आस (Asa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishआस r. 2d cl. (आस्ते or आस्स्ते)
1. To sit.
2. To be present.
3. To be or
exist. With अधि prefixed.
1. To inhabit, to dwell in.
2. To sit over
or upon.
3. To mistake or err by taking one thing for another from
similarity of appearance. With अभि, to sit or apply to, to study, to
learn. With उत्, 1. To leave, to abandon.
2. To shake, agitate, &c.
(as wind.) With उप, to worship, to do homage. With निर्, to
expel. With प्र and निर्, to reject, to refute, to invalidate.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishआस - Asa - - posteriors
आस - Asa - - seat
आस - Asa - - dust
आस - Asa - - ashes
आस - Asa - - lower part of the body behind
आस - Asa - - bow
आस Asa posteriors
घटिक ghaTika posteriors
श्रोणिप्रतोदिन् zroNipratodin kicking the hinder parts or posteriors
Wilson
Englishआस r. 2d cl. (आस्ते or आसते)
1 To sit.
2 To be present.
3 To be or exist.
With अधि prefixed.
1 To inhabit, to dwell in.
2 To sit over or upon.
3 To mistake or err by taking one thing for another from similarity of appearance.
With अभि, to sit or apply to, to study, to learn.
With उत्,
1 To leave, to abandon.
2 To shake, agitate, &c. (as wind.)
With उप, to worship, to do homage.
With निर्, to expel.
With प्र and निर्, to reject, to refute, to invalidate.
Apte
Englishआसः [āsḥ], [आस्-घञ्]
A seat.
A bow (-सम् also)
स सासिः सासुसूः सासः 15.5.
Ashes.
सम् Seat or lower part of the body.
Proximity.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiआसः
- आस्+घञ्
आसन
आसः
- आस्+घञ्
धनुष
Shabdartha Kaustubha
Kannadaआस - उपवेशने (अदा० आत्म० अक० से०) आस्ते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಕುಳಿತುಕೊ /ಕೂಡು /ಕೂರು
प्रयोगाः - > "कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्"
उल्लेखाः - > गीता० ३-६
आस
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಧನಸ್ಸು /ಬಿಲ್ಲು
निष्पत्तिः - > असु (क्षेपणे) - "घञ्" (३-३-१९)
व्युत्पत्तिः - > आस्यतेऽनेन
प्रयोगाः - > "ससासिः साससूः सासः"
उल्लेखाः - > किरा० १५-५
आस
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಆಸನ /ಪೀಠ
निष्पत्तिः - > आस (उपवेशने) - अधि० "घञ्" (३-३-१२१)
आस
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕೂರುವಿಕೆ /ಕುಳಿತುಕೊಳ್ಳುವಿಕೆ
निष्पत्तिः - > आस - भावे "घञ्" (३-३-१८)
आस
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಆಸನ /ಗುಹ್ಯಪ್ರದೇಶ
निष्पत्तिः - > आस - कर० "घञ्" (३-३-१२१)
प्रयोगाः - > "कप्यासं पुण्डरीकमेवमक्षिणी"
उल्लेखाः - > छान्दोग्य०
Edgerton Buddhist Hybrid
Englishāsa, m. (only known in Vedic cpd. sv-āsa-stha), seat: Gv 〔474.18〕 (vs) śūrāṇa teṣam ayam āsu (n. sg.) sudurjayānām, this is the seat of those heroes … Meter does not permit emendation to āvāsa, which is used in parallel lines 2, 10, etc.
other parallels vihāra
all three are virtual synonyms. Prakritic contraction of āvāsa to āsa is improbable. For āsa = aṃśa see maitrāsa-tā.
