उच्चार (uccAra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishउच्चार - uccAra - - rising
उच्चार - uccAra - - feces
उच्चार - uccAra - - excrement
उच्चार - uccAra - - discharge
उच्चार - uccAra - - pronunciation
उच्चार - uccAra - - utterance
उच्चार-कूप - uccAra-kUpa - - cesspool
Apte
Englishउच्चारः [uccārḥ], 1 Utterance, pronunciation, declaration
वर्ण˚, काम˚.
Excrement, dung, fæces
मातुरुच्चार एव सः H. Pr.16
मूत्रोच्चारसमुत्सर्गम् 4.5.
Discharge (in general).
Passage (of heavenly bodies) to another zodiacal sign or asterism. -प्रस्रवणम् Excrement (Jaina). -प्रस्रावस्थानम् A privy.
Apte 1890
EnglishMonier Williams Cologne
EnglishMacdonell
EnglishHindi
Hindiउच्चारण
Apte Hindi
Hindiउच्चारः
- उद्+चर्+णिच्+घञ्
"कथन, उच्चारण, उद्घोषणा"
उच्चारः
- उद्+चर्+णिच्+घञ्
"विष्ठा, गोबर"
उच्चारः
- उद्+चर्+णिच्+घञ्
छोड़ना
Shabdartha Kaustubha
Kannadaउच्चार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಉಚ್ಚರಿಸುವಿಕೆ /ನುಡಿಯುವುದು
निष्पत्तिः - > उद् + चर (गतौ) + णिच् - "घञ्" (३-३-१८)
उच्चार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪುರೀಷ /ಅಮೇಧ್ಯ /ಮಲ
प्रयोगाः - > "मूत्रोच्चारसमुत्सर्गं दिवा कुर्यात् उदङ्मुखः"
उल्लेखाः - > मनु० ४-५०
उच्चार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗ್ರಹಗಳು ರಾಶಿಯಿಂದ ರಾಶಿಗೆಸಂಚರಿಸುವುದು
L R Vaidya
Englishअभिधानचिन्तामणिः
Sanskritपुष्पिका तु लिङ्गमलं विड्विष्ठावस्करः शकृत् ।
गूथं पुरीषं शमलोच्चारौ वर्चस्कवर्चसी ॥ ६३४ ॥
पुष्पिका (स्त्री), लिङ्गमल (क्ली), विष् (स्त्री), विष्ठा (स्त्री), अवस्कर (पुं), शकृत् (क्ली), गूथ (क्ली), पुरीष (क्ली), शमल (क्ली), उच्चार (पुं), वर्चस्क (पुंक्ली), वर्चस् (क्ली)
अभिधानरत्नमाला
Sanskritवर्चस्
वर्चस्, उच्चार, वर्चस्क, अवस्कर, गूथ, कीट, विष्, विष्ठा, पुरीष, शमल, मल
उच्यते वर्च उच्चारो वर्चस्कोऽवस्करः शकृत् ।
गूथं कीटं च विट् विष्ठा पुरीषं शमलं मलम् ॥ ६३७ ॥
verse 3.1.1.637
page 0072
शब्दकल्पद्रुमः
Sanskritउच्चारः, (उच्चार्य्यते परित्यज्यते इति । उत् + चर+ णिच् + घञ् ।) विष्ठा । इत्यमरः ॥
(“मूत्रोच्चारसमुत्सर्गं दिवा कुर्य्यादुदङ्मुखः” ।इति मनुः । ४ । ५० ।)“यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति ।दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः” ॥
इति सुश्रुते उत्तरतन्त्रे चत्वारिंशत्तमोऽध्वायः ।)उच्चारणम् ॥
