उच्छन्न (ucchanna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English उच्छन्न ucchanna undressed
उच्छन्न ucchanna lost
उच्छन्न ucchanna destroyed
उच्छन्न ucchanna uncovered
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishउच्छन्न [ucchanna], [उद्-छद्-क्त]
Destroyed, cut down (perhaps for उत्सन्न)
see उच्छिन्न.
Extinct (as a work).
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiउच्छन्न
वि* - उद्+छ्द्+क्त
"नष्ट किया हुआ, उखाड़ा हुआ"
उच्छन्न
वि* - उद्+छ्द्+क्त
लुप्त
L R Vaidya
EnglishIndian Epigraphical Glossary
EnglishWordnet
Sanskrit अपरिच्छन्न, असंवृत, आविष्कृत, उच्छन्न, निर्व्यवधान, विकोश, विवृत, अनावृत
यद् संवृतम् नास्ति।
"अपरिच्छन्नात् द्वारात् सा तस्मिन् गृहे यद् किम् अपि अस्ति तत् सर्वं द्रष्टुं अशक्नोत्। "
वाचस्पत्यम्
Sanskritउच्छन्न उद्--छद क्त । लुप्तप्राये आच्छन्ने । “उच्छन्न-प्रच्छन्नग्रन्थे वेदस्याचारमूलत्वेत्यादि विधिवादे मथुरा०यथा च वेदस्य छिन्नमूलग्रन्थतया उच्छिन्नत्वेऽपि अवि-गीतशिष्टाचारादेव तदनुमानंतथा समर्थनाय शब्दचि०शब्दाप्रामाण्ये वादिपूर्व्वपक्षं निरस्य व्यवस्थापितं यथा ।“स्यादेतत् स्मृत्याचारयोर्वेदमूलत्वे तत्रोच्छेदादिविवादस्त-देव त्वसिद्धं तथा हि वेदसमानार्था महाजनपरिगृहीता चस्मृतिः, स्वार्थोपस्थित्यनन्तरं स्मृत्यर्थानुभावकवेदानुभानेऽपिप्रतीतिप्राथम्यात् साध्यप्रसिद्ध्यर्थमुपजीव्यत्वाच्च स्मृतेरेवा-पूर्व्वादिपाक्यार्थज्ञानमस्तु किं वेदेन, तदर्थस्य स्मृतितएव सिद्धेः अपूर्व्वस्य शब्दैकवेद्यत्वेन स्मृतितोज्ञातस्यज्ञापकत्वेनानुवादकतापत्तेश्च सा च स्मृत्यन्तरादित्यनादिरेव स्मृतिधारावश्यकी, अन्यथा मनुस्मृतेः पूर्वं तवापिवेदानुमानं न स्यात् । सर्व्वा च स्मृतिः स्मृतिजन्यवा-क्यार्थप्रमाजन्यत्वेन महाजनपरिगृहीतत्वेन च प्रमाण-मिति नान्धपरम्परा । प्रत्यक्षा च स्मृतिः स्मृतिमूलंनानुमिता अनुमितवेदवत् तस्या अनुभावकत्वात् ।वेदार्थस्मृतिताप्रसिद्धिस्तु प्रसिद्धवेदमूलस्मृतिसाहचर्य्यभ्रमात् प्रत्यक्षवेदाबोधितलोभन्यायमूलस्मृताविव तान्त्रि-काणां लिङ्गाभासजन्यवेदमूलकत्वभ्रमात् सम्भवन्मूला-लान्तराणां वेदमूलत्वं कल्पयति । अथ स्मृरिनिष्ठतद्वे-वेदमूलकत्वप्रसिद्धिरपि महाजनपरिग्रहीता एवञ्च सावेदमूलत्वनिबन्धना अविगीतमहाजनपरिगृहीतवेदमूल-त्वप्रसिद्धित्वात् प्रत्यक्षवेदमूलस्मृतौ तत्प्रसिद्धिवत् । एवंवेदार्थस्मृतिताप्रसिद्धिरपि अन्यथा महाजनपरिग्र-हानादरे वेदस्मृत्योरपि प्रामाण्यं न स्यादिति चेत् नयूपहस्त्यादिस्मृतेस्तत्प्रसिद्धौ व्यभिचारात् कॢप्तलो-भादित एव तत्सम्भवात् विचारकाणां विप्रतिपत्तेश्च ।तत्र तत्प्रसिद्धौ विगान महाजनानामिति चेत् नतत्रापि मूलान्तरसम्भवाद्विप्रतिपत्तेश्च विगानमेव तेषाम्, अतएव स्मृतीनां न्यायमूलत्वे सम्भवति वेदमूलत्व-प्रसिद्धावपि न वेदमूलत्वं, न च वेदमूलेयमिति कृत्वास्मृतेर्महाजन प्ररिग्रहात्तन्मूलत्वं वेदमूलेयमिति प्र-थमं ग्रहीतुमशक्यत्वात् शक्यत्वे वा किमनुमानेन, न चवेदमूलत्वेन प्रकारेण महाजनपरिग्रहः, असिद्धेः, मन्वा-दिस्मृतित्वेन पूर्वं महाजनपरिग्रहेणोत्तरेषां परि-ग्रहादनुष्ठानाद्युपपत्तेः । एवं होलकाचारेऽपि वेद-लिङ्गेनैव