| YouTube Channel

आर्द्रं (ArdraM)

 
शब्दकल्पद्रुमः
Sanskrit
आर्द्रं, त्रि, (अर्द्द + रक् दीर्घश्च ।) सजलवस्तु भिजाइति भाषा तत्पर्य्यायः सार्द्रं क्लिन्नं स्ति-मितं तिमितं समुन्नं उत्तं इत्यमरः
(तच्च द्विविधं यदुक्तं, --“आर्द्रं द्रव्यं द्विधा प्रोक्तं सरसं नीरसं तथा ।सदुग्धं गुप्तरसकं द्विधा नीरसमुच्यते
वास्तूकं सार्षपं शाकं निर्गुण्ड्येरण्डमार्षकम् ।धुस्तूराद्यमिदं सर्व्वमार्द्रं सरसमुच्यते
वटाश्वत्थकरीराद्यमार्द्रद्रव्यं तु नीरसं ।सदुग्धं तु द्विधा प्रोक्तं मृदु तीक्ष्णमिति क्रमात् ।शातला वज्रसीहुण्डसौरिण्याद्यास्तु तीक्ष्णकाः ।दुग्धिकार्कक्षीरिण्याद्या मृदुदुग्धाः प्रकीर्त्तिताः”
यथा रघुवंशे, “आर्द्राक्षतारोपणमन्वभूतां” ।मेघदूते उत्तरमेघे २५ ।“तन्त्रीमाद्रां नयनसलिलैः सारयित्वा कथञ्चित्”)