपराविद्याविषयामेव चिन्तामनुवर्त्तयति । समानाऽऽसृत्युपक्रमा चाद्विद्वदविदुषोरुत्क्रान्तिरित्युक्तं तमिदानींसृत्युपक्रमं दर्शयति । तस्योपसंहृतवागादिकलापस्योच्चिक्रमिषतो बिज्ञानात्मन ओक आयतनं हृदयम् । “स-एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्राम-तीति” श्रुतेः । तदग्रज्वलमम् । तत्पूर्ब्धिका चक्षुरादिस्थानापादाना चोत्क्रान्तिः श्रूयते “तस्य हैतस्य हृदय-स्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति“चक्षुष्टो वा मूर्द्ध्नोवान्येभ्यो वा शरीरदेशेभ्य” इति ।सा किमविशेषेणैव विद्वदविदुषोर्भवति? अथास्ति कश्चिद्वि-दुषो विशेषनियमः? इति विचिकित्सायां श्रुत्यविशेषादनियमप्राप्तावाचष्ठे । समाने पि हि विद्वदविदुषोर्हृदयाग्रप्रद्योतन तत्प्रकाशितद्वारत्वे च मूर्द्धस्थानादेव वि-द्वान्निष्क्रामति स्थानान्तरेभ्यस्त्वितरे । कुतः? विद्यासाम-र्थ्यात् । यदि विद्वानपीतरवत् यतः कुतश्चिद्देहदेशादुत्क्रामेन्नैवोत्कृष्टं लोकं लभेत तत्रानर्थिकैव विद्या-स्यात् । तच्छेषगत्यनुस्मृतियोगाच्च विद्याशेषभूताच मूर्द्धन्यनाडीसम्बन्धा गतिरनुशीलयितव्या विद्याविशेषेषु विहिता तामभ्यस्य स तथैव प्रतिष्ठत इतियुक्तम् । तस्माद्धृदयालयेन ब्रह्मणा सूपासितेनानुगृहीत-स्तद्भावमापन्नोविद्वान् मूर्द्धन्ययैव शताधिकया शतादति-रिक्तया एकशततमया नाड्या निष्क्रामति इतराभिरि-तरे । तथा हि हार्दविद्यां प्रकृय समामनन्ति “शत-ञ्चैका च हृदयस्य नाड्यस्तासां मूर्द्धानमभिनिःसृतै-का । तयोर्द्ध्वमायन्नमृतत्वमेति विष्वङङन्या उत्क्रमणेभवन्तीति” भा० । “रश्म्यनुसारी” सू० । “अस्ति दह-रोऽस्मिन्नन्तराकाश” इति हार्दविद्या “अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म” इत्युपक्रम्य विहिता । तत्-प्रक्रियायाम् अथ एताहृदयस्य नाड्य इत्युपक्रम्य स-प्रपञ्च नाडीरश्मिसम्बन्धमुक्त्वोक्तम् । “अथ यत्रैतद-स्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्द्ध्वमाक्रमत” इति ।पुनश्चोक्तम् “तयोर्द्ध्वमायन्नमृतत्वमेतीति” । तस्माच्छताधि-कया नाड्या निष्क्रमन् रश्म्यनुसारी निष्क्रामतीतिगम्यते । तत्किमविशेषेणैवाहनि रात्रौ वा म्रियमाणस्थरश्म्यनुसारित्वमाहोस्विदहन्ये वेति संशये सति अविशेषश्रव-णादविशेषेणैव तावद्रश्मनुसारीति प्रतिज्ञायते” भा० ।“निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति”च” सू० । “अस्त्यहनि नाडीरश्मिसम्बन्ध इत्यहनि”मृतस्य स्याद्रश्म्यनुसारित्वं रात्रौ तु प्रेतस्य न स्यात् ना-डीरश्मिसम्बन्धविच्छेदादिति चेन्न । नाडीरश्मिसम्बन्धस्ययावद्देहभावित्वात् यावद्देहभावी हि शिराकिरण-सम्पर्कः । दर्शयति चेतमर्थं श्रुतिः “अमुष्मादादित्यात् प्रता-यन्तेता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्तेता अमुष्मिन्नादित्ये स्मृप्ताः” इति । निदाघसमये च निशा-षुपि किरणानुवृत्तिरुपलभ्यते प्रतापादिकार्य्यदर्शनात् ।