| YouTube Channel

इलावृत (ilAvRta)

 
शब्दसागरः
English
इलावृत
n.
(-तं) One of the nine Varshas or divisions of the known world,
comprehending the highest and most centrical part of the old
continent.
E.
इला the earth, and आवृत chosen: the fairest part of the
globe.
Yates
English
इला_वृत (तं) 1.
n.
A division of the
earth, a ninth part of it.
Wilson
English
इलावृत
n.
(-तं) One of the nine Varṣas or divisions of the
known world, comprehending the highest and most centrical part of the old
continent.
E.
इला the earth, and आवृत chosen: the fairest part of the globe.
Monier Williams Cologne
English
इ॑ला°वृत
m.
N.
of a son of Āgnīdhra (who received the Varṣa Ilāvṛta as his kingdom)
इला—°वृत
n.
one of the nine Varṣas or divisions of the known world (comprehending the highest and most central part of the old continent,
cf.
वर्ष),
MBh.
BhP.
MārkP.
VP.
&c.
Shabdartha Kaustubha
Kannada
इलावृत
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಜಂಬೂದ್ವೀಪದ ಒಂದು ಖಂಡ /ಜಂಬೂದ್ವೀಪದ ಭಾಗಗಳಲ್ಲೊಂದು
प्रयोगाः - > "इलावृतान्तं निषधादपाचीम्"
उल्लेखाः - > याद० १८-१३
Schmidt Nachtrage zum Sanskrit Worterbuch
German
[इलावृत] , °वर्ष m. Aniruddha zu Sāṃkhyas. 6, 52.
वैजयन्तीकोषः
Sanskrit
Word: इलावृतम्
Root: इलावृत
Gender: नपुं
Number: all
अर्थः
Meaning(s):
Country near the mountain Suméru
Shloka(s):
3|1|7|1 इलावृत्तं सौमेरवं सुमेरुं परितो हि तत्। (भूमिकाण्डः/देशाध्यायः)
Synonym(s):
3|1|7|1 इलावृतम् (इलावृत) (नपुं) Country near the mountain Suméru
3|1|7|1 सौमेरवम् (सौमेरव) (नपुं) Epithet of the country Ilavṛta
Related word(s):
Mahabharata
English
Ilāvṛta, name of a varsha. § 574 (Jambūkh.): VI, 6, 233 (in the middle of Jambudvīpa).
पुराणम्
English
इलावर्त / ILĀVARTA (ilāvṛta). A King in the line of priyavrata, son of svāyambhuva manu, (See Genealogy).
इलावृत / ILĀVṚTA (ilavṛtta). A locality. (See Bhūguṇita).
शब्दकल्पद्रुमः
Sanskrit
इलावृतं,
क्ली,
(इरया आवृतं ।) जम्बुद्वीपस्य नव-वर्षान्तर्गतवर्षविशेषः इति त्रिकाण्डशेषः ।तच्च सुमेरुपर्ब्बतं संवेष्ट्यास्ते तस्य सीमा उत्तरेनीलपर्ब्बतः दक्षिणे निषधः पश्चिमे माल्य-वान् पूर्व्वेगन्धमादनपर्ब्बतः इति श्रीभागवतम्
अग्नीध्रस्य स्वनामख्यातः पुत्रः तु पितुःसकाशात् इलावृतं नाम वर्षमलभत यदुक्तंविष्णुपुराणे १६, १७, १८ ।“जम्बुद्वीपेश्वरो यस्तु अग्नीध्रो मुनिसत्तम ! ।तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव
नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः ।रम्यो हिरण्वान् षष्ठश्च कुरुर्भद्राश्व एव
केतुमालस्तथैवान्यः साधुचेष्टो नृपोऽभवत्”
)
वाचस्पत्यम्
Sanskrit
इलावृत
न०
इला पृथिवीवावृतं निषधादिभिः नवव-र्षात्मकजम्बुद्वीपस्य वर्षभेदे तच्च वर्षम् “पश्चान्माल्यवतः, प्राच्यां गन्घमादनशैलतः इलावृतं नीलगिरेर्याम्यतो, निषधादुदक्” इत्युक्त चतुःसीमावच्छिन्ने देशेऽस्ति “माल्यवांश्चयमकोटिपत्तनाद्रोमकाच्च किल गन्धमादनः नीलशैलनि-षधावधी तावन्तरालमनयोरिलावृतम् निषधनीलसुग-न्धसुमाल्यकैरलमिलावृतमावृतमाबभौ अमरकेलिकुलाय-समाकुलं रुचिरकाञ्चनचित्रमहीतलम्” सि० शि० “एतेनभारतभिलावृतवद् विभाति” माघः इलावृतस्थपर्व्वता-दिवर्ण्णनम् भाग० स्क० अ० ।“एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितःसर्वतः सौवर्णः कुलगिरिराजोमेरुर्द्वीपायामसमुन्नाहः कर्णि-काभूतः कुवलयकमलस्य मुर्द्धनि द्वात्रिंशत्सहस्रयोजन-विततो मूले षोडशसाहस्रं तावतान्तर्भूम्यां प्रविष्टः ।उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयोरम्यक-हिरण्मयकुरूणां वर्षाणां मर्य्यादागिरयः प्रागायताउभयतः क्षारोदावधयोद्विसाहस्रपृथव एकैकशः पूर्वस्मात्पूर्वस्मादुत्तरोत्तरेण दशांशाधिकांशेन दैर्घ्यएव ह्रसन्ति ।