| YouTube Channel

आर्द्रकं (ArdrakaM)

 
शब्दकल्पद्रुमः
Sanskrit
आर्द्रकं,
क्ली,
(अर्द्दयति कफं आद्रं ततः कन् यद्वाआर्द्रयति जिह्वायां क्वन् ।) कटुमूलविशेषः आदाइति भाषा तत्पर्य्यायः शृङ्गवेरं इत्यमरः
कटुभद्रं कटूत्कटं इति केचित्
गुल्ममूलं ५मूलजं कन्दरं वरं महीज सकतेष्टं १०अनूपजं ११ अपाकशाकं १२ चान्द्राख्यं १३ राहु-च्छत्रं १४ सुशाककं १५ शार्ङ्गं १६ आर्द्रशाकं १७सच्छाकं १८ इति रात्रनिर्घण्टः
अस्य गुणाः ।कफवातविबन्धानाहशूलपित्तनाशित्वं हृद्यत्वं ।रुचिशुक्रकारित्वञ्च इति राजवल्लभः
अपिच ।उष्णत्वं कटुत्वं विपाके शीतलत्वं लघुत्वं ।अग्निदीपनत्वं शोथकण्ठामयनाशित्वञ्च इतिराजनिर्घण्टः
लवणार्द्रकगुणाः भोजनाग्रेपथ्यत्वं जिह्वाकण्ठविशोधनत्वं अग्निसन्दी-पनत्वं हृद्यत्वं, --“वातपित्तकफेभानां शरीरवनचारिणां ।एक एव निहन्तास्ति लवणार्द्रककेशरी”
इति द्रव्यगुणः, --“आर्द्रकं शृङ्गवेरं स्यात् कटुभद्रं तथार्द्रिका ।आर्द्रिका भेदिनी गुर्व्वी तीक्ष्णोष्णा दीपनी तथा ।कटुका मधुरा पाके रूक्षवातकफापहा ।ये गुणाः कथिताः शुण्ठ्यास्तेऽपि सन्त्यार्द्रकेऽखिलाः ।भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणं ।अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनं
कुष्ठे पाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे ।दाहे निदाघशरदोर्नैव पूजितमार्द्रकं”
इति भावप्रकाशः
(तद्वदार्द्रकमेतच्च, इति वामटः
“रोचनं दीपनं वृष्यमार्द्रकं विश्वभेषजं ।वातश्लेष्मविबन्धेषु रसस्तस्योपदिश्यते”
इति चरकः
“कफानिलहरं स्वर्य्यं विबन्धानाहशूलनुत् ।कटूष्णं रोचनं हृद्यं वृष्यञ्चैवार्द्रकं स्मृतम्”
इति सुश्रुतः
)