इक्षुमूल (ikSumUla)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaइक्षुमूल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬಿದಿರು
इक्षुमूल
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಕಬ್ಬಿನ ಬುಡ
अभिधानचिन्तामणिः
Sanskritभेदाः कान्तारपुण्ड्राद्यास्तस्य मूलं तु मोरटम् ॥ ११९४ ॥
कान्तार (पुं), पुण्ड्र (पुं), इक्षुमूल (क्ली), मोरट (क्ली)
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritइक्षुमूल इक्षुरसतुल्योमेहः । सुश्रुतोक्ते प्रमेहभेदे तद्भेदाविंशतिर्निदानसहितास्तत्रोक्ता यथा “दिवास्वप्नव्यायामा-लस्यप्रसक्तं शीतस्निग्धमधुरमद्यद्रवान्नपानसेविनं पुरुषंजानीयात्प्रमेही भविष्यतीति । तस्य चैवं प्रवृत्तस्यापरिपक्वाएव वातपित्तश्लेष्माणो यदा मेदसा सहैकत्वमुपेत्य मूत्र-वाहिस्रोतांस्यनुसृत्याधो गत्वा वस्तेर्मुखमाश्रित्य निर्भिद्यन्तेतदा प्रमेहान् जनयन्ति । तेषान्तु पूर्व्वरूपाणि हस्त-पादतलदाहः स्निग्धपिच्छिलगुरुता गात्राणां मधुर-शुक्लमूत्रता तन्द्रा सादः पिपासा दुर्गन्धश्च श्वासस्तालुगलजिह्वादन्तेषु मलोत्पत्तिर्जटिलीभावः केशानां वृद्धिश्चनखानाम् । तत्राविलप्रभूतमूत्रलक्षणाः सर्व्व एव सर्व्वंदोषसमुत्थाः सह पिडकाभिः । तत्र कफादुदकेक्षुसुरा-सिकताशनैर्लवणपिष्टसान्द्रशुक्रफेनमेहाः दश साध्या दोष-दूष्याणां समक्रियत्वात् । पित्तान्नीलहरिद्राम्लक्षारमञ्जि-ष्ठाशोणितमेहाः षट् याप्या दोषदूष्याणां विषमक्रिय-त्वात् । वातात्सर्पिर्वसाक्षौद्रहस्तिमेहाश्चत्वारोऽसाध्यतमामहात्ययिकत्वात् । तत्र वातपित्तमेदोभिरन्वितः श्लेष्माश्लेष्मप्रमेहान् जनयति वातकफशोणितमेदोभिरन्वितंपित्तं पित्तप्रमेहान् । कफपित्तवसामज्जमेदोभिरन्वितोवायुर्व्वातप्रमेहान् । तत्र श्वेतमवेदनमुदकमेही मेहतिइक्षुरसतुल्यमिक्षुमेही, सुरामेही सुरातुल्यं, सरु-जम् सिकतानुविद्धं सिकतामेही शनैः सकफ मृत्स्नंशनैर्मेही, विशदं लवणतुल्यं लवणमेही, हृष्टरोमा पिष्ट-रसतुल्यं पिष्टमेही, आविलं सान्द्रं सान्द्रमेही, शुक्रतुल्यंशुक्रमेही स्तोकं स्तोकं सफेनं फेनमेही मेहति । अत ऊर्द्धंपित्तनिमित्तान्वक्ष्यामः । सफेनमच्छं नीलं नीलमेही मेहतिसदाहं हरिद्राभं हरिद्रामेही, अम्लरसगन्धमम्लमेही, स्रुतक्षारप्रतिभं क्षारमेही, मञ्जिष्ठोदकप्रकाशं मञ्जिष्ठामेही ।