| YouTube Channel

इन्दुलोक (induloka)

 
Monier Williams Cologne
English
इन्दु—लोक
m.
=
चन्द्रलोक, q.v.
Shabdartha Kaustubha
Kannada
इन्दुलोक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಚಂದ್ರಲೋಕ
वाचस्पत्यम्
Sanskrit
इन्दुलोक
पु०
त० चन्द्रलोके हि कर्म्मिणामुपभोग-स्थानतया श्रुत्यादिषु कथितः चन्द्रलोके कर्म्मिणाम्आप्यशरीरं जायतेतच्च कर्म्मसमवायिजलसूक्ष्माऽंशेभ्यएवेति निरूपणाय छा० उ० पञ्चाग्निविद्या प्रस्ताविता यथा“असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्, रश्मयो धूमो, ऽहरर्चि, श्चन्द्रमा अङ्गारा, नक्षत्राणि विस्फुलि-ङ्गाः तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेःसोमो राजा सम्भवति पर्जन्यो वाव गौतमाग्निस्तस्यवायुरेव समिदभ्रं धूमो, विद्युदर्चिरशनिरङ्गारा, ह्रादु-नयो विस्फुलिङ्गाः तस्मिन्नेतस्मिन्नग्नौ देवाः सोमंराजानं जुह्वति तस्या आहुतेर्वर्षं सम्भवति पृथिवीवाव गौतमाग्निस्तस्याः संवत्सर एव समिदाकाशो षूमो, रात्रिरर्च्चिर्दिशोऽङ्गारा, अवान्तरदिशो विस्फुलिङ्गाः ।तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्नंसम्भवति पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्, प्राणो धूमो, जिह्वाऽर्च्चिश्चक्षुरङ्गाराः, श्रीत्रं विस्फुनिङ्गाः ।तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुतेरेतःसम्भवति योषा वाव गौतमाग्निस्तस्या उपस्थ एवसमिद्यदुपमन्त्रयते धूमो, योनिरर्च्चिर्यदन्तः करोति ते-ऽङ्गारा, अभिनन्दा बिस्फुलिङ्गाः तस्मिन्नेतस्मिन्नग्नौदेवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति इतितु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति उलबावृतोगर्भो दश वानव वा मासानन्तः शयित्वा यावद्वाथ जायतेस जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एवहरन्ति यत एवेतो यतः सम्भूतो भवति” छा० उ० “असौवाव लोकोऽग्निर्हेगौतम! यथाऽग्निहोत्राधिकरणम् आ-हवनीयम् इह तस्याग्नेर्द्युलोकाख्यस्यादित्यएव समित्तेन हीद्धोऽसौ लोको दीप्यते अतः समिन्धनात् समि-दादित्यः रश्मयो धूमस्तदुत्थानात् समिधो हि धूमउत्तिष्ठति अहरर्चिः प्रकाशसामान्यात् आदित्यकार्य्यत्वाच्च चन्द्रमा अङ्गाराः अह्नः प्रशमेऽभिव्यक्तेःअर्चिषो हि प्रशमेऽङ्गारा अभिव्यज्यन्ते नक्षत्राणि वि-स्फलिङ्गाश्चन्द्रमसोऽवयवा इव विप्रकीर्ण्णत्वसामान्यात् ।