धातुपाठः (Krishnacharya)
Sanskrit आस्
आस
उपवेशने
अदादिः
अकर्मकः
सेट्
आत्मनेपदी
आस्ते
धातुप्रदीपः
Sanskritआसँ आस उपवेशने
- आस्ते । आसाते । आसते । आसाञ्चक्रे । आसीनः । आस्था (7) । आसना ।। 11 ।।
Schmidt Nachtrage zum Sanskrit Worterbuch
Germanअभिधानचिन्तामणिः
Sanskritधनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम् ।
द्रुणासौ लस्तकोऽस्यान्तरग्रं त्वर्तिरटन्यपि ॥ ७७५ ॥
धनुस् (पुंक्ली), धनु (पुंक्ली), चाप (पुंक्ली), अस्त्र (क्ली), इष्वास (पुं), कोदण्ड (पुंक्ली), धन्वन् (क्ली), कार्मुक (क्ली), द्रुण (क्ली), आस (पुंक्ली), लस्तक (पुं), अर्ति (स्त्री), अटनी (स्त्री)
शब्दकल्पद्रुमः
Sanskritआस, ञि ङ ल उपवेशने । (अदा ०-आत्म ० अक ०-सेट् ।) इति कविकल्पद्रुमः ॥
विद्यमानतायां ।इति तट्टीका ॥
(“आसने भगवानास्तां सहैभिर्मुनिपुङ्गवैः” ।इति रामायणे १ काण्डे) ञि आसितोऽस्ति । ल ङआस्ते सिंहासने नृपः । विद्यमानतायामप्ययं ।आकाशमास्ते । इति दुर्गादासः ॥
(सम् + अधि)सम्यगुपवेशने । व्याप्तौ । यथा रघुवंशे, १३ । ५२ ।“वीरासनैर्ध्यानजुषागृषीणा-ममी समध्यासितवेदिमध्याः” ।(अनु) पश्चादुपवेशने । यथा रघौ, २ । २४ ।“तामन्तिकन्यस्तबलिप्रदीपा-मन्वास्य गोप्ता गृहिणीसहायः” । इति ।उपासनायां । यथा रामायणे, --“ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम्” ।इति ।(अभि) अभ्यासे । (उत्) उपेक्षायां । यथा माघे ।२ । ४२ ।“विधाय वैरं सामर्षे नरोऽरौ य उदासते” ।इति ।(उप) समीपोववेशने । यथा मनुः, ४ । १५४ ।“कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात्” ।इति ।बद्धाञ्जलिश्च गुरुसमीपमासीत इति तट्टीका ॥
उपासनायां । यथा, --“मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते” ।इति गीतायां १२ । २ । सेवने । यथा, --“उपासते ये गृहस्था ! परपाकमबुद्धयः” ।इति मनुः ३ । १०४ । परपाकमुपासते सेवन्ते इतितट्टीका । (निर्) निरासे । अपसारणे । (प्रति+ सम्) प्रतिद्वन्द्वितयावस्थाने । “कोऽन्यः प्रति-समासेत कालान्तकयमादृते” । इति भारतम् ।इत्यादि ।)
वाचस्पत्यम्
Sanskritआस उपवेशनेअदादि० आ० अक० सेट् । आस्ते आस्ताम्आसते आसीत आस्ताम् आस्स्व आद्ध्वम् आस्त आसतआसिष्ट आसांबभूव आसामास आसाञ्चक्रे आसिताआसिष्यते । आसीनः आसितम् आसितवान् आसितुम्आसिता आस्तिः आसः आसनम् आसना “य आस्ते मनसास्मरन्” गीता “दिवि देवास आसते” ऋ० १, २०, २ ।“आसीतामरणात् क्षान्ता” नासीत गुरुणा सार्द्धं शिला-फलकनौषु च” इति च मनुः । “सुखितमास्स्व ततः शरदांशतम्” सा० द० । “निबद्ध्वमाध्वं पिबतात्त शेध्वम्” भट्टिः ।