वाचस्पत्यम्
Sanskritउच्चार उद् + चर--णिच्--घञ् । १ उच्चारणे । “तस्यकार्य्येऽनु-च्चारः” मु० बो० “मन्त्रोच्चारपरायणः” । उच्चार्य्यतेअपानवायुना उत्क्षिप्यते कर्म्मणि घञ् । २ पुरीषे । वि-ण्मूत्रोत्सर्गविधानप्रकारः आ० त० नानावचनैर्दर्शितोयथा विष्णुधर्मीत्तरे “निद्रां जह्याद्गृही राम! नित्य-मेवारुणोदये । वेगोत्सर्गं ततः कृत्वा दन्तधावनपूर्व्वकम् ।अरुणोदयकालमाह स्कन्दपुराणम् “उदयात् प्राक्चतस्रस्तु नाडिका अरुणोदयः । तत्र स्नानं प्रशस्तंस्यात्तद्धि पुण्यतमं स्मृतम्” । नाडिका दण्डः । “ना-डीषष्ट्या दिवानिशम्” इत्युक्तेः । विष्णुधर्म्मोत्तरे “वेग-रोधं न कर्त्तव्यमन्यत्र क्रोधवेगतः” । “वेगरोधं न क-त्तेव्यमिति तु कां दिशं गन्तव्यमितिवत् भावाख्यातेतर-त्वात् साधुत्वम् । आयुर्वेदीयेऽपि “न वेगिनोऽन्यसिद्धिःस्यात् नाजित्वा साध्यमामयम्” । अङ्गिराः “उत्थायपश्चिमे रात्रेस्तत आचम्य चोदकम् । अन्तर्धाय तृणै-र्भूमिं शिरः प्रावृत्य वाससा । वाचं नियम्य यत्नेनष्ठीवनोच्छ्वासवर्जितः । कुर्य्यान्म त्रपुरीषे तु शुचौ देशे समा-हितः” विष्णुपुराणम् “ततः कल्यं समुत्थाय कुर्य्या-न्मैत्रं नरेश्वर! । नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः”तिष्ठेन्नातिचिरं तस्मिन्नैव किञ्चिदुदीरयेत्” । कल्यमुषःकालम्, मैत्रं मित्रदेवताकपायुसम्बन्धात् पुरीषोत्सर्गम्, नैरृत्यामुत्थानदेशभारभ्य उत्थायेत्यनेनोपस्थितेः । इषु-विक्षेपमतीत्य इषुविक्षेपयोग्यदेशाद्वहिः । तद्देशपरिमाणमाह पितामहः “मध्यनेन तु चापेन प्रक्षिपेत्तु शर-त्रयम् । हस्तानान्तु शते सर्व्वे लक्ष्यं कृत्वा विचक्षणः” ।आपस्तम्बः “मूत्रपुरीषे कुर्य्यात् दक्षिणां दिशं दक्षि-णापराग्वेति” । दक्षिणापरा नैरृती । मनः “मूत्रो-च्चारसमुत्सर्गं दिषा कुर्य्यादुदङ्मुखः । दक्षिणाभिमुखोरात्रौ सन्ध्ययोश्च यथा दिवा” । उच्चारः पुरीषम् । यत्तुयमवचनं “प्रत्यङ्मुखश्च पुर्व्वाहणे अपराह्णे च प्राङ्मुखः ।उदङ्मुखस्तु मध्याह्ने निशायां दक्षिणामुखः” इति तत्उदङ्मुखेन सहेच्छाविकल्पार्थं सूर्य्याभिमुखनिरासार्थञ्चन तु नियमार्थं देवलवचनविरोधात् । तथा च “सदैवो-दङ्मुखः प्रातः सायाह्ने दक्षिणामुखः । विण्मूत्रे आ-चरेन्नित्यं सध्यायां परिवर्जयेत्” इति । प्रातःसा-याह्नशब्दौ दिवारात्रिपरौ पूर्व्वोक्तमनुवचनैकवाक्यत्वात् ।सन्ध्यायां परिवर्जयेदिति तु पीडितेतरपरम् । यमः“कृत्वा यज्ञोपवीतन्तु पृष्ठतः कण्ठलम्बितम् । विण्मूत्रे चगृही कुर्य्यात् यद्वा कर्णे समाहितम्” । पृष्ठतः पृष्ठेकण्ठलम्बितं निवीतम् । अत्र लम्बितं निवीतम् । “संवीतंमानुषे कृत्ये” इति तैत्तिरोयश्रुतेः । मानुषे सनकादिकृत्ये ।