तस्मिन्नेतस्मिन् यथोक्तलक्षणेऽग्नौ देवाः यजमानप्राणाअग्न्यादिरूपाः अधिदैवतं श्रद्धाम् अग्निहोत्राहु-तिपरिणामावस्थरूपाः सूक्ष्मा आपः श्रद्धाभाविताःश्रद्धा उच्यन्ते “पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती”त्यपां हौम्यतता प्रश्रे श्रुतत्वात् “श्रद्धा वा आपः श्रद्धामे-वारभ्य प्रणीय प्रचरन्तीति” विज्ञायते तां श्रद्धामब्रूपांजुह्वति तस्या आहुतेः सोमो राजा अपां श्रद्धाश-ब्दवाच्यानां द्युलोकाग्नौ हुतानां परिणामः सोमोराजा सम्भवति यथा ऋग्वेदादिपुष्परसा ऋगादिमधु-करोपनीतास्त आदित्ये यश आदिकार्य्यं रोहितादिरूप-लक्षणमारम्भन्त इत्युक्तम् तथेमा अग्निहोत्राहुतिसम-बायिन्यः सूक्ष्माः श्रद्धाशब्दवाच्या आपोद्युलोकमनुप्र-विश्य चान्द्रं कार्य्यमारभन्ते फलरूपमग्निहोत्राहुत्योः ।यजमानाश्च तत्कर्त्तार आहुतिमया आहुतिभावना-भाविता आहुतिरूपेण कर्म्मणाऽऽकृष्टाः श्रद्धाप्समवायिनोद्युलोकमनुप्रविश्य सोमभूताभवन्ति तदर्थं हि तैरग्नि-होत्रं हुतम् आहुतिपरिणाम एव पञ्चाग्निसम्बन्धक्र-मेण प्राधान्येन बिवक्षित उपासनार्थम् यजमानानांगतिम् तां त्वविदुषां धूमादिक्रमेणोत्तरत्र वक्ष्यति वि-दुषाञ्चोत्तरां विद्याकृताम् द्वितीयहोमपर्य्यायार्थमाह ।पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्योनाम वृष्ट्यु-पकरणाभिमानी देवताविशेषः तस्य वायुरेव समित्, बायुना हि पर्जन्योऽग्निः समिध्यते पुरोवातादिप्रा-बल्ये वृष्टिदर्शनात् अभ्रं धूमो, धूमकार्य्यत्वाद्धूमवच्चलक्ष्यमाणत्वात् विद्युदर्चिः प्रकाशसामान्यात् अश-निरङ्गाराः काठिन्यात् विद्युत्सम्बन्धाद्वा ह्रादुनयोविस्फुलिङ्गाः ह्रादुनयो गर्जितशब्दाः मेघानां वि-प्रकीर्णत्वसामान्यात् तस्मिन्नेतस्मिन्नग्नौ देवाः पूर्ववत् सोमंराजानं जुह्वति अस्या आहुतेर्वर्षं सम्भवति श्र-द्धाख्या आपः सोमाकारपरिणता द्वितीये पर्य्याये पर्जन्या-ग्निं प्राप्य वृष्टित्वेन परिणमन्ते पृथिवी वाव गौतमा-ग्निरित्यादि पूर्ववत् तस्याः पृथिव्याख्यास्याग्नेः संवत्-सर एव समित् संवत्सरेण हि कालेन समिद्धा पृथिवीव्रीह्यादिनिष्पत्तये भवति आकाशो धूमः पृथिव्या इवो-त्यित आकाशो दृश्यते यथाऽग्नेर्धूमो, रात्रिरर्चिः, पृथिव्याह्यप्रकाशात्मिकाया अनुरूपा रात्रिः तमीरूप-त्वात् अग्नेरिवानुरूपमर्चिः दिशोऽङ्गारा उपशान्तत्वसा-मान्यात् अवान्तरदिशो विस्फुलिङ्गाः क्षुदत्वसा-मान्यात् तस्मिन्नित्यादि समानम् तस्या आहुतेरन्नंव्रीहियवादि सम्भवति पुरुषो वाव गौतमाग्निः तस्यवागेव समित् वाचा हि मुखेन समिध्यते पुरुषो मूकः ।