कर्त्तव्यताज्ञानोपपत्तेः किं वेदेन, तदर्थस्यलिङ्गादेवोपपत्तेः, अविगीताऽलौकिकविषयकशिष्टाचा-रस्यवेदमूलत्वदर्शनात् वेदानुमाने चाविगीतशिष्टाचारत्वेनभोजनाद्यावारोऽपि वेदमूलः स्यात् वेदं विनापि तत्कर्त्त-व्यताधीसम्भवान्न तदर्थवेदैति इहापि तुल्यम् । आ-चारकर्त्तव्यतानुमानयोरनादित्वेनाचाराणां कर्त्तव्यतानु-मानमूलकत्वान्नान्धपरम्परा । न च पूर्व्वानुमानसापेक्षमुत्त-रामानमिति स्वतन्त्रप्रमाणमूलकत्वाभावात् साध्यव्याप्तिपक्षधर्मतासत्त्वेन पूर्वेषां स्वतन्त्रप्रमाणत्वात् । नापीतरप्रामाण्या-धीनं सर्वस्य प्रामाण्यमिति न निरपेक्षत्वं, प्रत्यक्षादेरपितथात्वापत्तेः । एतेन विवादपदमाचारोनिरपेक्षप्रमाणमूलकःअविगीतमहाजनाचारत्वात् प्रत्यक्षवेदमूलाचारवदिति नि-रस्तम् अनुमानस्य निरपेक्षप्रमाणत्वात् प्रमाणमूलत्वेनैवबुद्धेरुपपत्तेः निरपेक्षत्वस्य गौरवेणाप्रयोजकत्वाच्च । न च सापे-क्षत्वेन न प्रमाणता व्याप्त्यादिसत्त्वात् अन्यथा प्रमाणनैर-पेक्ष्यस्य वैयर्थ्यात् । नचाचारे वेदमूलकत्वप्रसिद्धेस्तदनुमानम्, असिद्धेः व्यभिचारादन्यथोपपत्तेश्च । न च वेदमूलत्वेनमहाजनपरिग्रहात्तथा । न हि वेदमूलोऽयमिति कृत्वा-महाजनानां तत्परिग्रहः वेदमूलत्वस्य प्रथमं ज्ञातुमशक्य-त्वात् शक्यत्वे वा किमनुमानेन । न च वेदमूलत्वेन महा-जनपरिगृहीतोऽयमाचारः इति ज्ञात्वा तत्र महा-जनपरिग्रहः, गौरवात् असिद्धेश्च पूर्व्वमहाजनपरिग्र-हादेवोत्तरेषां परिग्रहानुष्ठानोपपत्तेः । तादृशस्मृत्याचा-रयोर्वेदमूलत्वेन व्याप्तेर्वेदमूलत्वसिद्धिरिति चेत् न अस-म्भवन्मूलान्तरस्योपाधित्वात् अन्यथा लोभन्यायमूलस्मृतेस्तत्प्रसङ्गः । अस्तु स्मृत्याचारयोरनादित्वं न चाचारात्स्मृतिः स्मृत्या चाचारः इत्यन्धपरम्परा मूलीभूतप्रमाणा-भावादिति वाच्यं स्मृत्याचारयोरुभयोरपि प्रमाण-त्वात् । अन्यथा न ततो वेदानुमानमिति ।उच्यते प्रलये पूर्व्वस्मृत्याचारयोरुच्छेदात् सर्गादौ नित्य-सर्व्वज्ञेश्वरप्रणीतवेदमूलत्वं स्मृत्याचारयोः, अन्यथा मूला-भावेनान्धपरम्पराप्रसङ्गः । न च मन्वादीनामतीन्द्रियार्थ-दर्शित्वं तदुपायश्रवणादेस्तदानीमसत्त्वात् पूर्व्वपूर्व्वसर्ग-सिद्धसर्व्धज्ञा एव त इति चेत् न प्रमाणाभावात । स्मृ-त्याचारयोः प्रमाणमूलकत्वमेव तत्कल्पकमिति चेत् नप्रतिसर्गं तेषामन्यान्यकल्पने गोरवमित्येकस्यैव नित्य-सर्व्वज्ञस्य कल्पनात् । न च स्मृतय एव तत्प्रणीताःतासां मन्वादिकर्तृकत्वेन स्मृतौ बोधात्, स्मृतावेवस्मृतीनां वेदमूलत्वस्मरणाच्च । एवञ्च स्मृत्याचारयोर्महा-जनपरिग्रहाद्वेदमूलत्वसाधकमपि भगवति प्रमाणम् ।अतएव “प्रतिमन्वन्तरं चैषा श्रुतिरन्याऽभिधीयत” इत्याग-मोऽपि । एवञ्च पूर्व्वप्रत्यक्षवेदमूलावेव स्मृताचारौ अग्रेच कालक्रमेणायुरारोग्यबलश्रद्ध्वाग्रहणधारणादिशक्तेर-हरहरपचीयमानत्वात् तदध्ययनविच्छेदात् शाखोच्छेदात्स्मृत्याचाराभ्यामेव कर्त्तव्यतामधिगत्य प्रवृत्तिः । नन्वेवंस्मृतिरस्तु वेदमूला मङ्गलाद्याचारस्तु ईश्वरादेव भविष्यतिघटलिप्याइसम्प्रदायवदिति चेत् न बहुव्यापारघटितस्य तत्तदाचारस्य गुरुत्वेन “मङ्गलमाचरेदित्यादिवाक्य-स्यैव लाघवेन कल्पनात्” ।“निवृत्ताचारशौचेषु परपाकोपजीविषु उच्छन्नबलिभिक्षेषुभिन्नकांस्योपभोजिषु” सुश्रुतः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
