| YouTube Channel

ईतिः (ItiH)

 
Chandas
Sanskrit
सम-वृत्तम्,
अक्षराणि-
24,
पादेऽक्षराणि-
6
मात्राः - 9
मात्रा-विन्यासः
दा दा दा
लक्षण-मूलम् - आनन्दमिश्र-जालक्षेत्रम्
Apte Hindi
Hindi
ईतिः
स्त्री*
- ई-क्तिच्
"महामारी, दुःख, मौसम, संकट"
ईतिः
स्त्री*
- ई-क्तिच्
संक्रामक रोग
ईतिः
स्त्री*
- ई-क्तिच्
"विदेश में घूमना, विदेश यात्रा"
ईतिः
स्त्री*
- ई-क्तिच्
दंगा
E Bharati Sampat
Sanskrit
(स्त्री) ईयते अनया ईङ्(गतौ)+क्तिच् ‘क्तिच् क्तौ संज्ञायामे’ ३.३.१७४। १.क्लेशः। अतिवृष्ट्यनावृष्ट्यदयः षड्क्लेशाः। ‘अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः खगाः। अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः॥’ ‘पुरूषायुषजीविन्यो निरातङ्का निरीतयः’ रघुः १.६३। २.प्रयाणम्, प्रवासः। ३.शिशुः, शावकः। ‘ईतिर्डिम्बे प्रवासेऽतिवृष्टयादिषटसु स्त्रियाम्’ मेदिनी०।
Wordnet
Sanskrit
Synonyms:
ईतिः
noun
कृषिक्षेत्रस्य षट् उपद्रवाः।
"अतिवृष्टिः अनावृष्टिः शलभाः मूषिकाः खगाः प्रत्यासन्नाः राजानश्च एताः ईतयः सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
ईतिः,
स्त्री,
(ईयते ऽनया + क्तिन् ।) डिम्वः ।प्रवासः इत्यमरो मेदिनी
कृषेः षट्प्रका-रोपद्रवविशेषः यथा, --“अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः ।प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः”
इति स्मृतिः
(कलहभेदः नृपतिरहितयुद्धम् ।“ईतयो व्याधयस्तन्द्रा दोषा क्रोधादयस्तथा ।उपद्रवाश्च वर्त्तन्ते आधयः क्षुद्भयं तथा”
इति महाभारते हनूमद्भीमसंवादे १४९ ३४ ।)
कृदन्तरूपमाला
Sanskrit
1 {@“ई 2 गतिव्याप्तिप्रजनकान्त्यसनखादनेषु”@} 3 ‘अयत्येतीयते गत्यां, अधीतेऽध्येति चेङिकोः।’ 4 इति देवः।
प्रजनम् = गर्भग्रहणम्।
‘वी गति--’ 5 इति धातौ प्रश्लिष्टोऽयं धातुः।
आयकः-यिका, आयकः-यिका, 6 ईषिषकः-षिका
एता-त्री, आययिता-त्री, ईषिषिता-त्री
7 इयन् 8 -ती, आययन्-न्ती, ईषिषन्-न्ती
9 एष्यन्-न्ती-ती, आययिष्यन्-न्ती-ती, ईषिषिष्यन्-न्ती-ती
-- आययमानः, आययिष्यमाणः
ईः--इयौ-इयः
-- -- 10 ईतः-तम्-तवान्, आयितम्-तः, ईषिषितः-तवान्
अयः, आयः, ईषिषिषुः, आयिययिषुः
एतव्यम्, आययितव्यम्, ईषिषितव्यम्
अयनीयम्, आयनीयम्, ईषिषणीयम्
एयम्, उपेयम् 11, आय्यम्, ईषिष्यम्
ईषदयः, दुरयः, स्वयः
-- -- ईयमानः, आय्यमानः, ईषिष्यमाणः
अयः, आयः, ईषिषः
एतुम्, आययितुम्, ईषिषितुम्
ईतिः, आयना, ईषिषिषा
आयिययिषा
अयनम्, आयनम्, ईषिषणम्
ईत्वा, आययित्वा, ईषिषित्वा
समीय-प्रतीय, 12 समाय्य, समीषिष्य
आयम् २, ईत्वा २, आयम् २, आययित्वा २, ईषिषम्
ईषिषित्वा २।
प्रासङ्गिक्यः
01
=>
(७७)
02
=>
(वी)
03
=>
(२-अदादिः-१०४८-स। अनि। पर।)
04
=>
(श्लो १४)
05
=>
(ईई-१०४८। सक। अनि। पर।)
06
=>
[[५। ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्। ‘पर्जन्यवल्लक्षणं प्रवर्तते’ (भाष्यम्) इति न्यायात् ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
07
=>
[[६। ‘अचि श्नुधातु--’ (६-४-७७) इतीयङ्।]]
08
=>
[[B। ‘इयञ्जनं राजपथं समायात् वाताकुलोद्भातपताकमीशः।।’ धा। का। २-४८।]]
09
=>
[पृष्ठम्००७९+ २७]
10
=>
[[आ। ‘इदं वचोऽनुच्चरमाण ईते तस्मिन् स्वमादाय शिशुं निकाय्यम्।’ वासुदेवविजये --२-२०। ईते इति क्तान्तात् सप्तमी।]]
11
=>
[[B। ‘ई गताविति धातोर्यत्, तस्मादेयमिति स्थिते। ‘एङी’ ति पररूपे स्यादुपेय- मिति त्विणः।।’ इति प्रक्रियासर्वस्वे (पु। ८०)।]]
12
=>
[[C। ‘प्रतीय सा पूर्ददृशे जनेन द्यौर्भानुशीतांशुविनाकृतेव। राजन्यनक्षत्रसमन्विताऽपि शोकान्धकारक्षतसर्वचेष्टा।।’ भ। का। ३-१९।]]