प्राणो धूमो धूम इव मुखान्निर्गमनात् जिह्वार्चिर्लो-हितत्वात् चक्षुरङ्गारा भास आश्रयत्वात् श्रोत्रं वि-स्फुलिङ्गाः विप्रकीर्ण्णत्वसाम्यात् समानमन्यत् अन्नंजह्वति व्रीह्यादि संस्कृतम् तस्या आहुते रेतः स-म्भवति योषा वाव गौतमाग्निः तस्या उपस्थ एवसमित् तेन हि सा पुत्त्राद्युत्पादनाय समिध्यते ।यदुपमन्त्रयते धूमः स्त्रीसम्भवादुपमन्त्रणस्य ।योनिरर्च्चिर्लोहितत्वात् यदन्तः करोति तेऽङ्गारा अ-ग्निसम्बन्धात् अभिनन्दाः सुखलवा विस्फुलिङ्गाःक्षुद्रत्वात् तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्याआहुतेर्गर्भः सम्भवतीति एवं श्रद्धासोमवर्षान्नरेतोह-वनपर्य्यायक्रमेणाप एव गर्भीर्भूतास्ताः तत्रापामाहुति-समवायित्वात् प्राधान्यविवक्षा आपः पञ्चम्यामाहुतौपुरुषवचसो भवन्तीति नत्वाप एव केवलाः सोमादिका-र्य्यमारभन्ते चापोऽत्रिवृत्कृताः सन्तीति त्रिवृ-त्कृतत्वेऽपि विशेषसञ्ज्ञालाभो दृष्टः पृथिवीयमिमाआपोऽयमग्निरित्यन्यतमबाहुल्यनिमित्तः तस्मात्समु-दितावभृतानि बाहुल्यात्कर्म्मसमवायीनि सोमादिकार्य्या-रम्भकाण्याप इत्युच्यन्ते दृश्यते द्रवबाहुल्यं सोम-वृष्ट्यन्नरेतोदेहेषु बहुद्रवञ्च, शरीरं यद्यपि पार्थिवं तत्रपञ्चम्यामाहुतौ हुतायां रेतोरूपा आपो गर्भीभूताः ।इति तु एवन्तु पञ्चम्यामाहुतावापः पुरुषचचसो भवन्तीतिव्याख्यात एकः प्रश्नः यत्तुद्युलोकादीनां प्रत्यावृतयोरा-हुत्योः पृथिवीं पुरुषंऽस्त्रियं क्रमेणाविश्य लोकं प्रत्युत्थायीभवतीति वाजसनेयके उक्तं तत्प्रासङ्गिकमिहोच्यते इहच प्रथमे प्रश्न उक्तं वेत्थ यदितोऽधि प्रजाः प्रयन्तीति ।तस्य चायमुपक्रमः गर्भोऽपां पञ्चमः परिणामविशेषःआहुतिकर्म्मसमवायिनीनां श्रद्धाशब्दावाच्यानाम्, उलबा-वृत उल्बेन जरायुणाऽऽवृतो वेष्टितो दश वा नव वामासानन्तर्मातुः कुक्षौ शयित्वा यावता कालेन न्यूनेना-तिरिक्तेनानन्तरं जायते उल्बावृत इत्यादिवैराग्यहे-तोरिदमुच्यते कष्टं हि मातुः कुक्षौ मूत्रपुरीष-वातपित्तश्लेष्मादिपूर्ण्णे तदनुलिप्तस्य गर्भस्योल्बाऽशुचि-पूयावृतस्य लोहितरेतोऽशुचिवीजस्य मातुरशितपीतर-सानुप्रवेशेन विवर्द्धमानस्य निरुद्धशक्तिबलवीर्य्य-तेजःप्रज्ञाचेष्टस्य शयनम् ततो यीनिद्वारेण पीड्य-मानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राह-यति मुहूर्त्तमप्यसह्य दश वा मासानतिदीर्घकालमन्तःशयित्वेति एवं जातो यावदायुषं पुनर्घटीयन्त्रवद्ग-मनागमनाय कर्म्मकुर्व्वन् कुलालचक्रवद्वा