इदावत्सर (idAvatsara)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wilson
EnglishMonier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritइदावत्सर इदाचिह्नितः वत्सरः । वत्सरपञ्चकान्त-र्गते वत्सरभेदे तदानयनप्रकारो यथा “शकाङ्कात् पञ्च-भिःशेषात् समाद्याद्यास्तु वत्सराः । सपरीदानुपूर्व्यास्तेतथोदापूर्व्वका मताः” ज्यो० तथा च एकाङ्के शिष्टे सवत्सरः, द्व्यङ्के परिवत्सरः, त्र्यङ्के इदावत्सरः, चतुरङ्के अनुवत्सरः, पञ्चाङ्के शिष्टे उदावत्सरः । तेषां फलन्तु मल० त० विष्णु-ध० । “संवत्सरे तथा दानं तिलस्य तु महाफलम् । परि-पूर्व्वेतथा दानं यवानाञ्च द्विजोत्तम! । इदापूर्व्वेऽन्नव-स्त्राणां धान्यानाञ्चानुपूर्व्वके । उदासंवत्सरे दानं रजतस्यमहाफलम्” उदावत्सरस्थाने इद्वत्सरोऽपि “परिवत्स-रोऽसीदावत्सरोऽसीद्वत्सरोऽसि” राज० श्रु० “नभोमण्डलंसह द्यावापृथिव्योर्मण्डलाभ्यां कात्र्स्न्येन सह भुञ्जीत तंकालं लवत्सररं परिवत्सरमिदावत्सरमनुवत्सरमुद्व-त्सरमिति भानोर्मान्द्यशैघ्य्रसमागतिभिः समामननन्ति”भाग० ५ स्क० । “मण्डलाभ्यां चन्द्रार्कमण्डलाभ्यां सह-भुञ्जीतेति तेन यदा सूर्य्यस्य शुक्लप्रतिपदि संक्रान्तिर्भवतितदा सौरचान्द्रयोर्मासयोर्युगपदुपक्रमो भवति स संवत्स-रः । ततः सौरमानेन वर्षे षट् दिनानि वर्द्धन्ते चान्द्र-मानेन च षट् ह्रसन्तीति द्वादशदिनव्यवधानादुभयोरग्रप-श्चाद्भावो भवति एवं पञ्च वर्षाणि गच्छन्ति तत्र द्वौ मल-मासौ भवतः । ततः पुनः षष्ठः संबत्सरः” श्रीधरः ।तथा च समकालारब्धसौरचान्द्रमासयुक्तोबत्सरःसंवत्सरःचान्द्रसौरमासयोरारम्भे समत्वपरिवर्ज्जितमासारब्धोवत्सरः परिवत्सरः । इद् इत्थं परिवत्, आरम्भेसमत्वपरिवर्ज्जनवत्त्वेऽपि अन्ते तयोः समत्वस्यागतिमान्वत्सरः इदावत्सरः । अनुगतः सौरसंक्रान्तिं चान्द्रो-मासो यत्र तादृशोवत्सरः अनुवत्सरः । अस्य वर्षस्या-सक्रान्तमासशून्यतया संक्रान्त्यनुगतचान्द्रमास घटितत्वेनतथात्वम् । उत्क्रान्तो रविसंक्रान्तिं चन्द्रमासोऽत्र पुनःसमकालारम्भागतिमांश्च योवत्सरः स उदावत्सरः । अ-स्येव इद्वर्षत्वं चान्द्रसौरयोर्मासयोरारम्भेसमकालप्राप्त्यैव ।एवमेषामन्वर्थकता द्रष्टव्या । पञ्चमवर्षे मलमासद्वय-पातकथनभपि “पञ्चमे षञ्चमे वर्षे द्वौ मासावधिमासकौ ।तेषां कालातिरेकेण ग्रहाणामतिचारतः” एतच्च प्रायिकं“द्वात्रिंशद्भिर्गतैर्मासैः दिनैः षीडशभिस्तथा । घटिकानांचतुष्केण पतति ह्यधिमासकः” काल० धृतसिद्धान्तवाक्यात्तेन प्रागुक्तभारतवाक्यं “मलमासः स विज्ञेयोमासेत्रिंशत्तमे भवेदिति” काठकगृह्यवाक्यञ्च ज्योतिःशास्त्रो-क्तमध्यमानमाश्रित्यैव । सिद्धान्तवाक्यं तु स्फुटमानमा-श्रित्येत्यनयोरविरोधः । एवमेव माधवादयः
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