शोणितप्रकाशं शोणितमेही मेहति । अत जर्द्धं वात-निमित्तान्वक्ष्यामः । सर्पिः प्रकाशं सर्पिर्मेही मेहतिवसाप्रकाशं वसामेही, क्षौद्ररसवर्णं क्षौद्रमेही, मत्तमातङ्गवदनुप्रवृद्धं हस्तिमेही मेहति । मक्षिकोपसर्पणमालस्यंमांसोपचयः प्रतिश्यायः शैथिल्यारोचकाविपाकाः कफप्र-सेकच्छर्द्दिनिद्राकासश्वासाश्चेति श्लेष्मजानामुपद्रवाः । वृष-णयोरवदरणं वस्तिभेदो मेढ्रतोदो हृदिशूलमम्लीकाज्वरा-तीसारारोचका वमथुः परिधूमायनं दाहो मूर्च्छा पिपासानिद्रानाशः पाण्डुरोगः पीतविण्मुत्रनेत्रत्वञ्चेति पैत्ति-कानाम् । हृद्ग्रहो लौल्यमनिद्रा स्तम्भः कम्पः शूलं बद्ध-पुरोषत्वञ्चेति वातजानाम् । एवमेते विंशतिः प्रमेहाःसोपद्रवा व्याख्याताः । तत्र वसामेदोभ्यामभिपन्नशरीरस्यत्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश पिडका जायन्ते ।तद्यथा । शराविका सर्षपिका कच्छपिका जालिनी विनतापुत्त्रिणी मसूरिका अलजी विदारिका विद्रधिका चेति ।शरावमात्रा तद्रूपा निम्नमध्या शराविका । गौरसर्षप-संस्थाना तत्प्रमाणा च सर्षपी । सदाहा कूर्म्मसंस्थानाज्ञेया कच्छपिका बुधैः । जालिनी तीव्रदाहा तु मांस-जालसमावृता । महती पिडका नीला पिडका विनतास्मृता । महत्यल्पाचिता ज्ञेया पिडका सा तु पुत्त्रिणी ।मसूरसमसंस्थाना ज्ञेया सा तु मसूरिका । रक्तासितास्फोटवती दारुणा त्वलजी भवेत् । विदारी कन्दवद्वृत्ताकठिना च विदारिका । विद्रधेर्ल्लक्षणैर्युक्ता ज्ञेया विद्रधिकाबुधैः । ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तत्कृताः ।गुदे हृदि शिरस्यंसे पृष्ठे मर्म्मणि चोत्थिताः । सोप-द्रवा दुर्ब्बलस्य पिडकाः परिवर्ज्जयेत् । कृत्स्नं शरीरंनिष्पीड्य मेदोमज्जवसायुतः । अधः प्रक्रमते वायुस्तेना-साध्यास्तु वातजाः । प्रमेहपूर्व्वरूपाणामाकृतिर्यत्र दृश्यते ।किञ्चिच्चाप्यधिकं भूत्रं तं प्रमेहिणमादिशेत् । कृत्स्नान्य-र्डानि वा यस्मिन् पूर्व्वरूपाणि मानवे । प्रवृत्तभूत्रमत्यर्थंतं प्रमेहिणमादिशेत् । पिडकापीडितं गाढमुपसृष्ट-मुपद्रवैः । मधुमेहिनमाचष्टे स चासाध्यः प्रकीर्त्तितः ।स चापि गमनात् स्थानं, स्थानादासनमिच्छति । आसनाद्वृ-णुते शय्यां, शयनात् स्वप्नमिच्छति । यथाहि वर्ण्णानां पञ्चा-नामुत्कर्षापकर्षकृतेन संयोगविशेषेण शवलबभ्रुकपिलकपो-तमेचकादीनाम् वर्णानामनेकेषामुत्पत्तिर्भवति । एवमेव दो-षधातुमलाहारविशेषेणोत्कर्षापकर्षकृतेन संयोगविशेषेण ।भवति चात्र । सर्वएव प्रमेहास्तु कालेनाप्रतिकारिणः ।मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि” तत्रैव चिकित्-सास्थाने सर्वप्रमेहस्य प्रकारान्तरेण द्वैविध्यमुक्तम् ।यथा “द्वौ प्रमेहौ सहजोऽपथ्यनिमित्तश्च भवतः तत्रसहजोमातृपितृवीजदोषकृतः । अहिताहारजोऽपथ्यनिमित्तः । तयोः पूर्व्वेणोपद्रुतः कृशोरूक्षोऽल्पाशी पिपासुर्भृशंपरिसरणशीलश्च भवति उत्तरेण स्थूलोबह्वाशी स्निग्धः-शय्यासनस्वप्नप्रायेणेति” “तत्रोदकमेहिनं पारिजात-कषायं पाययेत् इक्षुमेहिनं वैजयन्ती कषायम्” च सुश्रु०
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
