| YouTube Channel

आर्य्यभट्ट (AryyabhaTTa)

 
वाचस्पत्यम्
Sanskrit
आर्य्यभट्ट
पु०
ज्योतिषग्रन्थविशेषकारके विद्वद्भेदे सहि“प्रणित्यैकमनेकं सत्यां देवतां परं ब्रह्म आर्य्यभट्टस्त्रीणिवदति गणितं कालक्रियां गोलम्” इत्युपक्रम्य गणि-तकालक्रियाभूगोलं निर्ण्णीतवान् भूगोलखगोलशब्दयोःतन्मतमुदाहरिष्यते तस्य जन्मकालः स्वग्रन्थे एवतेनोक्तः “षष्ट्यब्दानां षष्टिर्यदा व्यतीतास्तयश्च युगपादाः ।अधिका विंशतिरव्दास्तदिह मम जन्मनोऽतीताः” तेनकलेः ३६२० वर्षेषु गतेषु तस्य जन्म तन्मतमुत्थाप्य चसि० शि० क्वचित् क्वचित् दूषितमिति तस्य भास्कराचा-र्य्यात् प्राचीनत्वम्