एवं दक्षिणेनेलावृतं निषधोहेमकूटो हिमालय इति प्रागा-यता यथा नीलादयः अयुतयोजनोत्सेधा हरिवर्षकिं-पुरुषभारतानां यथासंख्यम् तथैवेलावृतमपरेण पू-र्वेण माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रंपप्रथतुः केतुमालभद्राश्वयोः सीमानं विदधाते मन्द-रोमेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहामेरोश्चतुर्दिशमवष्टम्भगिरय उपकॢप्ताः चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोघाश्चत्वारः पादपप्रवराः पर्वतकेतव इवद्वि-सहस्रयोजनोन्नाहास्तावद्विटपविततयः शतयोजनपरिणा-हाः ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजलाः यदुप-स्पर्शिन उपदेवगणा योगैश्चर्य्याणि स्वाभाविकानि भरतर-र्षभ! धारयन्ति देवोद्यानानि भवन्ति चत्वारि नन्दनंचैत्ररथं वैम्राजकं सर्वतोभद्रमिति येष्वमरपरिवृढाःसहसुरललनाललामयूथपतय उपदेवगणैरुपगीयमानम-हिमानः किल विहरन्ति मन्दरोत्सङ्ग एकादशशत-योजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फला-न्यमृतकल्पानि पतन्ति तेषां विशीर्य्यमाणानामतिमधुरसुरमिगन्धबहलारुणरसोदेनारुणोदा नाम नदीं मन्दर-गिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति यदु-पजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्शसुगन्धवातो दशयोजनं समन्तादनुवासयति एवं जम्बू-फलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकाय-निभानां रसेन जम्बूनदी नाम मेरुमन्दरशिखरादयुत-योजनादवनितले निपन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दति तावदुभयोरपि रोधसोर्मृत्तिका तद्रसे-नानुविध्यमाना वाय्वर्वसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं मवति यदुह वाव विवुधा-दयः सहयुवतिभिर्मुकुटककटिसूत्रकुण्डलाद्याभरणरूपेणखलु धारयन्ति यस्तु महाकदम्बः सुपार्श्वपार्श्वनिरूढ-स्तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाःसुमधुराः सुपार्श्वशिखरात् पतन्त्योऽपरेणात्मानमिला-वृतमनुमोदयन्ति याह्युपयुञ्जानानां मुखनिर्वासितोवायुः समन्ताच्छतयोजनमनु वासयति एवं कुमुदनि-रूढो यः शतवल्लोनाम वटस्तस्थ स्कन्धेभ्योनीचीनाः पयो-दधिमधुघृतगुडान्नादाम्बरशय्यासनाभरणादयः सर्व एवकामदुघानदाः कुमुदाग्रात् पतन्तमुत्तरेणेलावृतमुप-योजयन्ति यानुपजुषाणानां कदाचिदपि प्रजानांवलीपलितक्लमस्वेददौर्गन्ध्यजरामयापमृत्युशीतोष्णवैवर्ण्यो-पसर्गादयस्तापविशेषा भवन्ति यावज्जीवं सुखं निर-तिशयमेव कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिखरपतङ्गरुच-कनिषधसितिकासकपिलशङ्खवैदूर्य्यजारुधिहंसर्षभनागका-ञ्जरनीरदादयोगिरयो मेरोः कर्णिकाया इव केशर-भूतामूलदेशे परित उपकॢप्ताः जठरदेवकूटौ मेरुं पूर्वे-णाष्टादशयोजनसहस्रमुदगायतौ द्विसहस्रःपृथुतुङ्गौ भवतः ।एवमपरेण पवनपारिपात्रौ दक्षिणेन कैलासकरवीरौप्रागायतौ एवमुत्तरतः त्रिशृङ्गमकरौ अष्टाभिरेभिःपरिष्कृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः मेरोर्मू-र्द्ध्वनि भगवत आत्मयोनेर्मध्यत उपकॢप्तां पुरीमयुतयोजन-साहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति तामनु परितोलोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेनपुरोऽष्टावुपकॢप्ताः” भा० भी० अ० जम्बूखण्डविभागे तु ।“धनुःसंस्थे महाराज! द्वे वर्षे दक्षिणोत्तरे इलावृतंमध्यमन्तु पञ्च वर्षाणि चैव उत्तरोत्तरमेतेभ्यो वर्ष-मुद्रिच्यते गुणैः आयुःप्रमाणं चारोग्यं धर्म्मतः कामतो-ऽर्थतः समन्वितानि भूतानि तेषु वर्षेषु भारत! एव-मेषा महाराज! पर्व्वतैः पृथिवी चिता हेमकूटस्तु सुम-हान् कैलासो नाम पर्वतः यत्र वैश्रवणो राजन्! गुह्यकैःसह मोदते अस्त्युत्तरेण कैलासात् मैनाकं पर्वतम्प्रति ।हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः तस्यपार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम् रम्यं विन्दुसरोनाम यत्र राजा भगीरथः दृष्ट्वा भागीरथीं गङ्गामुवासबहुलाः समाः यूपा मणिमयास्तत्र चैत्याश्चापि हिर-ण्मयाः तथेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ।स्रष्टा भूतपतिर्यत्र सर्वलोकैः सनातनः उपास्यते तिग्मतेजायत्र भूतैः समन्ततः नरनारायणौ ब्रह्मा मनुः स्थाणुश्चपञ्चमः तत्र दिव्या त्रिपथगा प्रथमन्तु प्रतिष्ठिता ।ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते वस्वोकसारा न-लिनी पावनी सरस्वती जम्बूनदी सीता गङ्गासिन्धूश्च सप्तमी अचिन्त्या दिव्यसङ्काशाः प्रभोरेवैष सं-विधिः उपासते यत्र सत्रं सहस्रयुगपर्य्यये दृश्यादृश्याच भवति तत्र तत्र सरस्वती एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः”