इण् (iN)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaइण् - गतौ (अदा० पर० सक० अनि०) एति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಹೋಗು
प्रयोगाः - > "अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः"
उल्लेखाः - > भा०
इण् - गतौ (अदा० पर० सक० अनि०) एति ।
पदविभागः - > धातुः
कन्नडार्थः - > ತಲುಪು /ಸೇರು
इण् - गतौ (अदा० पर० सक० अनि०) एति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಪಡೆ /ಹೊಂದು
धातुपाठः (Krishnacharya)
Sanskrit इ
इण्
गतौ
अदादिः
सकर्मकः
अनिट्
परस्मैपदी
एति
धातुप्रदीपः
Sanskritइण् गतौ
- एति । इतः । यन्ति । इयाय । ईयतुः । ईयुः । अगात् । गमयति । आययति । जिगमिषति । इषिषति । इत्यः इति अयं परस्मैभाषः । परस्मैपदी इकारान्तोऽयम् । इकः पूर्वेण वा परेण वा निर्द्देष्टव्ये पृथगस्य परस्मैपदिनो निर्द्देश इङकोर्भेदार्थः । तौ ह्यधिपूर्वकावेव प्रयुज्येते । अयन्तु । केवलोऽन्योपसर्गपूर्वोऽपि ।। 36 ।।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritइण् णित् इङोभेदार्थम् अदा० अनिट् । एतिइतःयन्ति । इयात् इहि ऐत् आयन् अगात् इयायईयतुः ईयुः इययिय इयेथ ईयिव । एता एष्यति ऐष्यत्एतव्यम अयनीयम् इत्यम् । एता, आयकः इतः इतिःअयनम् अयः आयःऽयन् ईयिवान् ईयुषी । इत्याइत्वा उपेत्य । “स्तनयन्नेति नानदत्” ऋ० १, १४०, ५, “इतः स्म मैत्रावरुणौ किमेतौ?” भट्टिः “अहञ्च भाष्य-कारश्च कुशाग्रीयधियावुभौ, नैव शब्दाम्बुधेः पारम्”कलापप० “एमीदेषां निष्कृतं जारिणीव” ऋ० १०, ३४, ५, “आयन्नापोऽयनमिच्छमानाः” ऋ० ३, ३३, ७, “अगात्सराजं जलमभ्ययोध्यम्” “ईयुर्भरद्वाजमुनेर्निकेतम्”“तत्पृष्ठतः प्रष्ठमियाय नम्रः” भट्टिः “सुवृद्रथोवर्त्तते यन्”ऋ० १, १८३, २ “यन्ति वा आप एत्यादित्य एति चन्द्रमायन्ति नक्षत्राणि” शत० ब्रा० ११, ५, ७, १० “मामेवैष्यत्यसंशयम्” “मामेवैष्यति कौन्तेय!” इति च गीता “अपी०दानीं स घर्म्मात्मा इयान्मेदर्शनम् रहः” भा० आ० ८२ अ०कर्म्मणि ईयते “इन्द्रोमायाभिः पुरुरूपईयते” श्रुतिः“वनितयाऽनितया” रजनीवधूः” रघुःअति + अतिक्रमे “नात्येति “सकृदाहृता” स्मृतिः “षड-शीतिमुखेऽतीते” “अतीते चोत्तरायणे” स्मृतिः “अथ चेत्पञ्चमीं रात्रिमतीत्य परतोभवेत्” शुद्धित० स्मृतिः अभि +अति + आभिमुख्येनातिक्रमे “योऽस्य स्वर्गोंलोकोऽ-र्जितोभवेत् तमभ्यत्येति” शत० ब्रा० १२, ५, २, ८, ।वि + अति + विशेषेणातिक्रमे “व्यतीतकालस्त्वहमभ्युपेतः”अधि + चिन्तने गत्यर्थस्य प्राप्त्यर्थत्वात् ज्ञानार्थनाच्च लाभेज्ञाने च । इकवत्अनु + अनुगमने । “आदित्यं वा अस्तंयान्तमन्ये देवाअनुयन्ति” शत० ब्रा० ११, ६, २, ४ । “श्रुतान्वितो दशरथइत्युदाहृतः” भट्टिः सन्ततसम्बन्धे अग्वयः “तदन्वयेशुद्धिभति” रघुः शाब्दबोधोपयोगिसम्बन्धभेदे च ।“साकाङ्क्षशब्दैर्यो बोधस्तदर्थान्वयगोचरः “शब्दशक्ति०सम + अनु सम्यगऽन्वये । “तत्तुसमन्वयात्” पा० सू० ।अन्तर् + अन्तर्गतौ अन्तरायः अन्तरेति इड् शब्दे ९१९ पृ० उदा०अप + अपगमने अपसरणे अक० “अनुपेतमपेतकृत्यम्” भाग०“ध्रुवमपायेऽपादानम्” “अपाये यदुदासीनम्” भर्त्तृह०“सत्वे निविशतेऽपैति” भाष्यका० वि + विशेषेण विगमे“व्यपैति ददतः स्वधा” स्मृतिः “स्मृत्याचारव्यपेतेन मार्गेणा-धर्षितः परैः” या० स्मृतिः ।अपि + प्राप्तौ “स्वमपीतो भवतीति स्वपितीत्याचते” श्रुतिः “पञ्च नद्यः सरस्वतीमपियन्ति सस्रोतसः” वाज़्लये अक० अप्ययः अपीतिः “अपीतौ दर्शनात्” “स्वाप्य-यात्” शा० सू०अभि--आमिमुख्येन गतौ “देहान् यथेष्टमभ्येति हित्वे-मां मानुषीं तनुम्” अभि + उप + आभिमुख्येन प्राप्तौ ।“व्यतीतकालस्तहमभ्युपेतः” रघुः “यच्चेतसा न गणितं तदि-हाभ्युपैति” उद्भटः स्वीकारे “अभ्युपेत्य चसुश्रूषाम्” स्मृतिःअव--अवगमे, ज्ञाने, “अवैमि ते सारमतः खलु त्वाम्”कुमा० । अधोगतौ अक० । अनु + अव + सन्ततसम्बन्धे । अन्व-वायः । वि + अव + व्यवधाने “गार्हपत्याहवनीयौ न व्यवे-यात्” कात्या० १, ८, २ ३ । “नान्तरा यज्ञाङ्गानि व्यवे-यात्” श्रुतिः “अनुमत्या व्यवेयात्” स्मृतिः स्त्रीपुंसयोः संभो-गार्थव्यापारे व्यवायः । सम् + अव + सम्यक्सम्बन्धे अयुतसिद्ध्व-रूपसंबन्धे । स चावयवावयविनोः, गुणगुणिनोः, क्रिया-क्रियावतोः जातिव्यक्त्योश्च सम्बन्धः । समवेतः समवायः ।“संयुक्तसमवायतः तत्रापि समवेतानाम्” भाषा० ।