तिर्य्यग्भ्रमणाययावत्कर्मणोप्रात्तमायुस्तावज्जीवति तमेवं क्षीणायुषंप्रेतं मृतं दिष्टऽ कर्मणा निर्द्दिष्टं परलोकं प्रति यदिचेज्जीवन् वैदिके कर्मणि ज्ञाने वाधिकृतस्तमेनं मृतमितोऽस्माद्ग्रामादग्नयेऽग्न्यर्थमृत्विजो हरन्ति पुत्रा वान्त्यकर्मणे, यत एव इत आगतोऽग्नेः सकाशाच्छ्रद्धाद्याहुतिक्रमेण, यतश्च पञ्चभ्योऽग्निभ्यः सम्भूत उत्पन्नो भवति तस्मा एवा-ग्नये हरन्ति स्वामेव योनिमग्निमापादयन्तीत्यर्थः” भा० ।एवं चन्द्रभावप्राप्तिप्रकारगुक्त्वा तत्प्राप्त्यनुगुणं कर्मभेदंप्रदर्श्य तत्र गतिप्रकारमाह “अथ इमे गृहस्थाःग्राम इष्टापूर्त्तेदत्तमित्युपासते ते धूममभि सम्भवन्ति, धूमाद्रात्रिं, रात्रेरपरपक्षम्, अपरपक्षाद्यान् षड्दक्षिणैतिमासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति, मासेभ्यः पितृलोकं, पितृलोकादाकाश, माकाशाच्चन्द्रमसमेष सोमो राजा तद्दे-वानामन्नं तं देवा भक्षयन्ति तस्मिन् यावत्सम्पातमुषि-त्वाऽथैतमध्यानं पुनर्निवर्त्तन्ते” छा० उ० “अथेत्यर्थान्तरप्रस्तावनार्थो इमे गृहस्थाः ग्राम इति गृहस्थानाम-साधारणं विशेषणमरण्यवासिभ्यो व्यावृत्त्यर्थम् यथावानपस्थपरिव्राजकानामरण्यं विशेषणं गृहस्थेभ्यो व्यावृ-त्त्यर्थं तद्वत् इष्टापूर्त्तेइष्टभग्निहोत्रादि वैदिकं कर्मपूत्तं वापीकूपतडागारामादिकरणम् दत्तं बहिर्वेदियथाशक्त्यर्हेभ्यो द्रव्यसम्भागो दत्तम् इत्येवंविधं परिचरण-परित्राणाद्युपासते इतिशब्दस्य प्रकारदर्शनार्थत्वात् ।ते दर्शनवर्जितत्वाद्धूमं धूमाभिमानिनीं देवतामाभिमु-ख्येन सम्भवन्ति प्रतिपद्यन्ते तयाऽतिवाहिता धूमा-द्रात्रिं रात्रिदेवतां, रात्रेरपरपक्षदेवताम्, एवमेव कृषणपक्षा-भिमानिनीम्, अपरपक्षाद्यान् षण्मासान् दक्षिणा दक्षिणांदिशमेति सविता तान्, मासान् दक्षिणायनान् षण्मा-साभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः सङ्घचारिणीहि षण्मासदेवता इति मासानिति बहुवचनप्रयोगस्तासु ।नेते कर्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिनींदेवतामभिप्राप्नुवन्ति कुतः पुनः संवत्सरप्राप्तिप्रसङ्गोयतः प्रतिषिध्यते अस्ति हि संवत्सरस्य प्रसङ्गोह्ये-कस्यावयवभूते दक्षिणोत्तरायणे तत्रार्चिरादिमार्गप्रवृ-त्तानामुदगयनमासेभ्योऽवयविनः संवत्रस्य प्राप्तिरुक्ता ।अत इहापि तदवयवभूतानां दक्षिणायनमासानां प्राप्तिश्रुत्या तदवयविनः सवत्सरस्यापि पूर्ववत्प्राप्तिरापन्नेत्यत-स्तत्प्राप्तिः प्रतिषिध्यते नैते संवत्सरमभिप्राप्नुवन्तीति ।