पृष्ठलम्बितं निवीतम्” इति बौधायनवचनाच्च । तथा चहारवत् कृत्वा पृष्ठलम्बितम् स्कृन्धे इत्यर्थः । अत्र व्य-वस्थामाह सांख्यायनः । “यद्येकवस्त्रो यज्ञोपवीतं कर्णेकृत्वा अवगुण्ठितः” इति कर्णे दक्षिणकर्णे । “पवित्रंदक्षिणकर्णे कृत्वा विण्मूत्रमाचरेत्” इति स्मृतौ तथा दर्श-नात् । अवगुण्ठितः कृतशिरोऽवगुण्ठनः । मनुः “छायायामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखःकुर्य्यात् प्राणबाधाभयेषु च” महाभारते । “प्रत्यादित्यंप्रतिजलं प्रति गाञ्च प्रतिद्विजम् । मेहन्ति ये च पथिषुते भवन्ति गतायुषः” । प्रतिः सांमुख्ये । मनुः “न मूत्रंपथि कुर्व्वीत न भस्मनि न गोव्रजे । न फालकृष्टे न जलेन चित्यां नच पर्व्वते । न जीर्णदेवायतने न वल्सीकेकदाचन । न ससत्वेषु गर्त्तेषु न गच्छन्नापि संस्थितः ।न नदीतीरमासाद्य न च पर्व्वतमस्तके । वाय्वग्निविप्रा-नादित्यमपःपश्यंस्तथैव च । न कदाचन कुर्व्वीत विण्मू-त्रस्य विसर्जनम्” । ससत्वेषु प्राणिमत्सु संस्थितःउत्थितः पर्वतमस्तकनिषेधोऽधिकदोषाय । वशिष्ठः ।“आहारर्निहारविहारयोगाः सुसम्भृता धर्म्मविदा तुकार्य्याः । वाग्बुद्धिकार्याणि तपस्तथैव धनायुषी गुप्ततमेतु कार्य्ये” । निर्हारो मूत्रपुरीसोत्सर्गः विहारः स्त्री-सम्भोगः । योगः समाधिः । वाग्गुप्तिरशुभालापत्यागः ।बुद्धिगुप्तिरनिष्टचिन्तात्यागः । हारीतः “आहारन्तु रहःकुर्य्यात् निर्हारञ्चैव सर्वदा । गुप्ताभ्यां लक्ष्म्युवेतः स्यात्प्रकाशे हीयते तया” । विष्णुपुराणम् “सोमाग्न्यर्काम्बु-वायूनां पूज्यानाञ्च न सम्मुखे । कुर्य्यात् ष्ठीवनविण्मूत्रसमु-त्सर्गञ्चपण्डितः” । आपस्तम्बः “न च सोपानत्कोमूत्रपुरीषे कुर्य्यादिति” । वृहन्मनुः “करगृहीतपात्रेणकृत्वा मूत्रपुरीषके । मूत्रतुल्यन्तु पानीय पीत्वां चान्द्रा-यणञ्चरेत्” । भरद्वाजः “अथ विकृष्य विण्मूत्रं लोष्ट्र-काष्ठतृणादिना । उदस्तवासा उत्तिष्ठेद्दृढं विधृतमेहनः”उदस्तवासा कटिदेशादुत्क्षिप्तवस्त्रः” आ० त० “मूत्रोच्चारौच कारयेत्” । “यस्योच्चारं विना मूत्रं सम्यग् वायुश्च गच्छति”सुश्रु० । “दाने तपसि शौर्य्ये च यस्य न प्रथितं मनः ।विद्यायामर्थलाभे च मातुरुच्चार एव सः” हितो० ।उल्लङ्घ्य चारोगतिः । ३ ग्रहादीनां राशिनक्षत्रान्तर-सञ्चारे । “ऋक्षादृक्षं शतेनाब्दैर्यात्सु चित्रशिखण्डिषु ।“उच्चारे संहिकाकारैः” सि० रा० त० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