सम्बन्धमात्रे च “एते ह वै रात्री सर्व्वारात्रयः समवयन्ति”शत० ब्रा० ११, १, ७, ४, सांहत्ये, “सेनायां समवेताये सैन्यास्ते”अमरः “धर्म्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः” गीता ।आ--आगमने । “पञ्चालनां समितिमेयाय” “स्तब्ध-एयाय” तस्माल्लोकात् पुनरैत्यस्मै लोकाय” छा०उ० “यूनः स्थविरआयति” मनुः अनु + आ + सम्यग्गमनेसक० । अभि + आ + अभ्यागमने आभिमुख्येनागतौ“गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम्” भा० अनु०२६ अ० । उद् + आ + उद्गमने । उप + आ । समोपागमने ।प्रति + आ + प्रत्यागमने “प्रत्यायत्यां रात्रौ” शत० ब्रा० २, ३, ४०३ । “नैनमेते रश्मयः प्रत्यायन्ति” शत० ब्रा० १४, ८, ६, ३ ।उद्--उद्गतौ अक० । “उदेति सविता ताम्रस्ताम्र एवास्तमेतिच” सा० द० । उदयः । उत्क्रमणे अक० । उदेतिहवै सर्वेभ्यः पाप्मभ्योय एवं वेद” छा० उ० । अभि +उद् + आभिमुख्येनोद्गतौ “किञ्चिदभ्युदिते रवौ” म० त० ।प्रति + उद् प्रत्युद्यानेन गतौ “प्रत्यदियाय पार्व्वती” कुमा०सम् + उद् सम्यगुदये “यषादित्यःसमुद्यन् वै तमः पूर्व्वं व्यपो-हति” भा० व० २०६ अ० । “एककार्य्यसमुद्यन्तौ कृष्णौयुद्धेऽपराजितौ” भा० सभा० १ अ० । सांहत्ये च समुदयःउप + समीपगमने प्राप्तौ च “उपेयुषां मोक्षपथं मनीषिणाम्”माघः “योगो परं स्थानमुपैति दिव्यम्” गीता उपायःदुर + दुर्गमे ।निर्--निर्गमने । “र्नियदन्त्रविभूषितम्” दुर्गाध्यानम् । निरगाच्छत्रुहस्तं त्वम्” भट्टिःपरा--प्रेतभावप्राप्तौ परेतः । पलायने च “यः परैतिस जीवति” प्रतिपत्तौ “नैव श्रेयो धार्तराष्ट्रः परैति”भा० वन० ५ अ० ।परि--व्याप्तौ परीतः “पवित्रं पर्य्योषि विश्वतः” ऋ० ७, १०६, १४, परिक्रमणे “प्रदक्षिणमग्निं परीत्य” गृह्य० ।परिपाठ्याम् पर्य्यायः “जिह्वा पर्य्येति मे सुखम्” भा०आदि० १५२ अ० ।अनु + परि + परिपाट्या अनुगमने “संवत्सर एतदृतवोऽनुपरियन्ति” अथ० १५, १७, ८ ।आ + परि अभिमुख्येनव्याप्तौ वि + परि + व्युत्क्रमप्राप्तौविपर्य्ययः “विपर्य्ययन्तौ वा एतावग्निं भवतः” शत०७, २, १, १५ । “विपरीतमतोन्यथा” ज्योति० । “निमित्तानिच पश्यामि विपरीतानि केशव!” गीताप्र + परलोकगतौ अक० प्रेतः “प्रेत्य संज्ञास्ति” कठो०अपगतौ च “तस्मात्तदातृण्णात् प्रैति रसः” वृह० उ० ।प्रकर्षेण गतौ “प्रयन्ति सर्ववीजानि रोप्यमाणानिचैव ह” भा० व० १९१ अ० ।अभि + प्र + अभिलाषे “कर्मणा यमभिप्रैति स सम्प्रदानम्”पा० अभिप्रायः “अभिप्रेतार्थसिद्धिर्मङ्गलम्” रघु० ।प्रति + प्रतिगमने “सरस्ततोद्वैतवनं प्रतीयुः” “राज्ञः प्रती-याय गुरोः सकाशम्” रघुः प्रतीयुषा पूर्ददृशे जनेन”भट्टिः । ज्ञाने प्रत्ययः प्रतीतिः । “उच्चावचा जान-पदधर्मा ग्रामधर्माश्च तान् विवाहे प्रतीयात्” आश्व०प० “सर्वोह्यात्मास्तीति प्रत्येति न नाहमस्मीति” “सर्वो-लोको नाहमस्मीति प्रतीयात्” शा० भा० “कलहंसमालाःप्रतीयिरे श्रोत्रसुखैर्निनादैः” भट्टिः । विख्यातौ “सोऽयंवटःश्यामैति प्रतीतः” रघुः “तं प्रतीतं स्वधर्मेण”मनुः “चतुबर्गफलप्राप्तिर्हि काव्यतः--प्रतीतैव” सा० द०विश्वासे “पतिः प्रतीतः प्रसवीन्मुखीं प्रियाम्” रघुः “बल-वदपि शिक्षितानामात्मन्यप्रत्ययं चेतः” “वलवदपि दूयमानंप्रत्यापयतीव मां हृदयम्” शकु० “ताः खचारित्रमुद्दिश्यप्रत्याययतु मैथिली” रघुः ।सम् + प्रति + सम्यग्ज्ञाने निश्चये सम्यग्विश्वासे च । “किं तत्कथंवेत्युपलब्धसंज्ञाविकल्पयन्तोऽपि न संप्रतीयुः” भट्टिः ।वि + विगमे करिष्ये “पितरः कामं “व्येतु वोमानसोज्वरः” भा०आ० ९६ अ० “अनुमानं द्विविधं वीतमवीतञ्च” सा० कौ०“वीतशोकभयो विप्रो ब्रह्मलोके महीयते” “नियतोवीतवत्सरः” मनुः । “वीतशोकभयक्रोधः” गीता ।सम् + सङ्गमे मेलने अक० “आप्यायस्व समेतु ते विश्वतः सोम!वृष्ण्यम्” ऋ० १, ९१, १६, “पार्थिवाःसर्वेसमीयुस्तत्र भारत!”भा० आ० १८० अ० “राक्षसौ हरियुग्माभ्यां समरायं सुमी-यतुः” “क्रिंनर्य्यो राक्षसैश्चैव समीयुर्मानुर्षैः सह” रामा०अभि + सम् आभिमुख्येन सम्यग्गतौ “तं जातमभिस-यन्ति देवाः” अथ ११, ५, २, णिचि अबोधने गमादेशः ।गमयति ते अजीगमत् त बोधनेतु प्रत्या(प)ययति ते प्रत्यापिपत्त--प्रत्यायियत् त । सनि अबोधने गमादेशःजिगमिषतिबोधे तु प्रतीयियिषति । उपसर्गस्थावर्ण्णात् परस्य गुण-भावेन एत्वं प्राप्तौ वृद्धिरेकादेशः । अवैति अवैमि उपैति ।
क्षीरतरङ्गिणी
Sanskritइण् गतौ
