| YouTube Channel

इष्ट्ययन (iSTyayana)

 
Monier Williams Cologne
English
इष्ट्य्-अयन
n.
a sacrifice lasting a long time,
ĀśvŚr.
वाचस्पत्यम्
Sanskrit
इष्ट्ययन
न०
इष्ट्यायनं गमनं यत्र “यागविशेषाचरणभेदे”इष्ट्ययनञ्च आश्व० श्रौ० २, १४, सूत्रादौ दर्शितं यथा“अत ऊर्द्ध्वमिष्ट्ययनानि” “अत ऊर्द्ध्वं यानि वक्ष्यन्तेऽस्मिन्अध्याये तानि इष्ट्ययनसं ज्ञानीति विद्यात् इष्टिभिरयनंगमनं येषु कर्मसु तानीष्ट्ययनानि” नारा० वृ० “सांवत्सरि-काणि” सू० “संवत्सरेण क्रियन्ते संवत्सरैश्च क्रियन्त इत्युभ-यथा विग्रहः कर्तव्यः, दाक्षायणयज्ञचातुर्मास्यानामनेकसां-वत्सरिकत्वसिद्ध्यर्थम् वृ० “तेषां फाल्गुन्यां पौर्णमास्यां चैत्र्यांवा प्रयोगः” सू० “फल्मुनीर्भिर्युक्ता पौर्णमासी फाल्गुनी, चित्रया युक्ता चैत्री तेषां सांवत्सरिकाणां आगन्तुका-नामस्मिन् काले प्रारम्भः कार्यः दर्शपूर्णमासगुणविकार-रूपाणां दाक्षायणयज्ञादीनामारम्भे कालनियमो नास्तीतितेषामित्युच्यते” नारा० वृ० “तुरायणम्” सू० “तुरायणंनामेष्ट्ययनमुच्यते” वृ० “अग्निरिन्द्रो विश्वेदेवा इति पृथ-गिष्टयोऽनुसवनमहरहः” सू० “अग्निदेवत्या इन्द्रदेवत्याविश्वदेवदेवत्या चैतास्तिस्र इष्टयः त्रिषु सवनेषु यथासङ्ख्येनएकैकेष्टिः कार्याऽहन्यहनि अहरहरिति वचनं पौर्ण-मास्यमावास्ययोर्बाधनार्थम्” वृ० “एका वा त्रिहविः”६ सू० “एताभिरेव देवतामिर्युक्ता एकैवेष्टिस्त्रिहविष्काऽह-न्यहनि प्रातः सवन एव कर्त्तव्या वेत्यर्थः” वृ० “इडाद-धोनामेष्ट्ययनं तत्र देवतादि १४ १--१०” द्यावापृथि-व्योरयनं नामेष्ट्ययनं तत्र देवताइ २, १४, १२, १५”“चातुर्मस्यानि इष्ट्ययनानि तद्देवतादि २, १५, सूत्रादौ ।एवमन्यान्यपि इष्ट्ययनकर्म्माणि आकरे दृश्यानि