| YouTube Channel

आलुकं (AlukaM)

 
शब्दकल्पद्रुमः
Sanskrit
आलुकं,
क्ली,
(आलु + स्वार्थेकन् ।) मूलविशेषःआलु इति भाषा इति राजवल्लभः
एलवालुकं ।इति राजनिर्घण्टः
तद्विवरणं यथा, --“आलुकमप्यालूकं तत् कथितं वीरसेनश्च ।काष्ठालुकशङ्खालुकहस्त्यालुकानि कथ्यन्ते
पिण्डालुकमध्वालुकरक्तालुकानि व्यक्तानि” ।काष्ठालुकं काठिन्ययुक्तकटारु शङ्खालुकं श्वेतता-युक्तशङ्खालु हस्त्यालुकं दीर्घतायुक्तमहाशरीरं ।पिण्डालुकं वर्त्तुलसुथनी मध्वालुकं मधुरतायुक्त-रोमान्वितदीर्घसुथनी रक्तालुकं रतारू तरण्डाइति एषां गुणाः ।“आलुकं शीतलं सर्व्वं विष्टम्भि मधुरं गुरु ।सृष्टमूत्रमलं रूक्षं दुर्ज्जरं रक्तपित्तनुत्
कफानिलकरं बल्यं वृष्यं स्तन्यविवर्द्धनम्” ।इति भावप्रकाशः
(“आलुकानि सर्व्वाणि तथा सूप्यानि लाक्ष्मणं ।स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषणम्”
इति वाभटः
“विदारीकन्दशतावरीविसमृणालशृङ्गाटककशेरु-कपिण्डालुकमध्वालुकहस्त्यालुककाष्ठालुकशङ्ख्या-लुकरक्तालुकेन्दीबरोत्पलकन्दप्रभृतीनि”
“रक्तपित्तहराण्याहुः शीतानि मधुराणि ।गुरूणि बहुशुक्राणि स्तन्यवृद्धिकराणि च”
इति सुश्रुतः
)