- एति एत्येधत्यूठ्सु (6189) इति वृद्धिः उपैति इतः इणो यण् (6481) यन्ति लिटि-दीर्घ इणः किति (7469) ईयुः एता एतेर्लिङि (7424) उपसर्गाद् ह्रस्वः-समियात् इणो गा लुङि (2445), गातिस्था (2477) इति सिज्लुक्, गापोर्ग्रहणेनेण्पिबत्योर्ग्रहणात् (द्र0 2477 वा0) अगात्, अगुः णौ गमिरबोधने (2446) गमयति, बोधने-प्रत्याययति सनि च (2447) जिगमिषति, बोधने अर्थान् प्रतीतिषति उपेयिवाननाश्वान् (32109) इत्युपेयिवान् एतिस्तुशासु (31109) इति क्यप्-इत्यः श्याद्व्यध (31141) इति णः-अत्यायः इण्नश्जि (32163) इति क्वरप् इत्वरः एरच् (3356) अन्वयः, समयः परिन्योर्नीणोर्द्यूताभ्रेषयोः (3337) घञ्-न्यायः परावनुपात्यय इणः (3338) तवाद्य पर्यायः, नेह विपर्ययः संज्ञायां समज (3399) इति क्यप् इत्या छन्दसीणः (उ0 12) उण्-आयुः किंजरयोः श्रिणः (उ0 14) ञुण्-जरायुः दुरीणे लोपश्च (उ0 220) इति रक् दूरम् एतेर्णिच्च (उ0 2118) इत्युसिः-आयुस् इण्सिदीङुष्यविभ्यो नक् (उ0 32) इनः इण्भीका (उ0 343)इति कन्-एकः हसिमृग्रिण्वा (उ0 386) इति तन्-एतो वर्णः इणः किद् (उ0 3153) इति भः-इभः अध्यायन्यायोद्याव (33122) इति न्यायः इण आगसि, (उ0 4198) इत्यसुन् नुट् च एनस् असुन् (द0 उ0 949) अयः शस्त्रम् इण आगोऽपराधे (उ0 4217 श्वेतः) आगस् रक् (द्र0 उ0 228) इरा समीणः (उ0 211) इति थक्-समिथः संगमः सानसिवर्णसि (उ0 4107) इतील्वलोऽसुरः कुवश्चड् दीर्घश्च, समीणः (उ0 492, 93) समीचः समुद्रः एतीत्येणो मृगः 33
धातुवृत्तिः
Sanskritइण् (अर्थः) गतौ
एतदादयो वच्यन्ताः परस्मैपदिनो ऽनुदात्ताः इङ्त्वात्मनेपदी "इणो गा लुङि'' इत्यादौ विशेषणार्थो णकारः ( एति इतः, यन्ति एषि एमि इवः, ) "इणो यण्'' इत्यजादौ किति यणादेशः ( उपैति ) "एत्येधत्यूठ्सु'' इत्येजादावेतौ वृद्धिः एवंच "ऐति स्म रामं पथि जामदग्न्य' इति भट्टिप्रयोगवद् "न पुनरेति गतं चतुरं वय'इत्यत्राप्यैतीति वृद्धिरेव पठनीया, "स चिन्तयत्येव भियस्त्वदेष्यति'इति, "हरत्यघं सम्प्रति हेतुरेष्यत' इत्यादयस्तु प्रयोगा भौवादिकस्यायतीत्यस्येङि पररूपे द्रष्टव्याः आ इतः (एतः उपेतः) इत्यत्र गुणस्यादिवद्भावेन प्राप्तामेत्येधतीति वृद्धिमन्तवद्भावेन प्राप्तम् "ओमाङोश्च'' इतिपररूपं परत्वाद्बाधते (इयाय ईयतुः ईयुः इययिथ इयेथ, इय, इयाय इयय ईयिव) किति परत्वाद् द्विर्वचनात्पूर्वम् "इणो यण्'' अकिति तूभाभ्यां परत्वादगुणवृद्धयोरयायौ एतयोः स्थानिवद्भावाद्यथायोगमेदैतोरिशब्दस्य वा द्विर्वचने किति "दीर्घ इणः किति'' इत्यभ्यासस्य दीर्घः तत्सामर्थ्यादुत्तरखण्डस्य पुनः प्रवर्त्तनाद्यणोऽन्तरङ्गत्वान्न सवर्णदीर्घोनाप्यभ्यासह्रस्वः अन्यत्रैचोऽभ्यासह्रस्वत्वे "अभ्यासस्यासवर्ण'' इतीयङ्, यकारस्य विधानसामर्थ्यान्न हलादिशेषः क्रादिनियमादिट् थलि भारद्वाजनियमाद्विकल्पः (एता, एष्यति, एतु, इतात्, इताम् यन्तु इहि, अयानि) "अवैहि मां किङ्करम्' इत्यत्रानेजादित्वादेतेरेत्येधतीत्यस्याप्रसङ्गाद्वृद्धिरवद्या, न चाङा श्लेषेणैजादित्वाद्वृद्धिः, यतस्तामन्तवद्भावेन"ओमाङोश्च'' इति पररूपं बाधत इत्युक्तम् ( ऐत् ऐताम् ) "आटश्च'' इत्यान्तरतम्यादैक्रारो वृद्धिः ( आयन् ) अत्रान्तरङ्गत्वाल्लादेशे ऽन्तिभावे ऽच्परत्वात् "इणो यण्'' इत्यस्य"असिद्धवदत्र'' इत्यसिद्धत्वात्पश्चादजादित्वेनाडागमः ( ऐहि, आयम् ) अत्रापि परत्वादगुणायादेशयोराठ्याकारो वृद्धिः ( इयात् इयाताम् इयाः, इयाम् इयाव ) आशिषि (ईयात्, ईयास्ताम्) "अकृत्सार्वधातुकयोः'' इति दीर्घः (समियात्, समियास्ताम्) इत्यादौ "एतेर्लिङि'' इत्युपसार्गात्परस्यैतेरार्द्धधातुके लिङि ह्रस्वत्वम् (अभाष्यात् प्रेयात्)इत्यादावेकादेशस्य ह्रस्वो न भवति, उपसर्गाभावात्, उपसर्गात्परस्यतिदीर्घस्याभावात् अन्तादिवद्भावश्चानस्त्युभयाश्रितत्वात् आ ईयात्, (एयात् समेयात्) इत्यात्रादिवद्भावादेकारस्यैतेर्दीर्घत्वे सम उपसर्गात्परत्वेऽप्यण इति तत्रानुवर्त्तनान्न ह्रस्वः अण्चेह सामर्थ्यात्पूर्वः, समीयादित्यादिप्रयोगस्तु ई गताविति भौवादिकस्य (अगात् अगाताम् अगुः अगाः, अगाम् अगाव) "इणो गा लुङि'' इति गादेशः "गातिस्था'' इति सिचो लुक् "आत'' इति "झेर्जुस्'' "उस्यपदान्तात्'' इति पररूपत्वम् अत्रात्रेयः-"न माङ्योगे'' इत्यत्रङित्तु माङपात्तस्तेनाङित्यपि माशब्दे सार्वकालिको लुडनुमीयत इति "मा वालिपथमन्वगा'इति, "मा निषाद प्रतिष्ठां त्वमागमः शाश्वतीः समा' इत्यादावागम