मासेभ्यः पितृलोकं, पितृलोकादाकाशमाकाशाच्चन्द्रमसम् ।कोऽसौ यस्तैः प्राप्यते चन्द्रमा एष दृश्यतेऽन्तरिक्षे सोमोराजा ब्राह्मणानां तदन्नं देवानां तं चन्द्रमसमन्नं देवताइन्द्रादयो भक्षयन्ति अतस्ते धूमादिना गत्वा चन्द्रभूताःकर्मिणो देवैर्भक्ष्यन्ते नन्वनर्थायेष्टादिकरणं यद्यन्नभूतादेवैर्भक्ष्येरन्, नैष दोषः अन्नमित्युपकरणमात्रस्य विव-क्षितत्वात् हि ते कवलोत्क्षेपेण देवैर्भक्ष्यन्ते, किंतर्ह्युपकरणमात्रं देवानां भवन्ति ते, स्त्रीपशुभृत्यादि-वत् दृष्टश्चान्नशब्द उपकरणेषु स्त्रियोऽन्नं पशवोऽन्न रा-क्षामित्यादि तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति तस्मात्कर्मिणो देवतानामुपभोग्या अपिसन्तः सुखिनो देवैः क्रीडन्ते शरीरञ्च तेषां सुखीप-भोगयोग्यं चन्द्रमण्डले आप्यमारभ्यते तदुक्तं पुरस्ता-च्छ्रद्धाशब्दा आपोद्युलाकाग्नौ हुताः सोमो राजा स-म्भवतीति ता आपः कर्मसमवायिन्य इतरैश्च भूतैरनुगताःद्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्यु-पासकानां भवन्ति अन्त्यायाञ्च शरीराहुतावग्नौ हु-तायामग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन स-होर्द्ध्वं यजमानमावेष्ट्य चन्द्रमण्डल प्राप्य कुशमृत्तिका-स्थानीया बाह्यशरीरारम्भिका भवन्ति तदारब्धेन श-रीरेणेष्टादिफलमुपभुञ्जाना आसते यावत्तदुपभोगनिमित्तस्यक्षयः कर्मणः सम्पतन्ति येनेति सम्पातः कर्मणः क्षयो या-चत्सम्पातं यावत्कर्मणः क्षय इत्यर्थः तावत्तस्मिंश्चन्द्रमण्डलेउषित्वा अथाऽनन्तरमेतमेव वक्ष्यप्राणमध्वानं मार्गम् पुन-र्निवर्त्तन्त इति प्रयोगात्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृ-त्ताश्चासन्निति गम्यते तस्मादिह लोके इष्टादिकर्मोपचित्यचन्द्रं गच्छन्ति तत्क्षये चावर्त्तन्ते क्षणमात्रमपि तत्रस्थातुं लभ्यते स्थितिनिमित्तकर्मक्षयात् स्नेहक्षया-दिव प्रदीपस्य किं तत्र येन कर्मणा चन्द्रमण्डलमारूढ-स्तस्य सर्वस्य क्षये तस्मादवरोहणं किं वा सावशेष इति ।किन्ततः यदि सर्वस्यैव क्षयः कर्मणश्वन्द्रमण्डलस्थस्यैवमोक्षः स्पात् वेति तत आगतस्येह शरीरोपभोगादि नसम्भवति ततः शेषेणेत्यादिस्मृतिविरोधश्च स्यात् नन्विष्टा-पूर्त्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानिकर्माण्यनेकानि सम्भवन्ति तेषां चन्द्रमण्डल उप-भोगः अतः क्षीणानि यन्निमित्तं चन्द्रमारूढास्तान्येवक्षीणानीत्यविरोधः शेषशब्दश्च सर्वेषां कर्मत्वसामान्याद-विरुद्धः” भा० एवं चान्द्रायणादिकं तत्प्राप्तिहेतुः