“जगन्ति यस्यां सविकाशमासत” माघः । “आसिष्ट नैकत्रशुचा व्यरंसीत्” भट्टिः भावे आस्यते “आस्यतामितिचोक्तः सन्नासीताभिमुखं गुरोः” मनुः । “इच्छामि नित्य-मेवाहं त्वया पुत्र । सहासितुम्” भा० व० । अ० “जन-कोह वैदेह आसाञ्चक्रे” शत० व्रा० १४, ६, १, १ ।तूष्णींभूय भयादासाञ्चक्रिरे मृगपक्षिणः” भट्टिः “कैलास-शिखरासीनम्” तन्त्रम् “आसीनानां सुरभितशिलं नाभि-गन्धैर्मृगाणाम्” मेघदू० । “आसितं भाषितं चैव मतंयच्चाप्यनुष्ठितम्” रामा० । “जृम्भासितादिकृत” सा० द० ।अधि--अध्यारोहणे । गगनमध्यमध्यास्ते दिवाकरःकाद० “छायामध्यास्य सैनिकाः “ययौ मृगाध्यासित-शाद्वलानि” इति च रघुः । जम्बूविटपमध्यास्तेपरभृता” विक्रमो० । “आचख्यौ दिवमध्यास्स्वशासनात् परमेष्ठिनः” रघुः । अत्राधारस्य कर्म्मता ।अनु--पश्चादुपवेशनेन सेवने । “अन्वासितमरुन्धत्यास्वाहयेव हविर्भुजम्” रघुः । “वृतः सखायमन्वास्तेसदैव धनदं नृपः” भा० स० १० अ० ।अभि--आभिमुख्येन स्थितौ नैकट्ये च अक० अभ्यासः अ-भ्यासोयत्ते कपूययोनिमापद्येरन्” छा० उ० ।उद्--औदास्ये प्रकृतकर्म्मण उपरमे अक० “विधाय वैरं सामर्षेनरोऽरौ य उदासते” माघः । “उदासीनवदासीनः” गीताउप--सेवने । “नोपास्ते यश्च पश्चिमाम्” मनुः ।“उपास्येते हरिहरौ लकारोदृश्यते यतः” वाक्यप० ।“वायुवच्चानुगच्छन्ति तथा दीनानुपासते” मनुः । “ऋतवस्त-मुपासते” कुमा० ।परि--उप--उपासनस्य प्रकर्षार्थे “यथैव क्षुधिता बाला मातरंपर्य्युपासते” “पितामहं च के तस्यां सभायां पर्य्युपासते”भा० स० १ अ० । (एनम्) “भुजङ्गाःपर्य्युपासते” कुमा० ।सम्--उप--सम्यगुपासने । “समुपास्यत पुत्रभोग्यया” रघुःपरि--परितः स्थितौ अक० सम्यक् सेवने । तामेतद्देवाश्चपर्य्यासते ये चेमे ब्राह्मणाः” शत० ब्रा० ।सम्--सम्यक् स्थितौ उपवेशने च । “भोगिभोगसमासीनम्”“पश्चिमां तु समासीनः” मनुः ।
क्षीरतरङ्गिणी
Sanskritआसँ आस उपवेशने
- आस्ते आसिता अधिशीङ्स्थासां कर्म (1446) खट्वामध्यास्ते ईदासः (7283) आसीनः दयायासश्चः (3137) इत्याम्-आसांचके गत्यर्थाकर्मक (3472) इति क्तः उपासितो गुरुं चैत्रः ण्यासश्रन्थो युच् (33107) आसना 11
धातुवृत्तिः
Sanskritआसँ आस (अर्थः) उपवेशने