उपपन्न इत्याह तदयुक्तम् "माङि लुङ्'' इति सार्वकालिकलुङो विधावपि ङित्तो ग्रहणादङिति तस्याभावादनर्थकं स्यात्, तथा च तत्र वृत्तिः मा भवतु मा भविष्यतीत्यङितो माशब्दस्य प्रयोग इति, किं च "न माङ्योग'' इति सानुबन्धकनिर्देशो भूतसामान्ये लुङि लङ्लृङोश्च माशब्दयोगे ऽडागमार्थः स्यादिति नैवापूर्वस्य लुङः कल्पकः स्यात् "अथ वा न धर्ममसुबोधसमयमवगात बालिशा' इति माघप्रयोगो "वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः'' इत्यवशब्दान्तलोपे द्रष्टव्यः कर्मणि ( ईयते अगायि) इत्यादि, स्यादिषु वा चिण्वद्भावे ( आयिष्यते, आयिषाताम् आयिषीष्ट आयिता ) अन्यदा ( एष्यते, अगासाताम्, एषीष्ट, एता ) लुङि चिण्वत्पक्षे चिण्विइटा परेण बाधाद् न गादेशः, सकृद्गतपरिभाषया च न पनुः प्रवर्तते इति केचित्, आत्रेयादयस्तु [ वधभावात्सीयुटि चिण्वद्भावो विप्रतिषेधेन ]इति वार्त्तिके तद्व्याख्याने भाष्यादौ च वधभावमेवाधिकृत्य विप्रतिषेधकथनाद्गादेशमाहुः (अगायिषाताम् ) इत्यादि, स्यादिषु चिण्वद्भावेन चिणि दृष्टो गादेशो न भवति चिणि दृष्टस्याङ्गाधिकारविहितस्यैव सोऽतिदेश इति, गादेशश्च केवलं चिणि दृष्टो न त्वङ्गाधिकारविहितः ( जिगभिषति, ) "सनि च' इत्यबोधनार्थस्य गम्यादेशः "गमेरिट् परस्मैपदेषु'' इत्यात्रास्यापि ग्रह इति सनः सकारादिप्रत्ययत्वादिडागमः अयं चेडागम आत्मनेपदेन समानपदस्य नेष्यते, अन्यत्र सर्वत्रेष्यत इति गच्छतावुक्तं, तेन कृत्यामि परस्मपैदलुकि च भवति ( जिगमिषति, जिगमिषांचकार, जिगमिषत्वम् ) इति भावकर्मणेर्लिट्यामि चात्मनेपदाभावादिडेव ( जिगमिषां बभूषे जिगमिषां चक्रे ) देवदत्तेनेति यत्तु पदशेषकारदर्शनं गम्युपलक्षणार्थे परस्मैपदग्रहणम्, तेन परस्मैपदेषु दृष्टस्य गमेरभावादात्मनेपदेगमिष्यतइतीङ्भवतीति तदपि गच्छतावेवं दूषितमितीटात्र न भवितव्यम तथा च "अज्झनगमांसनि'' इत्यत्र कैयटपदमञ्जर्य्योः (गमेरिङादेश्स्य ग्रहणम्] इति वार्तिके इङ्ग्रहणमिणिकोरप्युपलक्षणं, तेनेणिगादेशस्यापि भावकर्मणोरात्मनेपदइडभावे जिगांस्यत इति दीर्घो भवत्त्येवेति, अन्ये तु तत्रेङ्ग्रहणं नोपलक्षणमिति दीर्घत्वं नेच्छन्ति, जिगंस्यतइति यदायं गमिरादेशो ऽकर्मकः संपूर्वश्च (संजिगमिषति) वत्सो मात्रेति तदा "पूर्ववत्सनः'' इत्यतिदेशेन"समोगम्यृच्छि'' इत्यात्मनेपदं स्यादिति न मन्तव्यं, यतः प्रकृतौ दृष्टस्य सनन्तेतिदेशः, इह च सनमन्तरेण नैवास्य प्रयोग, जगुप्सतइतृयादौ तु सनमन्तरेण प्रकृतेरप्रयोगे "अवयवे कृतं लिङ्गं सामर्थ्यात्समुदायस्य विशेषकम्'' इत्यात्मनेपदमिति प्रागेवोक्तम् ( गमयति ) "णौ गमिरबोधन'' इति गमिरादेशः अमन्तत्वान्मित्त्वे "मितां ह्रस्व'' इति ह्रस्वः, बोधने तु नायमादेश इति (प्रत्याययति, प्रतीषिषति)इति भवतः अजादित्वाद् द्वितीयस्यैकाचः सनो द्विर्वचेने अभ्यासस्येत्वे उभयोरपि सकारयोरिण उत्तरत्वेन षत्वं प्रतीषिषन्तीत्यत्र सन्शपोकारयोरेकादेशस्यान्तवद्भावेन पूर्ववत्त्वेन ग्रहणेऽपि "अदभ्यस्तात्'' इति नादादेशः अभ्यस्तादङ्गादुत्तरस्य तद्विधानात् अत्र हि इकारादिः समुदायो ऽङ्गमिकारवर्जं चाभ्यस्तम् ( उपेयिवान् ) "उपेयिवाननाश्वाननूचानश्च'' इति लुङ्लङ्लिड्विषयस्य पाक्षिकस्य लिटो नित्यं क्वसुरिट् च निपात्यते अत्र हि क्रादिनियमात्प्राप्तादिटःपूर्वं नित्यात्वाद् द्विर्वचनमिति हरदत्तादयः कृतेऽपीटि द्विर्वचनं प्राप्नोत्यकृतेपीति नित्यत्वम् द्विर्वचने तु नेटः प्राप्तिः"वस्वेकाजात्'' इति कृतद्विर्वचनानामेकाचामेव क्रादिनियमादिट् क्वसाविति नियमादस्य च द्विर्वचनोत्तरकालमनकाच्त्वात् न च सवर्णदीर्घत्वमनकाच्त्त्चं शङ्क्यम् यत इह वसिति स्थिते सवर्णदीर्घात्परत्वाद्विशेषविहितत्वाच्च "दीर्घ इणः किति'' इत्यभ्यासस्य दीर्घेण भाव्यं, तद्विधानसामर्थ्याच्च पुनः सवर्णदीर्घो नैव प्रसतीत्यनेन च निपातनेन क्रादिनियमात्प्राप्तो "वस्वेकाजात्'' इति नियमादप्राप्त इट् प्रतिप्रसूयतइति ( उपेयुष ) इत्यादौ भसंज्ञायां "वसोः सम्प्रसारणम्''इति सम्प्रसारणे वलाद्यभावादिण् न भवति उपोपसर्गग्रहणमतन्त्रं, तेर ईयिवान् समीयिवानित्याद्यपि भवतीति वृत्तिकारादयः, पारायणिकास्तूपसर्गग्रहणस्य प्रयोजनमजन्तस्यान्यस्योपसर्गस्य निवृत्तिरित्याहुः ( इत्यः उपेत्यः ) "एतिस्तु'' इत्यादिना क्यपि तुक् उपेत्येत्यत्र "षत्वतुकोरसिद्ध'' इत्येकादेशस्यासिद्धत्वाद् हस्वाश्रयस्तुग् भवति