स्तोकानुवृत्तेस्तु दुर्लक्ष्यत्वमृत्वन्तररजनीष शैशिरेष्विव र्दि-नेषु । “अहरेवैतद्रात्रौ विदघातीति” चैतदेव दर्शयति ।यदि च रात्रौ प्रेतीविनैव रश्मानुसारेणोर्द्ध्वमाक्रमेत रश्म-नुसारानर्थक्यं भवेत् । न ह्येतद्विशिष्याभिधीयते योदि-वा प्रैति स रश्मीनपेक्ष्योर्द्ध्वमाक्रमते यस्तु रात्रौ सोऽन-पेक्ष्यैवेति” । अथ तु विद्वानपि रात्रि प्रायणाऽपराध-मात्रेण नोर्द्ध्वआक्रमेत पाक्षिकफला विद्येति अप्रवृत्ति-रेव तस्यां स्यात् मृत्यु कालानियमात् । अथापि रात्रावुप-रतोऽहरागममुदीक्षेत । अहरागमेऽप्यस्य कदाचिद्रश्मि-सम्बन्धार्हं शरीरं स्यात् पावकादिसम्पर्कात् । “स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतीति” च श्रुतिरनुदीक्षां दर्श-यति । तस्मादविशेषेणैवेदं रात्रिन्दिवं रश्म्यनुसारि-त्वम्” भा० । “अतश्चायनेऽपि दक्षिणे” सू० । “अतए-वोदीक्षानुपपत्तेः अपाक्षिकफलत्वाच्च विद्याया अनि-यतकालत्वाच्च मृत्योदक्षिणायनेऽपि म्रियमाणो वि-द्वान् प्राप्नोत्येव विद्याफलम् । उत्तरायणमरणप्राश-स्त्यप्रसिद्धेभींष्मस्य च प्रतीक्षादर्शनात् “आप्र्य्यमाणपक्षा-द्यान् षडुदङ्ङेति मासान् तानिति” च श्रुतेरपेक्षित-तव्यमुत्तरायणमितीमामाशङ्कामनेन सूत्रेणापनुदति । प्रा-शस्त्यप्रसिद्धिरविद्वद्विषया । भीष्मस्य प्रतिपालनमाचारपरि-पालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थञ्च ।श्रुतेस्त्वर्थं वक्ष्यति आतिवाहिकस्तल्लिङ्गात्” इति । ननुच “यत्र काले त्वनावृत्तिमावृत्तिञ्चैव योगिनः । प्रयातायान्ति तं कालं वक्ष्यामि भरतर्षभेति” कालप्राधान्येनीप-क्रमस्याऽहरादिकालविशेषः स्मृतावलावृत्तये नियतः कथंरात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं यायादिति । अत्रो-च्यते भा० । “योगिनः प्रति च स्मर्य्यते स्मार्त्ते चैते” सू० ।“योगिनः प्रति चायमहरादिकाल विनियोगोऽनावृत्तये-स्मर्य्यते स्मार्ते चैते योगसाङ्ख्ये न श्रौते । अतोविषय-भेदात् प्रमाणविशेषाच्च नास्य स्मार्त्तस्य कालविनियोगस्यश्रोतेसु विज्ञानेष्ववतारः । “ननु अग्निर्ज्योतिरहः शुक्लःषण्मासा उत्तरायणम्” । “धूमोरात्रिस्तथा कृष्णःषण्मासादक्षिणायन मिति” श्रौतावेव देवपितृयाणौ प्रत्य-भिज्ञायेते स्मृतावपीति । उच्यते । “तङ्कालं वक्ष्यामीतिस्मृतौ कालप्रतिज्ञानाद्वि रोधमाशङ्क्य परिहार उक्तः ।यदा पुनः स्मृतावपि अग्न्याद्यादेवा एवातिवाहिकागृह्यन्ते तदा न कश्चिद्विरोघ इति भा०”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
