उच (uca)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
Englishधातुपाठः (Krishnacharya)
Sanskrit उच्
उच
समवाये (सङ्गमो मिश्रणम्)
दिवादिः
अकर्मकः
सेट्
परस्मैपदी
उच्यति
पुषादिः
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुप्रदीपः
Sanskritउचँ उच समवाये
- उच्यति उवोच ऊचतुः औचत् मा भावानुचत् औचिचत् मा भवानुचिचत् उचिचिषति ओचित्वा उचितम् उल्वः (26) 117
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritउचँ उच समवाये
- (अर्थविवरणम्) समवाय ऐक्यम्
उच्यति उवोच औचिचत् ओक उचः के (7364) उचितम् उचः कुश्च इत्यसुन्-ओकस्, द्यौरोको येषां ते दिवौकस इति वृद्धिविषये दिवशब्दोऽदन्तोऽस्तीत्येके स्थलजलयोवोकसि पररूपम् आहुः-स्थलोकाः, स्थलौकाः, जलोकाः जलौकाः 111
धातुवृत्तिः
Sanskritउचँ उच (अर्थः) समवाये
( उचयति उवोच, ऊचतुः, उवोचिथ, ) पिद्वचनेषु परत्वाद्गुणे, पश्चाद् द्विर्वचने "अभ्यासस्यासवर्णे'' इत्युवङ् यद्यपि द्विर्वचने गुणस्य स्थानिवत्त्वम्, तथाप्युत्तरखण्डस्य "वार्णादाङ्गं बलीय'' इति सवर्णदीर्घात्पूर्वे गुणे ऽभ्यासस्योवङ् ओचिता ओचिष्यति उच्यतु औच्यत्, उच्च्येत्, उच्यात्, ) लिडो ( मा भवानुचिचत् ओचिचिषति ) इत्यादावपि द्विर्वचनात्पूर्वं गुणः अत्र च ज्ञापकं "रलो व्युपधात्'' इत्यत्र हलादिग्रहणेन अजादेर्गुणार्थः कित्वपर्युदासः यदि च पूर्वं द्विर्वचनं स्याद् अधिकत्त्वेऽप्यनुपधात्वाद् गुणो न भविष्यतीति किं तेन ( ओचित्वा ) "न क्त्त्वा सेट्'' इत्यकित्त्वम् ( उचितः, औचित्यम् ) ब्राह्मणादित्वात् ष्यञ् ( औचिती ) ष्यञन्तात् षित्त्वान्ङीषि "हलस्तद्धितस्य'' इति यलोपः नियमेनोच्यतीति ( न्योकः ) शंकुः इगुपधलक्षणः कः नियमेनास्मि शकुन्तोः समवयन्तीति ( न्योजो ) वृक्षः, घञर्थे कः ( ओकः ) अच् "ओक उचः के'' इति निपातनात्कुत्वम् ( उल्बम् ) गुणश्च ( ओकः, ओकसी ) गृहम् असुनि बाहुलकात्कुत्वम् ( उल्बम् "उल्बादयश्च'' इति बप्रययः चकारस्य च लकारो गुणाभावश्च निपात्यते 115
कृदन्तरूपमाला
Sanskrit1 {@“उच समवाये”@} 2 समवायः = ऐक्यम्--इति क्षीरस्वामी।
ओचकः-चिका, ओचकः-चिका, ओचिचिषकः-षिका
ओचिता-त्री, ओचयिता-त्री, ओचिचिषिता-त्री
3 उच्यन्-न्ती, ओचयन्-न्ती, ओचिचिषन्-न्ती
ओचिष्यन्-न्ती-ती, ओचयिष्यन्-न्ती-ती, ओचिचिषिष्यन्-न्ती-ती
-- ओचयमानः, ओचयिष्यमाणः
उक्-उचौ-उचः
-- -- उचितम्-तः-तवान्, ओचितः-तं, ओचिचिषितः-तवान्
ओक 4ः-न्योकः 5, ओकः, ओचिचिषुः, ओचिचयिषुः
ओचितव्यम्, ओचयितव्यम्, ओचिचिषितव्यम्
ओचनीयम्, ओचनीयम्, ओचिचिषणीयम्
ओच्यम्, ओच्यम्, ओचिचिष्यम्
ईषदोचः, दुरोचः, स्वोचः, -- -- उच्यमानः, ओच्यमानः, ओचिचिष्यमाणः
ओकः-न्योकः, 6 ओकः, ओचिचिषः
7 ओचितुम्, ओचयितुम्, ओचिचिषितुम्
उक्तिः, ओचना, ओचिचिषा, ओचिचयिषा
ओचनम्, ओचनम्, ओचिचिषणम्
8 ओचित्वा, ओचयित्वा, ओचिचिषित्वा
समुच्य, समोच्य, समोचिचिष्य
9 ओचम् २, ओचित्वा २, ओचम् २, ओचयित्वा २
ओचिचिषम् २
ओचिचिषित्वा २। ओकः 10 -ओकसी।
-- --
01 (९५)
02 (४-दिवादिः-१२२३। सक। सेट्। पर।)
03 [[१। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनः शित्त्वात् ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावात् उकारस्य गुणो न।]]
04 [[२। ‘ओक उचः के’ (७-३-६४) इति कप्रत्यये गुणः कुत्वञ्च निपातनात्।]]
05 [[३। नियमेन उच्यति = समवैतीति न्योकः = शकुन्तो वृषलो वा। कर्तरि कः।]]
06 [[४। नियमेनोच्यन्ति = समवयन्त्यत्रेत्यधिकरणकारके ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इति कः। तिपातनादेव कुत्वम्। वृक्षोऽर्थः। ओकः = गृहम्।]]
07 [पृष्ठम्००९४+ २६]
08 [[१। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणः।]]
09 [[२। ‘आभीक्ष्ण्ये णमुल् च’ (३-४-२२) इत्यत्र चकारात् क्त्वाऽपि। ‘नित्यवीप्सयोः’ (८-१-४) इति द्वित्वम्।]]
10 [[३। औणादिके असुन्प्रत्यये बाहुलकात् कुत्वम्। ‘मुस्तामोष्यमसः किटिस्त्वमसमो लुठ्यन् खलानोकसो भृश्यद्भ्रंशनवर्शकाकृशदयस्तृष्णाहरो हृष्य मे।।’ धा। का। २-६६।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