उपेयमिति प्रयोगो भौवादिकस्य दैवादिकसस्य वा ऽचो यत्प्रत्ययेन न अभ्याशो अनभ्याशः, स गन्तव्यो यस्य सो ( अनभ्याशमित्यः ) "इत्ये वा नभ्याशस्य'' इति मुम् अत्येतीत्यत्यायः "श्याद्व्यध'' इत्यादिना णः ( अत्ययी, ) "जिदृक्षिविश्री'' इत्यादिनेनिः ( इत्वरः ) "इण्नश्जि'' इति क्वरप, ( इत्वरी ) स्त्रियां "टिड्ढाणञ्'' इति ङीप् ( न्यायः, ) "परिन्योर्नीणोर्द्यूताभ्रेषयोः'' इति घञ् अभ्रेषः पदार्थानामनपचारः, यथाप्राप्तकरणं, पर्यायः "परावनुपात्ययइण'' इति घञ् (अनुपात्ययः) क्रमप्राप्तस्यानतिपातः परिपाटी, अन्यत्र कालपर्यायः, "एरच्, '' ( इत्या )"संज्ञायां समज'' इत्यादिना स्त्रियां क्यप् ( इति ) बाहुलकात् क्तिन्नित्यात्रेयः, ( अयनम्, अन्तरयणम् ) "अतरदेश'' इत्यधिकृत्य "अयनं च'' इति णत्वम्, अन्तरउपसर्गत्वात् "कृत्यचः'' इति णत्वे सिद्धे वचनमिदं आदेशप्रतिषेधार्थम् नीयतेऽनेनेति ( न्यायः ) "अध्यायन्याय'' इति घञ् निपात्यते, "पुंसि संज्ञायां'' घापवादः न्यायादनपेतं ( न्याय्यं ) "धर्मपथ्यर्थन्यायादनपेते'' इति यत्, न्याये भवमपि (न्याय्यं, )दिगादित्वाद्यत् न्याये भवन्तस्य व्याख्यानं वा (नयायम्) ऋगयनादिपाठादणि "नय्वाभ्याम्''इत्यैजागमः न्यायमधीते वेत्ति वा (नैयायिकः) उक्थादित्वाठ्ठक् "नय्वाभ्याम्'' इत्यैजागमः ( आत्ययिकः, औपयिकः ) अत्ययोपायशब्दाभ्यां "विनयादिभ्यश्च'' इति स्वार्थे ठक् उपायशब्दस्य तु "उपायाद्ध्रस्वत्वं च'' इति ह्रस्वत्वमपि औपयिकशब्दः स्वभावादौचित्ये वर्तते, यथाकथञ्चिदियं व्युत्पत्तिरित्यात्रेयः "शिवमौपयिकं गरीयसीम्' इत्यपायामात्रेऽपि प्रयोगो दृश्यते ( प्रातरित्वा ) "अन्येभ्योऽपि दृश्यत'' इति क्वनिप् स्त्रियां ( प्रातरित्वरी ) "वनो र च'' इति ङीबरेफौ कान्तारमतीतः (कान्तारातीतः) "द्वितीयाश्रित'' इति तत्पुरुषः दुःखादपेतः ( दुःखापेतः ) "अपेतापोढ'' इति पञ्चमीतत्पुरुषः (एवम्) "इण्शीभ्यां वन्'' इति वन्प्रत्ययः चादित्वादसत्त्ववचनत्वान्निपातोऽव्ययम् (क्वेव भोक्ष्यसे) एवशब्दोऽसम्भावने, न क्वापि भेक्ष्यस इत्यर्थः [ एवे चानियोगे पररूपं वक्तव्यम् ] इति पररूपम् नियोगोऽवधारणम्, अनियोगस्ततोऽन्यः (समिथोऽग्निः) सङ्ग्रामश्च "समीण'' इति थक् ( आयुः, आयुषी )"एतेर्णिच्च'' इत्युसिप्रत्ययः, णित्त्वाद्वृद्धिः ( पुरुषायुषम्, द्व्यायुषम्, त्र्यायुषम् ) "अचतुर'' इत्यादिना आद्यस्य षष्ठीतत्पुरुषे, इतरयोः समाहारद्वन्द्वेऽच् निपात्यते तेन समासान्तरे न भवति पुरुषश्च आयुश्च पुरुषायुषी, द्वयोरायुः, त्रयाणामायुः, द्व्यायुस्त्र्यायुरिति ( आगः ) "इण आगोऽपराधे'' इत्यसुन्यागादेशोऽपराधे ( एतशः, ) चन्द्रादिः, ( एतशाः ) ब्राह्मणः "इणस्तशन्तशसुनौ'' इति तशन्तशसुनौ ( इभः ) "इणः कित्'' इति भन्प्रत्ययः कित्त्वान्न गुणः इभमर्हति ( इभ्यः ) दण्डादित्वाद्यत् ( एकः ) "हण्भी'' इत्यादिना कन् सङ्ख्यायामेकवचनान्तः मुख्यादौ त्वभिधेयवचनः, अयं सर्वनामा तत्कार्याणि जसि विभाषां वर्जयित्वा पूर्वशब्दवदिहात्युन्नेयानि, त्यच्छब्दवत्त्यदादिकार्याणि च "भवन्त्यनेके जलधरिवोर्मयः' इत्यत्र तत्पुरुषस्योत्तरपदार्थप्रधानत्वात् उत्तरपदस्य च तत्सङ्ख्यावाचित्वेन एकवचनान्तत्वाद्वहुवचनमनुपपन्नमिति "सेव्यतेऽनेकया सन्नतापाङ्गया' इतिवदेकवचनेन भाव्यम् अथैक शब्दस्य "द्व्येकयोः'', इत्यादिवत् वृत्तौ भावप्रधानत्वाद् न विद्यते एकत्वमेषामिति बहुव्रीहिणा "उद्यतैर्निभृतमेकमनेकैः' इतिवद्वहुवचनोपपत्तिः सिद्ध्यति बहुवचनम्, "न बहुव्रीहौ'' इति निषेधात्सर्वनामकार्यं शीभावो न सिद्ध्यति अथ वा एवं समर्थनीयः, एकशब्दो ऽसहायवचनः, अनेके सहाया इत्यर्थः तथा च योगपातञ्जले "एकं चित्तमनेकेषाम्' इति प्रयुज्यते ( ऐक्यम् ) ब्राह्मणादिपाठात् ष्यञ् ( एकतरः, एकतमः ) सर्वनामनी, "एकाच्च प्राचाम्'' इति द्वयोर्बहूनां च एकस्य निर्धारणे क्रमेण डतरज्डतमचौ विकल्पेन नपुंसकेस्वमोः "अद्ड्डतरादभ्यः पञ्चभ्य'' इत्यदडादेशे अमोऽपवादे डित्त्वाट्टिलोपे एकतमदिति भवति "एकतरशब्दत्त्वादडादेशो नेष्यते' इति भाष्यउक्तम् ( एकाकी, एककः, एकः ) "एकादाकिनिच्चासहाये'' इत्यसहायार्थादेकशब्दात् स्वार्थे कनाकिनिचौ आकिनिचश्च पक्षे लुक् (सकृद्भुङ्क्ते) "एकस्य सकृच्च'' इति क्रियागणने सकृदादेशः, सुच्प्रत्ययश्च, चकारस्स्वरार्थः, उक्तार उच्चारणार्थः, सकारस्य