| YouTube Channel

इलावृतं (ilAvRtaM)

 
शब्दकल्पद्रुमः
Sanskrit
इलावृतं,
क्ली,
(इरया आवृतं ।) जम्बुद्वीपस्य नव-वर्षान्तर्गतवर्षविशेषः इति त्रिकाण्डशेषः ।तच्च सुमेरुपर्ब्बतं संवेष्ट्यास्ते तस्य सीमा उत्तरेनीलपर्ब्बतः दक्षिणे निषधः पश्चिमे माल्य-वान् पूर्व्वेगन्धमादनपर्ब्बतः इति श्रीभागवतम्
अग्नीध्रस्य स्वनामख्यातः पुत्रः तु पितुःसकाशात् इलावृतं नाम वर्षमलभत यदुक्तंविष्णुपुराणे १६, १७, १८ ।“जम्बुद्वीपेश्वरो यस्तु अग्नीध्रो मुनिसत्तम ! ।तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव
नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः ।रम्यो हिरण्वान् षष्ठश्च कुरुर्भद्राश्व एव
केतुमालस्तथैवान्यः साधुचेष्टो नृपोऽभवत्”
)