( आस्ते ) अत्र "अनचि च'' इति द्वित्वपक्षे द्वौ सकारौ, अन्यदात्वेकः न च द्वित्वे "स्कोः'' इति सलोपप्रसङ्गः द्वित्वस्यास्मिन्नसिद्धत्वात् ( आस्से )इत्यत्र द्वित्त्वपक्षे त्रयः सकाराः, न च "झरो झरि'' इति लोपाद् द्वावेवेति मन्तव्यं, तस्यापि विकल्पितत्वात् ( आध्वे ) "धि च'' इति सलोपे धकारस्य द्वित्वे जश्त्वम्, ( आसे, आसांचक्रे "दयायासश्च'' इत्याम् ( आसिता आसितासे आसिताहे आसिष्यते आस्ताम्, आस्स्व, आध्वम् आसै आस्त आसाताम् आस्थाः आध्वम् आसि आस्वहि आसीत् असीथाः आसीय ) आशिषि ( आसिषीष्ट आसीषीष्ठः आसीषीय आसिष्ट, आसिषाताम् आसिष्ठाः, आसिङ्ढ्वम् ) "धि च'' इति सिचो लोपे "इणः षीध्वम्'' इति मूर्द्धन्यः, ( आसिषि ) सनि ( आसिषिषते आसयति, मा भवानसिसत्, ग्राममध्यास्ते ) "अधिशीङ्स्थासां कर्म्म'' इति आधारस्य कर्म्मत्वं, (मासमास्ते) मासमासनेन व्याप्नोतीत्यर्थः सकर्म्मकव्यापनरूपधात्वर्थाङ्गकासने धातोर्वृत्त्या व्यापनापेक्षं मासस्य कर्म्मत्वं, एवमस्य मासादिना सकर्म्मकत्वेऽपि तत्र तत्राकर्म्मकग्रहणेषु कालाभावाध्वगन्तव्यदेशव्यतिरिक्तेन कर्म्मणा ऽकर्मकाणां ग्रहणमिति आसयति मासं देवदत्तमिति प्रयोज्यस्य "गतिबुद्धि'' इति कर्म्मत्वं भवति तथा "अणावकर्म्मकात्'' इति नित्यं परस्मैपदं च, एवं "लः कर्म्मणि च'' इत्यादिना विधीयमाना लादयोऽप्यस्य वस्तुतो मासादिना सकर्म्मकत्वादकर्म्मकग्रहणेन ग्रहणाच्च भावकर्म्मणोरुभयोरपि भवन्ति आस्यते मासं देवदत्तेन आस्यते मासो देवदत्तेन, मासस्यासितव्यमासितव्यो मासः, स्वासं मासं स्वासो मास इति, क्तखलेन "न लोकाव्यय'' इति कर्म्मणि षष्ठ्या निषेधः अयं च प्रकारो "अकथितं च'' "कालाध्वनोः'' इत्यादौ भाष्यकैयटपदमञ्जर्यादिषु सहस्रशः प्रपञ्चितः अस्माभिरपि भवतौ प्रपञ्चितः ननु कटे आस्ते इत्यादौ मासदिवत् व्याप्त्यपेक्षया कटादेरपि कर्म्मत्वेन भाव्यम्, अत्र कैयटः नियतत्वाच्च प्रयोगस्य कट आस्त इत्यादौ त्वासनमात्रेऽनङ्गीकृतक्रियान्तरे आसिर्वर्त्तइत्यतिप्रसङ्गो नोद्भावनीय इति ( आसीनः) "ईदासः" इति आसेः परस्यानस्यादेरोकारः (आसना)"ण्यासश्रन्थो युव्'' इति युच्, (आस्या), वासरूपविधिना ण्यत्, अस्त्रियामिति निषेध उभयोरपि स्त्र्यधिकारविहितत्वे, बाहुलकात् क्तिन्नपि भवति उपास्तिरिति, उपासितो गुरुं शिष्यो वा, उपासितो गुरुः शिष्येण "गत्यर्थाकर्म्मक'' इत्यादिना कर्त्तृकर्म्मणोःक्तः उपसर्गवशात् कालादिव्यतिरिक्तेनापि सकर्म्मकत्वं, ( कैलासः, ) केलिः प्रयोजन्मस्य कैलः, [ चूडादिभ्य उपसंख्यानम् ] इत्यण्, आस्य तेऽस्मिन्निति-(आसः), "हलश्च'' इत्यधिकरणे घञ् कैलश्चासावासश्चेति "विशेषणं विशेष्येण'' इति सञ्ज्ञात्वाल्लोहितशाल्यादिवत् समासो नित्यम् 11
कृदन्तरूपमाला
Sanskrit1 {@“आस उपवेशने”@} 2 आसकः-सिका, आसकः-सिका, आसिसिषकः-षिका, दुरासिका 3
आसिता-त्री, आसयिता-त्री, असिसिषिता-त्री