संयोगान्तलोपः स्वरादित्वादव्ययत्वात्सुपो लुक् ( एकधा ) भुङ्क्ते ( सूत्रम्) सङ्ख्याया विधार्थे धाप्रत्ययः (इति सूत्रम्) विधा प्रकारः, सामान्यस्य भेदको विशेषः अनिर्धारितसङ्ख्यस्य भोजनादेः एकत्वादिलक्षणे प्रकारे वर्त्तमानादैकादेशश्ब्दात्स्वार्थे धेति सूत्रार्थः अनेकमेकधा करोति "अधिकरणविचाले च'' इति धा स्वार्थे अधिकरणं द्रव्यं तस्य सङ्ख्यान्तरापादानमधिकरणविचालः, स चैकस्यानेकीकरणम्, अनेकस्यैकीकरणम् (ऐकध्यं) भुङ्क्ते करोति वा "एकाद्धो ध्यमुञन्यतरस्याम्'' इति ध्यमुञादेशः (एकशो) ददाति, एकैकं एकैस्मै वा ददातीत्यर्थः ( सूत्रम्) "सङ्ख्यैकवचनाच्च वीप्सायाम्'' (इति सूत्रम्) इति शस् अत्रैकवचनग्रहणं नियतरिमाणानां प्रस्थादीनां ग्रहणार्थम् कारकरूपार्थाभिधायिनः सङ्ख्यैकवचनाद् वीप्सायां गम्यमानायां वा शसिति सूत्रार्थः कारकग्रहणाद् एकैकस्य स्वमिति विवक्षायां शस् न भवति "नित्यवीप्सयोः'' इति द्विर्वचनं शसि न भवति, वीप्सायाः शसैवोक्तत्वादिति "सर्वस्य द्वे'' इत्यत्र भाष्यादौ स्थितम् ( ऐकस्यम् ) शसन्ताद् ब्राह्मणादित्वाद् ष्यञ् [ अव्ययानां भमात्रे ] इति टिलोपः एकैकशः पितृसंयुक्तानि' इत्यत्र शसः प्रायश इत्यादिवद् अत्यन्तस्वार्थिकत्वाद् वीप्साया अनभिधानाद् द्विर्वचनम् तथा च "सर्वस्य द्वे'' इत्यत्र भाष्यम् "यत्र च तद्धितेनानुक्ता वीप्सा भवति तत्र द्विर्वचनम्, तद्यथा एकैकशो ददाति' इति इदमेव भाष्यमत्यन्तस्य स्वार्थिकस्य शसो मूलम् यत्र द्विर्वचनं तत्र "एकम्बहुव्रीहिवत्'' इति बहुव्रीहिवद्भावात्सुपो लुक् एकान्नविंशतिः एकेन न विंशतिरित "तृतीया'' इति योगविभागात्समासः "एकादिश्चैकस्य चादुक्'' इत्येकशब्दात्परस्य नञः प्रकृतिभावः, एकस्य चादुगागमः एकस्या भावः एकत्वम् एकस्याः क्षीरं एकक्षीरम् "एकतद्धिते च'' इति तद्धिते उत्तरपदे च परे ह्रस्वः स्त्रीप्रत्ययस्य "लिङ्गविशिष्टग्रहणं एकशब्दस्य ह्रस्वत्वं प्रयोजयति' इति वृत्तिः ( एकैकं भोजयति ) "नित्यवीप्सयोः'' इति द्विर्वचने "एकं बहुव्रीहिवत्'' इति बहुव्रीहिवद्भावात्सुपो लुकि चित्रगुरित्यादिवत् पुनस्समासात्सुबुत्पत्तिः "न बहुव्रीहौ'' इति सर्वनामसंज्ञानिषेधोऽस्य न भवति, तत्र बहुव्रीहाविति वर्तमाने पुनर्बहुव्रीहिग्रहणं मुख्यबुव्रीहिपरिग्रहार्थमित्युक्त्वात्, अयं चातिदेशिको गौणो बहुव्रीहिः बहुव्रीहिवद्भावाद् "एकैकामाहुतिं' जुहोति' इत्यत्र "स्त्रियाः पुंवद्'' इत्युत्तरपदनिबन्धनः पुंवद्भावो भवति ननु सत्यसति वा पुंवद्भावे को विशेषः, यस्मादुभयथापि वृद्धिर्भविष्यति सत्यम्, अवग्रहे त्वस्ति विशेषः ( एकदा ) "सर्वैक'' इति दाप्रत्ययः ( एकपुरुषः ) "पूर्वकाल'' इति समासः पञ्चाम्राः, पूर्वेषुकामशमी, इत्यादौ "विशेषणं विशेष्येण'' इति समासे सिद्धे "दिक्सङ्ख्ये संज्ञायाम्'' इति पुनर्विधानात् संज्ञया अन्यत्र दिक्सङ्ख्योः विशेषणसमासाभावाद् एकशब्दस्य समासवचनम् अत एव एकवीर इत्यत्र "पूर्वकाल'' इत्यस्मात्परत्वात् "पूर्वापरप्रथम'' इत्यनेन समासेन भाव्यम्
ततश्च वीरशब्दस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वात् पूर्वनिपातः स्यादिति चोद्यमपि निराकृतम् तस्य त्ववकाशो वीरपुरुषादिः ( एतत् ) "एतेस्तुट् च'' इत्यदिप्रत्ययस्तुडागमश्च एष करीतीति, "त्यदादीनामः'' इति विभक्तावत्वे "तदोस्ससौ'' इति सौ तकारस्य सत्वे तस्य च षत्वे सोः "एतत्तदोस्सुलोपो ऽकोरनञ्समासे हलि''इति लोपः अकोरिति वचनाद् एषकः करोतीति साकच्के सुलोपो न भवति अनञितिवचनाद् अनेषः करोतीत्यत्रापि न सुलोपः अत्र अनञ्समासे इति प्रतिषेधादेव तदन्तस्यापि ग्रह इति परमैष करोतीत्यत्रापि सुलोपः त्यदाद्यत्वे "तदोस्सावनन्त्ययोः'' इति सत्वे च, त्यदादिप्राधान्ये तदन्तेपीष्येते
