| YouTube Channel

आश्रयाशः (AzrayAzaH)

 
Apte Hindi
Hindi
आश्रयाशः
वि* आश्रयः-आशः -
संपर्क में आने वाली वस्तुओं का उपभोग करने वाला
E Bharati Sampat
Sanskrit
(पुं) आश्रयम् अश्नाति नाशयति आश्रय+अश(भोजने)+अण् ‘कर्मण्यण्’ ३.२.१। १.अग्निः। २.कृत्तिकानक्षत्रम् ३.चित्रामूलम् (वि) ४.आश्रयनाशकः। ५.सहायकनाशः।
Wordnet
Sanskrit
Synonyms:
अग्निः, वैश्वानरः, वीतहोत्रः, अग्निहोत्रः, हुरण्यरेताः, सप्तार्चि, विभावसुः, वृषाकपिः, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, अग्निदेवः, अग्निदेवता, धनञ्जयः, जातवेदः, कृपीटयोनिः, शोचिष्केशः, उषर्बुधः, बृहद्भानुः, हुतभुक्, हविरशनः, हुताशः, हुताशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, क्रव्यवाहनः, तनुनपात्, रोहिताश्वः, आशुशुक्षणिः, आश्रयाशः, आशयाशः, आश्रयभुक्, आश्रयध्वंसी, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, भुवः
noun
देवताविशेषः-हिन्दुधर्मानुसारम् अग्नेः देवतास्वरूपम्।
"अग्नेः पत्नी स्वाहा।"
शब्दकल्पद्रुमः
Sanskrit
आश्रयाशः,
पुं,
(आश्रयमाधारमपि अश्नाति यःआश्रय + अश् + कर्म्मणि उपपदे अण् ।) अग्निः ।(यथा, हितोपदेशे ।“दुर्वृत्तः क्रियते धूर्त्तैः श्रीमानात्मविवृद्धये ।किं नाम खलसंसर्गः कुरुते नाश्रयाशयत्” ।)चित्रकवृक्षः इत्यमरः
आश्रयाशः, त्रि, (आश्रयं स्वालम्बनस्थानमपि अश्नातियः आश्रय + अश् + अण् ।) आश्रयनाशकः ।आश्रयध्वंसी इति मेदिनी