4 5 अध्यासयन्, 6 आसयन्-न्ती, आसयिष्यन्-न्ती-ती
7 आसीनः, 8 आसिसिषमाणः, आसिसिषिष्यमाणः
आः-आसौ-आसः
-- -- आसितम्-तः-तवान्, आसितः, आसिसिषितः-तवान्
आसः, आसः, आसिसिषुः, आसिसयिषुः
आसितव्यम्, असयितव्यम्, आसिसिषितव्यम्
आसनीयम्, आसनीयम्, आसिसिषणीयम्
आस्यम्, आस्यम्, आसिसिष्यम्
ईषदासः-दुरासः-स्वासः
-- 9 उपास्यमानः, आस्यमानः, आसिसिष्यमाणः
आसः, आसः, 10 कैलासः, आसिसिषः
आसितुम्, आसयितुम्, आसिसिषितुम्
11 आसना, 12 उपासना, 13 उपास्तिः 14, आस्या, 15 आसिसिषा
आसनम्, 16 आसनम्, आसिसिषणम्
17 आसित्वा, आसयित्वा, आसिसिषित्वा
उपास्य, समास्य, उपासिसिष्य
आसम् २, आसित्वा २, आसम् २, आसयित्वा २, आसिसिषम् २
आसिसिषित्वा
01 (६१)
02 (२-अदादिः-१०२१-अक। से। आ।)
03 [[१। ‘संज्ञायाम्’ (३-३-१०९) इति ण्वुल्। ‘दुरीश्वरद्वारबहिर्वितर्दिकादुरासिकायै रचितोऽयमञ्जलिः।’ इति वैराग्यपञ्चके (३)।]]
04 [पृष्ठम्००६०+ ३०]
05 [[आ। ‘त्रिवर्गपारीणमसौ भवन्तम् अध्यासयन् आसनमेकमिन्द्रः। विवेकदृश्वत्वमगात् सुराणां तं मैथिलो वाक्यमिदं बभाषे।।’ भ। का। २-४६।]]
06 [[१। ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्तात् शतैव।]]
07 [[२। ‘ईदासः’ (७-२-८३) इति आनस्यादेरीकारः।]]
08 [[B। ‘अध्यासिसिषमाणेऽथ वियन्मध्यं निशाकरे।’ भ। का। ८-३८।]]
09 [[C। ‘आकाशचारिवनिताभिरुपास्यमाना साऽऽह स्म तन्मनसिकृत्य महान्त- मर्थम्।।’ वा। वि। ३-५१।]]
10 [[३। “केलिः प्रयोजनमस्य = कैलः ‘चूडादिभ्य उपसंख्यानम्’ (वा। ५-१-११०) इत्यण्। आस्यतेऽस्मिन् इत्यासः। ‘हलश्च’ (३-३-१२१) इत्यधिकरणे घञ्। कैलश्चासावासश्चेति ‘विशेषणं विशेष्येण--’ (२-१-५७) इति संज्ञात्वात् लोहित- शाल्यादिवत् समासो नित्यम्।।” इति मा। धा। वृत्तिः।]]
11 [[४। ‘ण्यासश्रन्थो युच्’ (३-३-१०७) इति शुद्धादेव धातोः युच्।]]
12 [[ड्। ‘प्रायोपासनया शान्तिं मन्वानो वालिसम्भवः। युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्तवेदनाम्।।’ भ। का। ७-७३।]]
13 [[५। बाहुलकात् क्तिन्--इति मा। धा। वृत्तिः।]]
14 [[E। “ईड्योऽयमीशः समुपास्तिशीलैराशासितः पीतपटीं वसानः। स्वीयैश्चकंसे कशनीयकासी रमोष्ठनिंसी नतचित्तनिञ्जी।।” धा। का। २-४५।]]
15 [[६। ‘वाऽसरूप--’ (३-१-९४) इति न्यायेन ण्यदपि भावे इति मा। धा। वृत्तिः।]]
16 [[आ। ‘त्रिवर्गपारीणमसौ भवन्तम् अध्यासयन् आसनमेकमिन्द्रः। विवेकदृश्वत्वमगात् सुराणां तं मैथिलो वाक्यमिदं बभाषे।।’ भ। का। २-४६।]]
17 [पृष्ठम्००६१+ २५]
Grassman
GermanNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