यदा त्वप्राधान्यं तदा न भवतः, अत्येतद्देवदत्त इति नपुंसके सोर्लुका लुप्तत्वादपि न भवतः अमो लुका लुप्तत्वादपि नात्वम् एषेत्यादौ विभक्तिनैरन्तर्येण भवदप्यत्वं"भस्त्रैषा'' इत्यादिनिर्देशात्तद्विघातस्य टापो निमित्तं भवति (एषका, एषिका) अकच्पक्षे "भस्त्रैषाजाज्ञाद्वास्वानञ्पूर्वाणामपि'' इति कात्पूर्वस्याकारस्य "प्रत्ययस्थाद्'' इति प्राप्तमित्वं निषिध्यते यद्यन्यत्र नञ् पूर्वाणामपीत्यपिशब्देन केवलानामन्यपूर्वाणां चायं निषेध उक्तः तथाप्येषाद्वे समस्ते न प्रेजयतः यतस्समासार्थायां विभक्तौ न त्यदाद्यत्वम्, "अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते' इति तेन समासाद्विभक्तावत्वे टापा भाव्यम् स चान्तर्वर्तिन्या विभक्त्या प्रत्ययलक्षणेन सुबन्तात्पर इति "प्रत्ययस्थात्'' इतीत्वस्यासुप इति निषेधादप्रसङ्गात् किं तन्निषेधेन त्यदादिकार्यं त्यच्छब्दवत् एतत्परिमाणमस्य ( एतावान्, ) "यत्तदेतेभ्यः परिमाणे वतुब्'' इति परिमाणिनि वतुप् "आ सर्वनाम्रः'' इत्यात्वम् "अत्वसन्तस्य'' इत्यसम्बुद्धौ सावुपधादीर्घत्वे नुमि हल्ङ्यादिसंयोगान्तलोपौ ( अतः, अत्र ) "एतदोश्'' इति प्राग्दिशीयेःऽशादेशः अत्र एतद इति योगविभागः, तत्र"एतेतौ रथोः'' इत्यनुवृत्त्या रेफथकाराद्योः प्रत्यययोः यथासङ्ख्यमेत इत इत्येतावादेशौ भवतः, (एतर्हि इत्थमिति) तत्र र्हिल् "अनद्यतेन र्हिलन्यतरस्याम्'' इति सिद्धस्थादिस्पसङ्ख्येयः अत्र भुङ्क्ष्व, अथोऽत्राधीष्व, इत्यादौ अन्वादेशेऽपि "एतदोश्'' इति सामान्येनवाशादेशे सिद्धे "एतदस्रतसोस्रतसौ चानुदात्तौ'' इति वचनं त्रतसोरुनुदात्तत्वार्थम् ( एनम्, एनौ, एनान्, एनेन, एनयोः ) "द्वियीयाटौस्वेनः'' इतीदमेतदोरन्वादेशविषययोरनादेशः नपुंसकैकवचने त्वेनादितीष्यते ( एतः ) वर्णः "हसिमृग्रिण्वामि'' इति तन्प्रत्ययः ( एनी ) "वर्णादनुदात्तात्तोपधातो न'' इत्युनुदात्तान्ततोपधवर्णवाचित्वात् स्त्रियां ङीप्, तकारस्य चनः ( इनः )"इण्सी'' इत्यादिना नक् ( दूरं, ) "दुरीणो लोपश्च'' इति दुर्युपपदे रक्, इणश्च लोपे, "रोरि'' लोपे "ढ्रलोपे'' इति दीर्घः ( दविष्ठः, दवीयान्, दवयति, ) "'स्थूलदूर''इत्यादिना णाविष्ठवदिति च यणादिपरस्य लोपो गुणश्च "दूरयत्यवनते विवस्वती' इति प्रयोगस्तु चिन्त्यः 35
कृदन्तरूपमाला
Sanskrit1 {@“इण् गतौ”@} 2 ‘अयत्येतीयते गत्याम्, अधीतेऽध्येति चेङिकोः’ 3 इति देवः।
4 आयकः-यिका, 5 गमकः-मिका, 6 प्रत्यायकः-यिका, 7 जिगमिषकः-षिका, 8 प्रतीषिषकः-षिका
एता-त्री, आययिता-त्री, गमयिता-त्री, जिगमिषिता-त्री, प्रतीषिषिता-त्री
9 यन् 10 निर्यन् यती, प्रत्याययन्-न्ती, गमयन्-न्ती, जिगमिषन्-न्ती, प्रतीषिषन्-न्ती
एष्यन्- 11 न्ती-ती, प्रत्याययिष्यन्-न्ती-ती, गमयिष्यन्-न्ती-ती, जिगमिषिष्यन्- न्ती-ती, प्रतीषिषिष्यन्-ती-न्ती
-- प्रत्याययमानः, प्रत्याययिष्यमाणः
-- 12 परीत्-परीतौ-परीतः
-- -- इतं- 13 इतः-इतवान्, 14 उपेतः, प्रत्यायितः, अवगमितः, जिगमिषितः, प्रतीषितः-तवान्
15 अयः, आयः, गमः, 16 इत्वरः, 17 उपेयिवान् 18, ईयिवान् 19, समीयिवान्- 20 उपेयुषी, 21 अत्ययी, 22 अत्यायः, जिगमिषुः, जिगमयिषुः, परीषिषुः
एतव्यम्, 23 उपैतव्यम्, प्रत्याययितव्यम्, गमयितव्यम्, जिगमिषितव्यम्, प्रतीषिषितव्यम्
अयनीयम्, प्रत्यायनीयम्, गमनीयम्, जिगमिषणीयम्, प्रतीषिषणीयम्
24 इत्यम् 25, अनभ्याशमित्यः 26, प्रत्याय्यम्, अवगम्यम्, जिगमिष्यम्, प्रतीषिष्यम्
ईषदयः, -दुरयः-स्वयः, ईषदायः-ईषदवगमः-इत्यादि
-- 27 ईयमानः, प्रत्याय्यमानः, अवगम्यमानः, 28 जिगांस्यमानः, प्रतीष्यमाणः
29 आयः, 30 न्यायः 31, 32 पर्यायः, 33 34 अध्यायः, समयः, 35 अन्वयः, उदयः, न्ययः, व्ययः, 36 अभ्युदयः, न्यायः 37 अवगमः, प्रत्यायः
एतुम्, प्रत्याययितुम्, गमयितुम्, जिगमिषितुम्, प्रतीषिषितुम्
38 इत्या, अपीतिः, 39 समितिः, इतिः, समित् 40, प्रत्यायना, अवगमना, जिगमिषा, जिगमयिषा, प्रतीषिषा, प्रत्याययिषा
अयनम्, 41 अन्तरयणम् 42, अन्तरयनो 43, प्रत्यायनम्, अवगमनम्, जिगमिषणम्, प्रतीषिषणम्
इत्वा, आययित्वा, गमयित्वा, जिगमिषित्वा, ईषिषित्वा
उपेत्य-परीत्य, प्रत्याय्य, 44 अवगमय्य, अवजिगमिष्य, प्रतीषिष्य
45 आयम् २, इत्वा २, प्रत्यायम् २, आययित्वा २, 46 अवगमम् २ अवगामम् २ गमयित्वा २, -- -- -- -- जिगमिषम् २, जिगमिषित्वा २, प्रतीषिषम् २
ईषिषित्वा २
01 (६८)
02 (२-अदादिः-१०४५-अनिट्। सक-पर-)
03 (१४ श्लो।)
04 [[१। ‘अचो ञणति’ (७-२-११५) इति वृद्धौ आयादेशः।]]
05 [[२। ‘णौ गमिरबोधने’ (२-४-४६) इति गमादेशः। अमन्तत्वान्मित्त्वेन उपधाह्रस्वः।]]
06 [[३। इणो बोधनार्थकत्वात् ‘अबोधने’ (२-४-४६) इत्युक्त्या गमादेशाभावः।]]
07 [[४। ‘सनि च’ (२-४-४७) इति गमादेशः। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इत्यत्र ‘परस्मैपदेषु’ इत्यस्य तङानयोरभावे--इत्यर्थकतया अत्र सन इड् भवति।]]
