| YouTube Channel

उज्ज्वलं (ujjvalaM)

 
शब्दकल्पद्रुमः
Sanskrit
उज्ज्वलं, त्रि, (उच्चैर्ज्वलति प्रकाशते इति उत् +ज्वल् + अच् ।) दीप्तम् विशदम् विकाशितम् ।इति मेदिनी
(यथा, साहित्यदर्पणे परि-च्छेदः “अस्माकं सखि ! वाससी रुचिरेग्रैवेयकं नोज्ज्वलं” ।“विचित्रोज्ज्वलवेशा तु बलन्नूपुरनिःस्वना”
)
उज्ज्वलं,
क्ली,
(उत् + ज्वल + अच् ।) स्वर्णम् ।इति राजनिर्घण्टः