08 [[५। ‘सनि च’ (२-४-४७) इत्यत्रापि ‘अबोधने’ इत्यनुवृत्त्या गमादेशाभावे, अजादि- त्वाद् ‘अजादेर्द्वितीयस्य’ (६-१-२) इति द्वितीयस्यैकाचो द्वित्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
09 [[६। ‘इणो यण्’ (६-४-८१) इति यणादेशः।]]
10 [[आ। ‘निर्यत्स्फुलिङ्गाकुलधूमराशिं किं ब्रूहि भूमौ पिनषाम भानुम्। आदन्तनिष्पी- डितपीतमिन्दुं ष्ठीवाम शुष्केक्षुलताऽस्थिकल्पम्’।। भ। का। १२-१८।]]
11 [[७। ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुमागमस्य वैकल्पिकत्वात् रूपद्वयम्।]]
12 [[८। ‘षत्वतुकोरसिद्धः’ (६-१-८६) इत्यनेन एकादेशशास्त्रस्यासिद्धत्वात् तुक्।]]
13 [[B। ‘अहृत धनेश्वरस्य युधि यः समेतमायो धनं तमहमितो विलोक्य बिबुधैः कृतोत्त- मायोधनम्।’ भ। का। १०-३६।]]
14 [[९। आ + इतः एतः, उप × एत = इति स्थिते ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिं बाधित्वा, ‘ओमाङोश्च’ (६-१-९५) इति पररूपम्।]]
15 [पृष्ठम्००६९+ २४]
16 [[१। ‘इण्नशिजिसर्तिभ्यः--’ (३-२-१६३) इति तच्छीलादिषु क्वरप्। तुक्।]]
17 [[आ। ‘रावणः शुश्रुवान् शत्रून् राक्षसानभ्युपेयुषः। स्वयं युयुत्सयांचक्रे प्राकाराग्रे निषेदिवान्।।’ भ। का। १४-२२।]]
18 [[२। ‘उपेयिवाननाश्वान्--’ (३-२-१०९) इति क्वसुप्रत्ययान्तो निपातितः। ‘उप’ इत्यस्याविवक्षितत्वात्-समीयिवान्-ईयिवान्-इत्याद्यपि सिद्ध्यति। ‘दीर्घ इणः किति’ (७-४-६९) इति दीर्घः।]]
19 [[B। ‘निवृत्ते भरते धीमान् अत्रे रामस्तपोवनम्। प्रपेदे पूजितस्तस्मिन् दण्डकारण्य- मीयिवान्।।’ भ। का। ४-१।]]
20 [[३। ‘उगितश्च’ (४-१-६) इति ङीप्। ‘वसोः सम्प्रसारणम्’ (६-४-१३१) इति सम्प्रसारणम्।]]
21 [[४। ‘जिदृक्षिविश्रीण्--’ (३-२-१५७) इत्यनेन तच्छीलादिषु इनिः।]]
22 [[५। ‘श्याद्व्यधाश्रुसंस्रतीण्--’ (३-१-१४१) इति ‘अति’ इत्युपसृष्टादस्मात् कर्तरि णः प्रत्ययः।]]
23 [[६। ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिः।]]
24 [[C। ‘आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण सङ्गतः। इत्यः शिष्येण गुरुवत् गृध्यमर्थमवा- प्स्यसि’ भ। का। ६-५५।]]
25 [[७। ‘एतिस्तुशास्--’ (३-१-१०९) इति क्यपि तुक्।]]
26 [[८। ‘इत्येऽनभ्याशस्य’ (वा-६-३-७०) इति पूर्वपदस्य मुम्।]]
27 [[९। ‘अकृत्सार्वधातुकयो--’ (७-४-२५) रिति दीर्घः।]]
28 [[१०। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। आत्मनेपदपरकत्वात् सनो नेट्।]]
29 [पृष्ठम्००७०+ ३०]
30 [[आ। ‘नरकस्यावतारोऽयं प्रत्यक्षोऽस्माकमागतः। अचेष्टा यदिहान्यायात् अनेनात्स्या- महे वयम्।।’ भ। का। ७-८२।]]
31 [[१। संज्ञायाम् ‘अध्यायन्याय--’ (३-३-१२२) इत्यादिना घापवादो घञ् निपातितः। न्याय इति शास्त्रस्य संज्ञा। न्येति--निश्चिनोति इति शास्त्रयुक्त्यादिरत्र न्यायः। न अभ्रेषः।]]
32 [[२। ‘परावनुपात्यय इणः’ (३-३-३८) इति अजपवादो घञ्। क्रमस्यानतिक्रमोऽनुपा- त्ययः।]]
33 [[B। ‘न्याय्यं यद्यत्र तत् कार्यं पर्यायेणाविरोधिभिः। निशोपशायः कर्तव्यः फलो- च्चायश्च संहतैः।।’ भ। का। ७-४१।]]
34 [[३। ‘अध्यायन्याय--’ (३-३-१२२) इत्यादिना घापवादो घञ् निपातितः। संज्ञायाम्]]
35 [[४। ‘एरच्’ (३-३-५६) इति भावेऽच्। एवं ‘अभ्युदय’ इति यावदच् प्रत्ययः।]]
36 [[C। ‘निराकरिष्णुर्द्विजकुञ्जराणां तृणीकृताशेषगुणोऽतिमोहात्। पापाशयान् अभ्युदया- र्थमार्च्छीत् प्राग्ब्रह्मरक्षःप्रवरान् दशास्यः।।’ भ। का। ११-४४।]]
37 [[५। ‘परिन्योर्नीणोर्द्यूताभ्रेषयोः’ (३-३-३७) इति घञ्। अभ्रेषोऽस्खलनम्। न्याये स्थितः।]]
38 [[६। ‘संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः’ (३-३-९९) इति स्त्रियां भावे क्यप्।]]
39 [[७। बाहुलकात् क्तिन्नपि--इत्यात्रेयः। समितिः = सभा।]]
40 [[८। ‘संपदादित्वात्--’ (३-३-९४) स्त्रियां भावादौ क्विप्। समित् = युद्धः।]]
41 [[९। ‘अयनं च’ (८-४-२५) इत्यदेशे णत्वम्। देशविशेषे तु न--अन्तरयनो देशः। ‘अन्तश्शब्दस्याङ्किविधिणत्वेषु उपसर्गत्वं वक्तव्यम्’ (वा। १-४-५८) इति वचनात् उपसर्गत्वम्। ‘कृत्यच’ (८-४-२९) इत्यनेनैव सिद्धे, देशे णत्वाभावाय ‘अयनं च’ (८-४-२५) इति सूत्रारम्भः।]]
42 (वर्तते)
43 (देशः)
44 [[१०। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
45 [पृष्ठम्००७१+ २६]
46 [[१। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुलि दीर्घविकल्पः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
